________________
१३४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व सावित्रीसंयुतो हंसयानो धर्मं दिदेश सः । पौराणां च मनोऽहार्षीत् साक्षाद् ब्रह्मेतिमानिनाम् ॥२८१॥ बहिरस्ति स्वयं ब्रह्मेत्याहूताऽपि सखीजनैः । न ययौ सुलसा मिथ्यादृष्टिसंस्तवकातरा ॥२८२॥ अम्बश्च द्वितीयेऽह्नि याम्यायां गरुडासनः । शङ्ख-चक्र-गदा-शाी तस्थौ गोविन्दरूपभृत् ॥२८३।। अपि विष्णुप्रवादेन लोकव्यामोहकारिणा । नाऽऽययौ सुलसा तत्र सम्यग्दर्शननिश्चला ॥२८४|| अम्बंडोऽथ तृतीयेऽह्नि वारुण्यां वृषवाहनः । चन्द्रचूडो युतो गौर्या कृत्तिवासास्त्रिलोचनः ॥२८५।। भस्माङ्गरागः खट्वाङ्गी शूलपाणिः पिनाकभृत् । कपाली रुण्डमाली च नानागणसमावृतः ॥२८६।।
आख्यद्धर्मं हरो भूत्वा पौराणां च मनोऽहरत् । परमश्राविका सा तु तं द्रष्टुमपि नाऽऽययौ ॥२८७।। पाचतुर्थेऽहन्युत्तरस्यां स वात्रयशोभितम् । दिव्यं समवसरणं विचक्रे स्फारतोरणम् ॥२८॥ स्थितं तत्र जिनीभूय श्रुत्वा पौरा विशेषतः । ऋद्ध्या महत्याऽभ्येयुस्तं ततो धर्मं च शुश्रुवुः ॥२८९।। एवं सत्यप्यनायातां सुलसामम्बडोऽथ ताम् । कञ्चित् क्षोभयितुं प्रैषीद् गत्वा सोऽपीत्यवोचत ॥२९०।। सुलसे ! समवसृतो विश्रवस्वामी जिनेश्वरः । तदेहि भद्रे ! तत्पादान् वन्दितुं किं विलम्बसे ? ॥२९१।। सुलसाऽपि बभाषे तं न खल्वेष जगद्गुरुः । भगवान् श्रीमहावीरश्चतुर्विंशो जिनेशवरः ॥२९२।। सोऽपि च प्रत्युवाचैवं मुग्धे ! नन्वेष वर्तते । पञ्चविंशस्तीर्थकरः प्रत्यक्षमपि वीक्ष्यताम् ॥२९३।। सुलसाऽप्यब्रवीज्जातु पञ्चविंशो जिनो न हि । अयं कार्पटिकः कोऽपि लोकं वञ्चयते कुधीः ॥२९४|| सोऽप्यूचे मा कृथा भेदं शासनस्य प्रभावना । भद्रे ! भवत्येहि तत्र का ते हानिर्भविष्यति ? ॥२९५।। अवदत् सुलसाऽप्येवं शासनस्य प्रभावना । नैवं भवत्यलीकेन किं त्वपभ्राजनैव हि ।।२९६।। अचालितामेवमपि निरीक्ष्य सुलसां स्थिराम् । अम्बंडश्चिन्तयामास सञ्जातप्रत्ययो हृदि ॥२९७।। स्थाने जगद्गुरुरv सभायां समभावयत् । अचालि तस्याः सम्यक्त्वं माययाऽपि मया न हि ॥२९८॥ पाततः संवृत्य नि:शेषं प्रपञ्चं सुलसागृहे । स्वेनैव रूपेणाऽविक्षद्वदन्नैषेधिकीति सः ॥२९९।।
अभ्युत्तस्थौ सुलसा तमूचे च स्वागतं तव । धर्मबन्धो ! जगद्बन्धोर्वीरस्य श्रावकोत्तम ! ॥३००।। पादौ प्रक्षालयामास तस्य मातेव वत्सला । निजानि गृहचैत्यानि वन्दयामास चोच्चकैः ॥३०१।। स तच्चैत्यानि वन्दित्वा तामवोचत शुद्धधीः । नित्यानित्यानि चैत्यानि त्वं वन्दस्व गिरा मम ॥३०२।। ववन्दे भूतलन्यस्तमौलिश्चैत्यानि तानि सा । प्रत्यक्षाणीव पश्यन्ती भक्तिभावितमानसा ॥३०३।। स भूयः सुलसामूचे त्वमेका पुण्यवत्यसि । यस्या वार्ता स्वयं स्वामी मन्मुखेनाऽद्य पृच्छति ॥३०४||
आकर्ण्य तद्वचः साऽपि ववन्दे मुदिता प्रभुम् । रोमाञ्चितशरीराऽथ तुष्टाव स्पष्टया गिरा ॥३०५॥ पापरीक्षितुमना भूयस्तमूचे चतुरोऽथ सः । ब्रह्मादयोऽत्रावतेरुर्धर्मं च व्याचचक्षिरे ॥३०६।।
१. २. अम्मड० खं. १-३ । ३. चर्मवस्त्रावृतः । ४. मनोहरं खं. १ । ५. ०म्मडो० खं. १-३ । ६. किञ्चित् खं. ४ । ७. कपटी, ऐन्द्रजालिको वा । ८. अम्मड० खं. १-३ । ९. संहृत्य मु., नू. मु. ।।