________________
१३७
दशमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । स्फटिकाच्छजलप्रान्तविकटाम्भोजसुन्दरम् । मराल-सारसस्वान-प्रतिस्वानसमाकुलम् ॥२७|| सुद्धुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः ॥२८॥ नलिनीषु मरकतमयीषु परिवर्तिभिः । विभ्राजमानमधिकं स्वर्णाम्भोजैविकस्वरैः ॥२९॥ लोलकल्लोलमालाभिः पताकामालभारिणम् । जलकान्तविमानं तं शक्रोऽध्यास्त सुरैः सह ॥३०॥
(चतुभिः कलापकम्) चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः । गन्धर्वारब्धसङ्गीतदत्तकर्णो मनाग् मनाक् ॥३१॥ स्वामिपादपवित्रायां दत्तदृष्टिरधोभुवि । मर्त्यलोकमवातारीदमाधिपतिस्ततः ॥३२॥ (युग्मम्) नालेन मारकतेन राजितेष्वम्बुजन्मसु । सौवर्णेषु न्यस्तपादं सपादमिव पर्वतम् ॥३३॥ मणीमयदन्तकोशैर्दन्तैरष्टभिरूजितम् । देवदूष्यच्छन्नपृष्ठं प्रष्ठं त्रिदशदन्तिनाम् ॥३४||
पूर्वारूढसुरस्त्रीभिर्दत्तहस्तावलम्बनः । मर्त्यलोकावतीर्णोऽथाऽध्यारुरोह पुरन्दरः ॥३५।। (त्रिभिविशेषकम्) पाआगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः ॥३६॥ जलकान्तविमानान्तीलापुष्करिणीषु च । सङ्गीतकानि कमले कमले चाथ जज्ञिरे ॥३७|| प्रतिसङ्गीतकं चेन्द्रानुरूपविभवः सुरः । सामाजिकोऽभवद्दिव्यरूपनेपथ्यसुन्दरः ॥३८॥ एकैकस्य च देवस्य परिवारो महद्धिकः । मघोन इव संजज्ञे विश्वविस्मयकारणम् ॥३९।। विमाना तया शक्रः स्वयमेव विसिष्मिये । का कथा पुनरन्येषां तस्मादूनोनसम्पदाम् ? ॥४०॥ तत्र स्थितैः सुरनरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं पृथ्वीलुलद्धारः प्रणनाम पुनः पुनः ॥४१।। पादशार्णभद्रः शक्रस्य तया ऋद्ध्याऽथ दृष्टया । नगरद्धर्या ग्राम्य इव स्तम्भिताङ्गोऽभवत् क्षणम् ॥४२॥ दशार्णभद्रो दध्यौ च विस्मयस्मेरलोचनः । अहो ! शक्रविमानस्य शोभेयं भुवनोत्तरा ! ॥४३॥ अहो ! रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य च ! । अहो ! विभवविस्तारः पुरुहूतस्य कोऽप्यसौ ! ॥४४|| स्वसम्पदोऽभिमानोऽयं व्यधायि धिगहो ! मया । मम शक्रस्य चैतद्धि गोष्पदाऽब्ध्योरिवाऽन्तरम् ॥४५॥ अमुना ऋद्धिगर्वेण स्वात्मा तुच्छीकृतो मया । कूपभेक इवाऽभूवं प्रागदृष्टेशद्धिकः ॥४६|| एव भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः ॥४७॥ ऋद्ध्या यद्यप्यनेनाऽहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणादद्य पराजेष्ये तथाऽप्यमुम् ॥४८।। न केवलं विजेष्येऽमुं व्रतादानेन सम्प्रति । कारीनपि जेष्यामि भवभ्रमणकारिणः ॥४९॥ पाविवेकी चिन्तयित्वैवं दशार्णपुरभूपतिः । तत्रस्थ एव व्यमुचत् किरीट-कटकादिकम् ॥५०॥ दशार्णभद्रः कर्मद्रुमूलानीव समन्ततः । उच्चखानाऽथ शिरसः पञ्चभिर्मुष्टिभिः कचान् ॥५१॥ शक्रे संपश्यमानेऽथ विस्मयस्मेरचक्षुषि । स गत्वा गणभृत्पार्श्वे यतिलिङ्गमुपापदे ॥५२॥ गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रश्रमणो जगन्नाथमवन्दत ॥५३।। पाशक्रो बभाषे महात्मन्नहो ! किमपि पौरुषम् । तवेदममुनाऽजैषीर्मामप्यन्यस्य का कथा ? ॥५४|| इत्युक्त्वा तं नमस्कृत्य शक्रः स्वस्थानमभ्यगात् । मुनिर्दशार्णभद्रोऽपि सम्यग् व्रतमपालयत् ॥५५।।
१. श्रेष्ठम् । २. ०तैर्नरसुरै० मु., नू. मु. । ३. ०लुठ० खं. ४ । ४. ग्राम खं. १-४ ।