________________
नवमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । शुभानामशुभानां वा फलं प्राग्बद्धकर्मणाम् । भोक्तव्यं तद्वयमपि नान्यथा कर्तुमीश्महे ॥१४१।।
आद्यो भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् ! खेदं मा स्म कृथास्ततः ॥१४२॥ पाश्रेणिकोऽप्यवदन्नाथ ! किमुपायोऽस्ति कोऽपि सः । नरकायेन रक्ष्येऽहमन्धकूपादिवाऽन्धलः ? ॥१४३।। भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षां दापयसे मुदा ॥१४४।। कालसौकरिकेणाऽथ सनां मोचयसे यदि । तदा ते नरकान्मोक्षो राजन ! जायेत नाऽन्यथा ॥१४५॥ सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ॥१४६।। पाअत्रान्तरे परीक्षार्थं दर्दुराङ्केन भूपतेः । अकार्यं विदधत्साधुः कैवर्त इव दर्शितः ॥१४७|| तं दृष्ट्वा प्रवचनस्य मालिन्यं मा स्म भूदिति । निवार्याऽकार्यतः साम्ना स्वगृहं प्रत्यगान्नृपः ॥१४८|| स देवो दर्शयामास साध्वीमुदरिणी पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥१४९॥ प्रत्यक्षीभूय देवोऽपि तमूचे साधु साधु भोः ! । सम्यक्त्वाच्चाल्यसे नैव पर्वतः स्वपदादिव ॥१५०।। नृनाथ ! यादृशं शक्रः सदसि त्वामवर्णयत् । दृष्टस्तादृश एवासि मिथ्या वाचो न तादृशाम् ॥१५१॥ दिवा निर्मितनक्षत्रश्रेणिकं श्रेणिकाय सः । व्यश्राणयत्ततो हारं गोलकद्वितयं तथा ॥१५२।। योऽमुं सन्धास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य तिरोधत्त स्वप्नदृष्ट इवाऽमरः ॥१५३।। पादिव्यं देव्यै ददौ हारं चेल्लणायै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा ॥१५४|| दानस्याऽस्यास्मि योग्येति सेयँ नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तम्भे तद् गोलकद्वयम् ॥१५५|| एकस्मात् कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवाऽमलम् । देदीप्यमानमन्यस्मात् क्षौमयुग्मं च निःसृतम् ॥१५६।। तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः ॥१५७।। पाराजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चयैः ॥१५८॥ कपिलोचे विधत्से मां सर्वां स्वर्णमयीं यदि । हिनस्सि वा तथाप्येतदकृत्यं न करोम्यहम् ॥१५९।। कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत् । दास्येऽर्थं बहुमर्थस्य लोभात्त्वमसि सौनिकः ॥१६०|| सूनायां ननु को दोषो यया जीवन्ति मानवाः ? । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ॥१६१।।
सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति ? । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ! ॥१६२।। पाअथ विज्ञापयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ! ॥१६३।। सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतान् पञ्च महिषाणां स्वयं निर्माय मृन्मयान् ॥१६४|| तद् गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः । धिगहो ! मे पुराकर्म नान्यथा भगवगिरः ॥१६५।। पाश्रीवीरोऽपि ततः स्थानाद् विहरन् सपरिच्छदः । सुरासुरैः सेव्यमानः पृष्ठचम्पापुरी ययौ ॥१६६।। सालो राजा महासालो युवराजश्च बान्धवौ । त्रिजगद्बान्धवं वीरं तत्र वन्दितुमीयतुः ॥१६७।।
श्रुत्वा तौ देशनां बुद्धौ जामेयं गागलिं स्वयम् । यशोमती-पिठरयोः सुतं राज्येऽभ्यषिञ्चताम् ॥१६८॥ १. धीवरः । २. गर्भवतीम् । ३. तादृशाः खं. १-२, मु., नू. मु. । ४. दिवसेऽपि नक्षत्रश्रेणिरुदितेव देदीप्यमानं हारम् । ५. भिक्षायाचनरहितां, धनसमृद्धामित्यर्थः । ६. हिनत्सि खं. १-३ । हिनस्ति खं. ४ । ७. ०प्येतद् दुःकृत्यं खं. ४ । ८. जीववधम् । ९. वधकः । १०. मानुषाः खं. ३ । ११. ०ष्यसि खं. ४ । १२. विज्ञप० खं. १ । १३. जलहीनकूपे । १४. ०मेयतुः खं. ४ विना । १५. भगिनीपुत्रम् ।