________________
१३६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
॥ अथ दशमः सर्गः ॥
इतश्च पुर्याश्चम्पायाः सुरासुरसमावृतः । क्रमेण विहरन् प्राप दार्णविषयं प्रभुः ॥१॥ दशार्णपुरमित्यस्ति नाम्ना तत्र महापुरम् । दशार्णभद्र इत्यासीत्तत्र राजा महद्धिकः ॥२॥ सभासीनं तदा सायं तमेत्योचुश्चरा इदम् । वीरो जिनपतिः प्रातः समेष्यति पुरेऽत्र ते ॥३॥ बभार तगिरा हृष्टो राजा रोमाञ्चकञ्चकम् । विदूरः स्तनितेनेव रत्नाङ्कुरकदम्बकम् ||४|| सभासमक्षमूचे च तया ऋद्ध्या प्रगे प्रभुम् । वन्दिष्ये न यया कश्चिद् ववन्दे त्रिजगत्यपि ।।५।। इत्युदित्वा च मन्त्र्यादीन् विसृज्य सकलानपि । जगामाऽन्तःपुरगृहं दशार्णपुरभूपतिः ॥६॥ वन्दिष्य एवमेवं च स्तोष्ये प्रातर्जगद्गुरुम् । इति चिन्तापरोऽनैषीत् कथञ्चिद् यामिनी स ताम् ॥७॥ पारवावनुदयत्येव स पार्थिवरविस्ततः । आहूय नगराध्यक्षप्रभृतीनेवमादिशत् ।।८।। मद्धाम्नः स्वामिसमवसरणस्य तथाऽन्तरे । मद्यानयोग्यं कर्तव्यं सर्वद्धर्या मार्गभूषणम् ॥९॥ इतश्च तत्र भगवान् पुराद् बहिरुपाययौ । देवैश्च तत्र समवसरणं च व्यरच्यत ॥१०॥ पातद्राजशासनं तेऽपि राजाऽऽयुक्ताः क्षणाद् व्यधुः । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् ॥११||
अशामि कुङ्कमाम्भोभी रजस्तद्राजवर्त्मनः । अकारि तन्मार्गमही पुष्पप्रकरदन्तुरा ॥१२॥ स्थाने स्थाने व्यधीयन्त काञ्चनस्तम्भतोरणाः । मञ्चाश्च सञ्चिताः स्वर्णभाजनश्रेणिशोभिताः ॥१३॥ विचित्राश्चित्रकत्वग्भिश्चीनवासोभिराचिताः । उड्डामराश्चामरैश्च रत्नादशैंः सुदर्शनाः ॥१४॥ उद्गन्धयो गन्धपुटपुटिकाभिः सहस्रशः । स्तम्भैर्वाभितो न्यस्तैरबध्यन्त च मालिकाः ॥१५॥ (युग्मम्) उद्दण्डैमण्डपैर्मेघाडम्बरश्रीविडम्बिभिः । मुक्तोच्चूलवदुल्लोचैरेकच्छायं व्यधीयत ॥१६॥ पदे पदे मुमुचिरे धूपघट्यः सपावकाः । निक्षिप्तागुरुकर्पूरधूमाङ्कुरितमण्डपाः ॥१७|| एवं दिवः खण्डमिव कृत्वा मार्ग नियोगिनः । राज्ञे व्यज्ञपयन् स्वामिदर्शनौत्सुक्यधारिणे ॥१८॥ पास्नात्वा राजाऽपि दिव्याङ्गरागः सर्वाङ्गभूषणः । शुचिवस्त्रधरः स्रग्वी गजमारोहदुत्तमम् ॥१९|| मूनि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाऽचलत् ॥२०॥ महार्य्यभूषणधरैः सामन्ताद्यैः सहस्रशः । सोऽन्वगम्यत भूपालः स्वै रूपैरिव वैक्रियैः ॥२१॥ सद्यस्तमनुचेलुश्च चलच्चामरराजिताः । पराजितशचीरूपा अन्त:पुरमृगीदृशः ॥२२॥ बन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्यमानस्वविज्ञानो मार्गालङ्कारकारिभिः ॥२३।। निरन्तरैर्नृपच्छत्रैर्भवन्नूतनमण्डपः । क्रमेण प्राप समवसरणं स महीपतिः ॥२४॥ स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचक्रे यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः ॥२५॥ पातद्धिगर्व विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः ॥२६।।
१. दशार्णा० खं. १ । २. विदूरस्त० खं. १ । ३. नितेनैव खं. ४ । ४. विदूरपर्वत: मेघगर्जनया वैडूर्यरत्नाङ्करसमूहं बिभर्ति तद्वत् । ५. त्रिजगत्पतिम् खं. १-४ । ६. योग्ये खं. १ । ७. ०शोभिनः खं. १-४ । ८. चित्रक: श्वापदविशेष: (चित्तो), तस्य चर्मभिः । ९. उत्कृष्टाः । १०. ०गुरु खं. १-४ । ११. सभायाम् । १२. स्वद्धि० मु. ।