________________
१३२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व भुञ्जेऽहं प्रथमं तावत् पश्चादेषां प्रहासिनाम् । करिष्यामि वधादीति चिन्तयन् स गृहं ययौ ॥२२६।। जघन्य-मध्यमो-त्कृष्टस्त्रिधाऽऽहारो यदृच्छया । प्रातः कपोतयूनेव तेनाऽऽकण्ठमभुज्यत ॥२२७।। भोगजागरणाद् रात्रावत्याहाराच्च दुर्जरात् । जज्ञे विसूचिका तस्य महत्यरतिरप्यभूत् ॥२२८।। उत्फुल्लमुदरं तस्य भस्त्रेवाऽनिलपूरिता । निरुद्धः पवनस्तृष्णादाहश्च समभून्महान् ॥२२९।। भ्रष्टप्रतिज्ञः पापोऽसाविति ध्यात्वा नियोगिभिः । अकारितचिकित्सोऽथ सोऽतिमानित्यचिन्तयत् ॥२३०॥ कथञ्चिद्यद्यमूं रात्रिमत्येष्यामि तदा प्रगे । सकुटुम्बान् हनिष्यामि सर्वानेतान्नियोगिनः ॥२३१।। एवं च कृष्णलेश्यावान् रौद्रध्यानी व्यपादि सः । उदपाद्यप्रतिष्ठाने नारकः सप्तमावनौ ॥२३२॥ पादिष्ट्या चिरेष्टो लब्धो यो धर्मस्तं गुरुसाक्षिकम् । करोमीति पुण्डरीकोऽप्यचालीत् सद्गुरुं प्रति ॥२३३।। समीपे सुगुरोर्गत्वा पुनरादाय स व्रतम् । पारणामष्टमस्यान्ते पुण्डरीकमुनिर्व्यधात् ॥२३४॥ अतिवेलैः शीतरूखैराहारैः पीडितो मृदुः । भूचारविगलत्पादासृगुद्भूतपरिश्रमः ॥२३५॥ याचित्वोपाश्रयं ग्रामे निषण्णस्तुणसंस्तरे । गर्वन्ते प्रव्रजिष्यामि कदा न्विति विचिन्तयन ॥२३६।। विहिताराधनः सम्यक् शुभध्यानपरायणः । पीनाङ्गोऽपि विपन्नः सन् स सर्वार्थमुपेयिवान् ॥२३७।। तत् पीनत्वं कृशत्वं वा न प्रमाणं तपस्विनाम् । शुभध्यानं हि परमपुरुषार्थनिबन्धनम् ॥२३८|| पाएतदर्थं पुण्डरीकाध्ययनं गौतमोदितम् । जग्राहैकसंस्थयापि श्रीदेसामानिकः सुरः ॥२३९।।
प्रतिपेदे स सम्यक्त्वं नत्वा वैश्रवणः पुनः । स्वाभिप्रायपरिज्ञानान्मुदितः स्वाश्रयं ययौ ॥२४०॥ पाएवं देशनया स्वामी गौतमोऽतीत्य तां निशाम् । प्रभाते चोत्तरन् शैलात् तापसैस्तैरदृश्यत ॥२४१।। तापसास्तं प्रणम्योचुर्महात्मंस्तपसां निधे ! । तव शिष्यीभविष्यामस्त्वमस्माकं गुरुभव ॥२४२।। तानूचे गौतमस्वामी गुरुर्मे परमेश्वरः । सर्वज्ञोऽर्हन्महावीरः स एव गुरुरस्तु वः ॥२४३|| अथ तानाग्रहपरान् दीक्षयामास गौतमः । सद्यो देवतया तेषां यतिलिङ्गं समर्पितम् ॥२४४॥ गौतमेन समं चेलुर्गन्तुं ते स्वामिनोऽन्तिके । सह यूथाधिपतिना विन्ध्याद्रौ कुञ्जरा इव ॥२४५।। पापथ्येकस्मिन् सन्निवेशे भिक्षाकाले गणाग्रणी: । किं वः पारणकायेष्टमानयामीत्युवाच तान् ॥२४६।। तैश्च पायसमित्युक्ते गौतमो लब्धिसम्पदा । स्वकुक्षिपूरणमात्रं पात्रे कृत्वा तदानयत् ॥२४७|| इन्द्रभूतिर्बभाषे तान्निषीदत महर्षयः ! । पायसेनाऽमुना यूयं सर्वे कुरुत पारणम् ॥२४८।। पायसेनेयता किं स्यात्तथापि गुरुरेष नः । एवं विमृश्य ते सर्वे मुनयः समुपाविशन् ॥२४९।। तान् महानसलब्ध्येन्द्रभूतिः सर्वानभोजयत् । स्वयं तु बभुजे पश्चात्तेषां जनितविस्मयः ॥२५०॥ दिष्ट्या धर्मगुरुवीरः प्राप्तोऽस्माभिर्जगदगुरुः । पितृकल्पो मुनिश्चैष बोधिश्चाऽत्यन्तदुर्लभा ॥२५१|| सर्वथा कृतपुण्याः स्म इति भावयतामभूत् । भुञ्जानानां केवलं द्राक् तत्र सेवालभक्षिणाम् ॥२५२।। जज्ञे च प्रातिहार्याणि दादीनां प्रपश्यताम् । कौण्डिन्यादीनां श्रीवीरं केवलज्ञानमुज्ज्वलम् ॥२५३॥
१. गृहे खं. १ विना । २. विशू० खं. १-४ । विषू० खं. ३ । ३. सेवकैः । ४. ०वनिम् खं. १ । ५. सद्गुरो० खं. ३-४ । ६. श्रलोकोऽयं न खं. १ । ७. मुक्तपादत्राणाभ्यां पादाभ्यां भुवि चरणेन विगलत्पादाभ्यां निर्गतशोणितो जातश्रमश्च । ८. एकाग्रभावेन । ९. श्रीदः खं. १ । कुबेरस्यैक: सामानिको देवः । १०. गौतमः खं. १-३ । ११. शेवाल० खं. १ । १२. प्रातिहार्याणि पश्यतां दत्तादीनां श्रीवीरं च पश्यतां कौण्डिन्यादीनां केवलज्ञानं जज्ञे इत्यन्वयः । १३. दिन्ना० खं. १-३ ।