________________
१३९
दशमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्याऽऽवर्जितः सोऽभूत् पुत्रवात्सल्यतत्परः ॥८५।। दिव्यानि वस्त्र-नेपथ्यादीनि तस्याऽनुवासरम् । सभार्यस्याऽर्पयामास कल्पशाखीव सोऽमरः ॥८६।। यद्यन्मोचितं कार्यं भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुङ्क्त केवलम् ॥८७|| पावणिग्भिः कैश्चिदन्येदुर्गृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांश्च महार्घत्वेन नाग्रहीत् ॥८८॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्पण तान् भद्राऽप्यग्रहीद् रत्नकम्बलान् ॥८९॥ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेल्लणादेव्या तदा च श्रेणिको नृपः ॥१०॥ राज्ञाऽप्यथैकं मूल्येन कम्बलं वणिजोऽथिताः । भद्रा जग्राह तान् सर्वान् कम्बलानिति तेऽवदन् ॥११॥ श्रेणिक : प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात् कम्बलादानहेतवे ॥९२॥ याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रोञ्छनीकृतवत्यहम् ॥१३॥ कार्यं निष्पद्यते किञ्चिज्जीर्णैश्चेद् रत्नकम्बलैः । तद् गत्वाऽऽपृच्छय राजानमागच्छाऽमून् गृहाण च ॥९४||
आख्यद् गत्वा स तद्राज्ञे राज्यूचे चेल्लणाऽप्यदः । पश्याऽस्माकं वणिजां च रीरिहेम्नोरिवाऽन्तरम् ॥९५।। पातमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥९६।। बहिर्नहि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! तद् गृहागमनेन मे ॥९७।। कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याऽथ साऽग्रे भूत्वा गृहं ययौ ॥९८।। विचित्रवस्त्र-माणिक्य-चित्रकत्वङ्मयीं ततः । आराजहवें स्वगृहादट्टशोभा व्यधत्त सा ॥९९॥ तयाऽऽहूतस्ततो राजा कृतां सद्यः सुरैरिव । विभावयन् हट्टशोभा शालिभद्रगृहं ययौ ॥१००|| स्वर्णस्तम्भोपरि प्रेक्षदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्धारभूतलम् ॥१०१।। दिव्यवस्वकृतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥१०२॥ तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुर्थ्यां च सिंहासन उपाविशत् ॥१०३।। पासप्तम्यां भुवि भदैत्य शालिभद्रमभाषत । इहाऽऽयातः श्रेणिकोऽस्ति तं द्रष्टुं क्षणमेहि तत् ॥१०४||
अम्ब ! त्वमेव यं वेत्सि तमथ कारय स्वयम् । किं मया तत्र कर्तव्यं ? स भद्रामित्यवोचत ॥१०५।। ततो भद्राऽप्युवाचैवं क्रेतव्यं वस्तु न ह्यदः । किं त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥१०६।। पातच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्यं यन्ममाऽप्यपरः प्रभुः ॥१०७॥ भोगिंभोगैरिवैभिर्मे भौगैरलमतः परम । दीक्षां मंक्ष ग्रहीष्यामि श्रीवीरचरणान्तिके ॥१०८।। एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद् विनयान्वितः ॥१०९।। सस्वजे श्रेणिकेनाथ स्वाले सुत इवाऽऽसितः । स्नेहाच्छिरसि चाऽऽघ्रातः क्षणादणि सोऽमुचत् ॥११०॥ ततो भद्रा जगादेवं देवाऽयं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥१११।। देवभूयं गतः श्रेष्ठी सभार्यस्याऽस्य यच्छति । दिव्यनेपथ्य-वस्त्रा-ऽङ्गरागादीन् प्रतिवासरम् ॥११२॥ ततो राज्ञा विसृष्टः स ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ॥११३।। भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत् सर्वं श्रीमतां किं न सिध्यति ? ॥११४||
सस्नौ स्नानीयतैलाम्बुचूर्णैस्तूर्णं ततो नृपः । अङ्गुलीयं तदङ्गुल्या गृहवाप्यां पपात च ॥११५।। १. पित्तल-सुवर्णयोः । २. तं-राजानं प्रतीक्ष्य-सम्भाव्य उपास्य वा । ३. सर्प-शरीरैः । ४. मानुषो० मु., नू. मु. ।