________________
१३८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व जगन्नाथोऽपि भव्यानामुपकारपराणः । विजहार ततः स्थानादन्येषु नगरादिषु ॥५६॥ पाइतश्च राजगृहस्य शालिग्रामे समाययौ । धन्येत्यभिधया योषित् काचिदुच्छन्नवंशिका ॥५७|| बालं सङ्गमकं नाम स्वसुतं सा सहाऽऽनयत् । कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् ॥५८।। सोऽर्भकस्तत्र पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरबालानां मृदुजीविका ॥५९।। [अथाऽपरेधुः सञ्जाते तत्र कस्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद् भुज्यमानं गृहे गृहे ॥६०॥ गत्वा स्वगेहे जननीं ययाचे सोऽपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गेहे पायसं कुतः ? ॥६१|| बालेनाऽज्ञतया तेन याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ॥६२।। तस्या रुदितदुःखेनाऽनुविद्धहृदया इव । आगत्य प्रतिवेशिन्यः पप्रच्छुर्दु:खकारणम् ॥६३।। ताभ्योऽभ्यधत्त सा दु:खकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥६४||
खण्डाज्यपायसै त्वा स्थालं बालस्य तस्य सा । आर्पयत् प्रययौ चाऽन्तर्गृहं कार्येण केनचित् ॥६५।। पाअत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणाय स तस्य नौः ॥६६॥ सोऽचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवाऽपशुः ॥६७॥ साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेदृक्पात्रसङ्गमः ? ॥६८|| भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥६९।। इति स स्थालमुत्पाट्य पायसं साधवे ददौ । जग्राहाऽनुग्रहकृते तस्य कारुणिको मुनिः ॥७०|| ययौ च स मुनिर्गेहान्मध्याद् धन्यापि निर्ययौ । मन्ये भुक्तमनेनेति ददौ सा पायसं पुनः ॥७१।।
तत्पायसमतृप्तः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥७२।। पातेन दानप्रभावेण सोऽथ राजगृहे पुरे । गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत् ॥७३।। शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यच्च सा ततः । भर्तुः शशंस तस्याः स सूनुः स्यादित्यचीकथत् ॥७४।। चेद्दानधर्मकर्माणि करोमीति बभार सा । दोहदं तत्तु गोभद्रः पूरयामास भद्रधीः ॥७५।। पूर्णे काले ततो भद्रा द्युतिद्योतितदिग्मुखम् । असूत तनयं रत्नं विदूरगिरिभूरिव ॥७६।। दृष्टस्वप्नानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधां शुभाम् ।।७७।। पापाल्यमानः स धात्रीभिः पञ्चभिर्ववृधे क्रमात् । किञ्चिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥७॥ संप्राप्तयौवनः सोऽथ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥७९॥ तत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥८०।। अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसम्पूर्णाः कन्यकाः पर्यणाययत् ॥८१॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिदिविषदामिव ॥८२॥ स विवेदाऽऽन्दमग्नो न रात्रिं न च वासरम् । तस्याऽऽपूरयतां भोगसामग्री पितरौ स्वयम् ॥८३।। पाश्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । विधिनाऽनशनं कृत्वा देवलोकं जगाम च ॥८४||
१. ०दुच्छिन्न० मु., नू. मु. । २. तारं तारं मु. । ३. प्राति० खं. ४ । ०वेश्मिन्यः मु., नू. मु. । ४. पात्रं च वित्तं खं. ४ । ५. तत्पुरे खं. १ । ६. ०भ्येत्य खं. ३ । ७. गोभद्रम् ।