________________
१३० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अथ साल-महासालौ विरक्तौ भववासतः । श्रीमहावीरपादाब्जमूले जगृहतुव्रतम् ॥१६९॥ प[कालान्तरेण विहरन् भगवान् सपरिच्छदः । चतुस्त्रिंशदतिशयो ययौ चम्पां महापुरीम् ॥१७०॥
स्वामिनोऽनुज्ञया साल-महासालर्षिसंयुतः । ततः पुरीं पृष्ठचम्पां गौतमो गणभृद् ययौ ॥१७१।। ववन्दे गौतमं तत्र भक्तितो गार्गलिनृपः । तन्मातापितरावन्ये पौरामात्यादयोऽपि च ॥१७२।। तत्राऽऽसीनः सुरकृते सौवर्णे कमलासने । इन्द्रभूतिश्चतु नो विदधे धर्मदेशनाम् ॥१७३।। गागलिः प्रतिबुद्धोऽथ राज्ये न्यस्य निजं सुतम् । दीक्षां गौतमपादान्ते पितृभ्यां सममाददे ॥१७४|| स तैस्त्रिभिः साल-महासालाभ्यां च समावृतः । चचाल गौतममुनिश्चम्पायां वन्दितुं प्रभुम् ॥१७५।। अनुगौतममायातां पञ्चानामपि वर्त्मनि । शुभभाववशात्तेषामुदपद्यत केवलम् ॥१७६।। प्राप्ताः सर्वेऽपि चम्पायां पुर्यां तत्र जिनेशवरम् । ते प्रदक्षिणयामासुः प्रणनाम तु गौतमः ॥१७७|| तीर्थं नत्वाऽथ ते पञ्च चेलः केवलिपर्षदि । तानचे गौतमो हन्त वन्दध्वं परमेशवरम् ॥१७८||
स्वाम्यूचे गौतमर्षे ! मा केवल्याशातनां कृथाः । गौतमोऽप्यक्षमयत्तान्मिथ्यादुष्कृतपूर्वकम् ॥१७९।। पाखिन्नोऽथ गौतमो दध्यौ न किमुत्पत्स्यते मम । केवलज्ञानमिह च भवे सेत्स्यामि किं नहि ? ॥१८०॥ योऽष्टापदे जिनान्नत्वा वसेद् रात्रिं स सिध्यति । भवेऽत्रैवेत्यर्हदुक्तं वक्तृन् सोऽथास्मरत् सुरान् ॥१८१।। देवतावाक्प्रत्ययेन तदानीं गौतमो मुनिः । इयेषाऽष्टापदं गन्तुं तीर्थकृद्वन्दनाकृते ॥१८२।। तदिच्छां तापसबोधं चार्हन् विज्ञाय भाविनम् । आदिदेशाऽष्टापदेऽर्हद्वन्दनायाथ गौतमम् ॥१८३।। इच्छाऽनुरूपस्वाम्याज्ञामुदितो गौतमो मुनिः । वायुवच्चारणलब्ध्या क्षणादष्टापदं ययौ ॥१८४|| पाइतश्चाऽष्टापदं मोक्षहेतुं श्रुत्वा तपस्विनः । कौण्डिन्य-दत्त-सेवाला आरोढुं समुपस्थिताः ॥१८५।।
चतुर्थकृत् सदाप्याद्य आर्द्रकन्दादिपारणः । प्रापाऽऽद्यां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ॥१८६।। द्वितीयः षष्टकृत्प्राप शुष्ककन्दादिपारणः । द्वितीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ॥१८७|| तृतीयोऽष्टमकृत्प्राप शुष्कसेवालपारणः । तृतीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ॥१८८।। ऊर्ध्वमारोढुमसहास्ते तस्थुर्यावदुन्मुखाः । ददृशुर्गौतमं तावत् स्वर्णाभं पीवराकृतिम् ॥१८९।। ते मिथः प्रोचिरे शैलं वयमेतं कृशा अपि । न रोढुमीश्महे स्थूल आरोक्ष्यत्येष तत् कथम् ? ॥१९०॥ एवं तेषु ब्रुवाणेषु गौतमस्तं महाचलम् । समारुरोह जज्ञे चाऽदृश्य: सुर इव क्षणात् ॥१९१॥ तेऽन्योऽन्यं जगदुः शक्तिर्महर्षेरस्य काऽप्यसौ । यद्यायास्यत्यसौ शिष्यीभविष्यामोऽस्य तद्वयम् ॥१९२।। निश्चित्यैवं तापसास्ते प्रत्यायान्तं स्वबन्धुवत् । आबद्धरणरणकाः प्रतीक्षन्ते स्म सादरम् ॥१९३।। पागौतमोऽपि ययौ चैत्यं भरतेशवरकारितम् । नन्दीश्रवरस्थचैत्याभं चतुर्विंशजिनाङ्कितम् ॥१९४।।
अवन्दिष्टाऽर्हतां तत्र स चतुर्विशतेरपि । बिम्बान्यप्रतिबिम्बानि भक्त्या परमया युतः ॥१९५।। पानिर्गत्य गौतमश्चैत्यात्तलेऽशोकमहातरोः । उपाविशद् वन्द्यमानः सुरा-सुर-नभश्चरैः ॥१९६।।
चक्रे च गौतमस्तेषां यथाऽहं धर्मदेशनाम् । सन्देहांश्चाऽच्छिदत् पृष्टस्तर्कितः केवलीति तैः ॥१९७|| १. गाङ्गलि० खं. १ । २. ०भूतिः श्रुतज्ञानी खं. ४ । ३. आगच्छताम् । ४. तापसम्बोधं मु. । ५. कौण्डिन्याः, दत्ताः, सेवाला:सेवालभक्षिणश्चेति त्रिप्रकारास्तपस्विनः । ६. एकेऽह्नि द्विर्भोजनं, द्वितीयेऽह्नि चैकं भोजनं, एवं त्रीणि भोजनानि-भक्तानि त्यक्त्वा चतुर्थमेव भक्तं गृह्णानास्ते कौण्डिन्याः 'चतुर्थकृत' उच्यन्ते । ७. पञ्च भोजनानि त्यक्त्वा षष्ठमेव गृह्णानाः दत्ताभिधाः । ८. सप्त भोजनानि त्यक्त्वाऽष्टममेव गृह्णन्तः सेवालाः । ९. रणरणकः उद्वेगः ।