________________
नवमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१३१ देशनां कुर्वता तेन प्रस्तावादिदमौच्यत । अस्थिचर्मावशिष्टाङ्गाः किडित्किडिसिन्धयः ॥१९८|| ग्लानिभाजो ब्रुवन्तोऽपि जीवसत्त्वेन गामिनः । तपोभिरुग्रैरीक्षा भवन्ति खलु साधवः ॥१९९।। तत्तु श्रुत्वा वैश्रवणस्तस्य स्थौल्यं विभावयन् । स्वस्मिन्नपि विसंवादि वचोऽस्येत्यहसन्मनाक् ॥२००।। इन्द्रभूतिर्मनोज्ञानी ज्ञात्वा तद्भावमब्रवीत् । नाङ्गकाऱ्या प्रमाणं स्यात् किं त्वहो ध्याननिग्रहः ॥२०१|| पातथाहि जम्बूद्वीपेऽस्मिन्महाविदेहभूषणे । विजये पुष्कलावत्यामस्ति पू: पुण्डरीकिणी ॥२०२।। महापद्मो नृपस्तत्र तस्य पद्मावती प्रिया । पुण्डरीक-कण्डरीको तयोः पुत्रौ बभूवतुः ॥२०३|| अन्यदा नलिनवनोपवने समुपेयुषाम् । साधूनां सन्निधौ धर्मं महापद्मपोऽशृणोत् ॥२०४।। न्यस्य राज्ये पुण्डरीकं महापद्मोऽग्रहीद् व्रतम् । उत्पन्नकेवलः कर्मक्षयान्मोक्षमगात् क्रमात् ॥२०५।। साधवः पुण्डरीकिण्यां तेऽन्यदा पुनराययुः । पुण्डीक-कण्डरीको धर्मं शुश्रुवतुस्ततः ॥२०६।। तत्र भावयतिर्भूत्वा पुण्डरीको गृहं ययौ । समक्षं मन्त्रिणां चैवं कण्डरीकमभाषत ॥२०७|| इदं वत्स ! समादत्स्व राज्यं पैतृकमुच्चकैः । भवाद् भीतो ग्रहीष्यामि दीक्षां तद्भयरक्षिणीम् ॥२०८॥ प्रत्यूचे कण्डरीकोऽपि किं पातयसि मां भवे ? । तदहं प्रव्रजिष्यामि तरिष्यामि भवार्णवम् ॥२०९।। ततो द्विस्त्रिश्च राज्यार्थे राज्ञोक्तं नाऽकरोद्यदा । तदा व्रतेऽनुजज्ञे स शिष्टश्चैवं हितैषिणा ॥२१०॥ दुर्जयानीन्द्रियाणीह चञ्चलं च सदा मनः । विकारधाम तारुण्यं प्रमादः सहजो नृणाम् ॥२११॥ परीषहोपसर्गाश्च दुःसहा वत्स ! तत्त्वया । भाव्यं दृढप्रतिज्ञेन प्रव्रज्या दुष्करा खलु ॥२१२॥ यदि वा श्रावकधर्मं राज्यं च परिपालय । अतीते यौवने दीक्षामाददीथास्तदोचिताम् ॥२१३।। कण्डरीकोऽप्युवाचैवं सत्यमेतत्तथापि हि । प्रजल्पितं विधातव्यं प्रव्रजिष्यामि निश्चितम् ॥२१४|| प्रावाजीत् कण्डरीकोऽथ पुण्डरीकस्तु भूपतिः । व्रतान्निषिद्धः सचिवैस्तस्थौ भावयतिर्गृहे ॥२१५|| कण्डरीकोऽपि विविधैस्तपोभिः क्लिष्टविग्रहः । सामाचारीपालनतः साधूनामभवत् प्रियः ॥२१६।। पावसन्तसमयेऽन्येधुर्जुम्भमाणे मनोऽचलत् । महर्षेः कण्डरीकस्य चारित्रावरणोदयात् ॥२१७||
अचिन्तयच्च पर्याप्तं मम प्रव्रज्ययाऽनया । गत्वा राज्यमुपादास्ये भ्रात्रा दत्तं पुराऽपि यत् ॥२१८|| इत्यागात् पुण्डरीकिण्यां स्थित्वोद्याने तरौ क्वचित् । पात्राद्यालम्ब्य हरितनस्तरे शीतलेऽलुठत् ॥२१९।। उद्यानपालेनाऽऽत्मानं स राज्ञेऽज्ञापयद् द्रुतम् । सप्रधानो नृपस्तत्राऽभ्यागत्य तमवन्दत ॥२२०॥ वृक्षबद्धोपकरणो हरित्कायस्थ एककः । मन्येऽसौ व्रतनिविण्ण इति ज्ञात्वाऽब्रवीन्नृपः ॥२२१।। पाभोः ! भोः ! सर्वे स्मरथ किं यन्मे वारयतोऽमुना । तदा गृहीतं श्रामण्यं बालेन रभसावशात् ? ॥२२२।। इत्युदित्वा पुण्डरीकः कण्डरीकं तदथिते । राज्ये निवेशयामास राज्यचिह्नानि चाऽऽर्पयत् ॥२२३।। पुण्डरीकनृपस्तस्माद्यतिलिङ्गान्युपाददे । स्वयमात्तपरिव्रज्यः शुद्धधीर्व्यहरत्ततः ॥२२४॥ पाभग्नव्रतः कृशो रङ्क इवाऽन्नार्थीति सेवकैः । हस्यमानः कण्डरीकश्चुकोप हृदयेऽधिकम् ॥२२५।। १. किडिति खं. १-४ । २. वक्तुमप्यशक्ताः किन्तु आत्म-सत्त्वबलेनैव विहरन्तः । ३. गौतमस्य देहस्थूलतां विचारयन् । ४. गौतमस्य वचनं स्वस्यैव तस्य शरीरेण समं विरुध्यते इति विचार्य सोऽहसत् । ५. दुर्जयाणी खं. १-४ । ६. ०माणो खं. १ । ७. ०भवत् खं. १ । ८. हरिततृणाङ्करमयभूमौ ।