________________
१४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशद्दासी वाप्यम्भोऽन्यत्र नाय्यताम् ॥११६॥ तथा कृते तया चित्रदिव्याभरणमध्यगम् । अङ्गाराभं स्वाङ्गुलीयं दृष्ट्वा राजा विसिष्मिये ॥११७|| किमेतदिति राज्ञोक्ता दास्यवोचदिहाऽन्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥११८|| सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शेति भूपतिः ॥११९॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्राद्यैरचितश्च गृहं ययौ ॥१२०॥ पाइयेष शालिभद्रोऽपि यावत् संसारमोक्षणम् । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ॥१२१॥ आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूर्तो धर्म इवोद्याने धर्मघोषाभिधो मुनिः ॥१२२॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्चोपाविशत् पुरः ॥१२३।। स सूरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छ्यत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥१२४|| भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥१२५।। यद्येवं नाथ ! तद् गत्वा निजामापृच्छ्य मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥१२६।। न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ॥१२७।। qाधर्मः श्रीधर्मघोषस्य सूरेरद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥१२८।।
अकार्षीः साध्विदं वत्स ! पितुस्तस्याऽसि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥१२९।। सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥१३०।। साऽप्यवोचदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किं त्वत्र लोहचणकाश्चर्वणीया निरन्तरम् ॥१३१॥ सुकुमारः प्रकृत्याऽपि दिव्यैर्भोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥१३२।। शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे ॥१३३।। त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान् सहस्व च । इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा ॥१३४|| शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥१३५।। पाइतश्च तस्मिन्नगरे धन्यो नाम महाधनः । अभवच्छालिभद्रस्य कनिष्ठभगिनीपतिः ॥१३६।। शालिभद्रस्वसा साश्रुः स्नपयन्ती च तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ॥१३७|| व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भार्यां च तूलिकां चाऽहं हेतुना तेन रोदिमि ॥१३८|| य एवं कुरुते फेरुरिव भीरुस्तपस्व्यसौ । हीनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ॥१३९।। सुकरं चेद् व्रतं नाथ क्रियते किं न हि स्वयम् ? । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ॥१४०।। धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ॥१४१।। ता अप्यचः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षी: श्रियोऽस्मांश्च मनस्विन्नित्यलालिताः ॥१४२॥ अनित्यं स्त्रीधनाद्येतत् प्रोज्झ्य नित्यपदेच्छया । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥१४३|| त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥१४४॥
१. नी धातोः प्रेरककर्मणि प्रयोगः । २. तर्णकः बालवृषभः, स स्यन्दनं-रथं कथं वक्ष्यति-वोढुं समर्थः स्यात् ? । ३. तलिकां-शय्याम्, 'तळाई' इति भाषायाम् । ४. शृगालः । ५. सोपहासम् ।