SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ नवमः सर्ग:] श्रीत्रिषष्टिशलाकापुरुषचरितम् । १३५ तान् वन्दितुं ययुः पौरास्तेभ्यो धर्मं च शुश्रुवुः । न किं कौतूहलेनापि सुलसे ! गतवत्यसि ? ॥३०७॥ सुलसाऽपि बभाषे तं जानन्नपि किमज्ञवत् । जल्पस्येवं महाभाग ! के ब्रह्माद्यास्तपस्विनः ? ॥३०८॥ हिंसितुं शस्त्रभाजो ये स्त्रीभाजः सेवितुं च ताः । कमाख्यास्यन्ति ते धर्ममधर्मनिरताः स्वयम् ? ॥३०९।। भगवन्तं महावीरं जगदाप्तं निरीक्ष्य च । तद्धर्मं चोररीकृत्य द्रष्टुं तानुत्सहेत कः? ॥३१०॥ साधु साध्विति वदन्नथाम्बडः स्वं जगाम सदनं प्रमोदभाक् । धर्ममार्हतमनिन्द्यमुच्चकै हृधुवाह सुलसाऽपि सर्वदा ॥३११।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुस्षचरिते महाकाव्ये दशमपर्वणि हालिक-प्रसन्नचन्द्र-दर्दुराङ्कदेव-श्रेणिकभावितीर्थकरत्व-सालमहासाल-गौतमाष्टापदारोहणाम्बडसुलसाचरितवर्णनो नाम नवमः सर्गः ॥ Kvk १. कुतू० खं. ४ । २. ०थाम्मडः खं. १-३ ।
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy