________________
१३३
नवमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । प्रभुं प्रदक्षिणीकृत्य तेऽयु: केवलिपर्षदि । वन्दध्वं स्वामिनमिति तानभाषिष्ट गौतमः ॥२५४|| केवल्याशातनां मा स्म कार्षीरित्यवदत् प्रभुः । मिथ्यादुष्कृतपूर्वं तान् क्षमयामास गौतमः ॥२५५।। भूयोऽपि गौतमो दध्यौ सेत्स्याम्यत्र भवे न हि । गुरुकर्माऽहमेते तु धन्या मद्दीक्षिता अपि ॥२५६।। उत्पेदे केवलज्ञानं येषामेषां महात्मनाम् । एवं विचिन्तयन्तं तं भगवानित्यभाषत ॥२५७॥ ॥ युग्मम् ॥ किं सुराणां वचस्तथ्यं जिनानामथ गौतम ? । जिनानामिति तेनोक्ते मा कार्षीरधृति ततः ॥२५८|| *तृण-द्विदल-चर्मो-र्णाकटतुल्या भवन्ति हि । स्नेहा गुरुषु शिष्याणां तवोर्णाकटसन्निभः ॥२५९॥ अस्मासु चिरसंसर्गात् स्नेहो दृढतरस्तव । तेन रुद्धं केवलं ते तदभावे भविष्यति ॥२६०|| गौतमस्य प्रबोधार्थमन्येषां चाऽनुशिष्टये । व्याकरोद् द्रुमपत्रीयाध्ययनं परमेश्वरः ॥२६१।। अत्रान्तरे जगद्भर्तुश्चरणोपासकः परः । परिवोडम्बडस्तत्राऽऽययौ छत्री त्रिदण्डभृत् ॥२६२॥ स त्रिः प्रदक्षिणीकृत्य प्रणम्य च जिनेशवरम् । रोमाञ्चितवपुर्भक्त्या रचिताञ्जलिरस्तवीत् ॥२६३।। पा“तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मच्चित्ते वर्तसे चेत् त्वमलमन्येन केनचित् ॥२६४|| निगृह्य कोपतः कांश्चित् कांश्चित्तुष्ट्याऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥२६५।। अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ? ॥२६६।। वीतराग ! संपर्याऽपि तवाऽऽज्ञापालनं परम । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ॥२६७।। आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥२६८।। आश्रवो भवहेतुः स्यात् संवरो मोक्षकारणम् । इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥२६९।। इत्याज्ञाराधनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये क्वचन निर्वास्यन्ति तथाऽपरे ॥२७०।। हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥२७१॥" पाएवं जगद्गुरुं स्तुत्वा यथास्थानं निषद्य च । देशनां स्वामिनोऽश्रौषीत् स्वर्वासीवाऽनिमेषदृक् ॥२७२।। देशनान्ते प्रभुं नत्वा यावद् राजगृहं प्रति । अचालीदम्बडस्तावदित्यूचे स्वामिना स्वयम् ॥२७३।। तत्र नागरथिपत्न्याः सुलसायास्त्वमादरात् । प्रवृत्तिमस्मदादेशात् पृच्छे: पेशलया गिरा ॥२७४|| इच्छामीति भणित्वा स व्योम्ना राजगृहं ययौ । सुलसाया गृहद्वारे स्थित्वा चैवमचिन्तयत् ॥२७५।। सुरासुरनरेन्द्राणां पश्यतां त्रिजगत्पतिः । सुलसापक्षपाती किं ? करिष्ये तत्परीक्षणम् ॥२७६।। कृत्वा रूपान्तरं सोऽथ जातवैक्रियलब्धिकः । प्रविश्य सुलसागेहे सुधीभिक्षामयाचत ॥२७७|| पात्राय साधवे भिक्षां ददामीति कृताश्रवा । याचमानायापि तस्मै सुलसा न ददौ तदा ॥२७८।। पाततश्च निःसृत्य पुराद् द्वारि प्राग्गोपुरस्य सः । विकृत्य ब्रह्मणो रूपमवतस्थे समाहितः ॥२७९।। पद्मासनसमासीनश्चतुर्बाहुश्चतुर्मुखः । ब्रह्मसूत्र्यक्षसूत्री च जटामुकुटमण्डितः ॥२८०॥
१. केवल० खं. १-४ । २. ४. ०डम्मड० खं. १-३ । ३. सपर्याभिः नू. मु. । ५. कृतनिश्चया । *. चतुर्धा संयोगः-तृणद्वयस्य संयोग: सहजमेव वियुज्यते । द्विदलं मुद्गादि धान्यं, तस्य दलद्वयं स्वल्पप्रयत्नेनैव वियुज्यते । चर्मणः शरीरेण सह संयोगः कष्टेन वियुज्यते । ऊर्णानिमिते कटे तु तन्तवस्तथा एकरसीभावं प्राप्नुवन्ति यथा तत्र तन्तुद्वयं पृथक्कर्तुं न शक्यते, एवंविधस्तव मयि स्नेह:इत्याशयोऽत्रावबुध्यते ॥