________________
१२८
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
नीरं तीरतरुस्रस्तपत्रपुष्पफलं द्विजः । ग्रीष्ममध्यन्दिनार्कांशुक्वथितं क्वाथवत् पौ ॥ १११ ॥ सोऽपाद्यथा यथा वारि भूयो भूयस्तृषातुरः । तथा तथा विरेकोऽथ तस्याभूत् कृमिभिः सह ॥११२॥ स नीरुगासीत्कियद्भिरप्यहोभिर्हृदाम्भसा । मनोज्ञावयवो जज्ञे वसन्तेनेव पादपः ॥११३॥ आरोग्यहृष्टो ववले विप्रः क्षिप्रं स्ववेश्मनि । पुंसां वपुर्विशेषोत्थः शृङ्गारो जन्मभूमिषु ॥११४॥ पुर्यां स प्रविशन् पौरैर्ददृशे जातविस्मयैः । देदीप्यमानो निर्मुक्तर्निर्मोक इव पन्नगः ॥ ११५ ॥ पौरेः पृष्टः पुनर्जात इवोल्लाघः कथं न्वसि ? । देवताराधनादस्मीत्याचचक्षे स तु द्विजः ||११६॥ स गत्वा स्वगृहेऽपश्यत् स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफलं साधु दत्तमित्यवदच्च तान् ॥११७॥ सुतास्तमेवमूचुश्च भवता तात ! निर्घृणम् । विश्रवस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् ? ॥११८॥ लोकैराकुश्यमानः स राजन्नागत्य ते पुरम् । आश्रयज्जीविकाद्वारं द्वारपालं निराश्रयः ॥ ११९ ॥ तदाऽत्र वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम् । श्रोतुं प्रचलितोऽमुञ्चत्तं विप्रं निजकर्मणि ॥१२०॥ द्वारोपविष्टः स द्वारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवाऽभुङ्क्त यथेष्टं कष्टितः क्षुधा ॥१२१॥ आकण्ठं परिभुक्तान्नदोषाद् ग्रीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाऽऽकुलः ॥१२२॥ तच्च द्वाःस्थभिया स्थानं त्यक्त्वा नाऽऽगात् प्रपादिषु । स तु वारिचराञ्जीवान् धन्यान् मेने तृषातुरः || १२३ || आरटन् वारि वारीति स तृषार्तो व्यपद्यत । इहैव नगरद्वारवाप्यामजनि दर्दुरः ॥ १२४॥ [विहरन्तो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्मद्वन्दनार्थं च प्रचचाल ससंभ्रमः ॥१२५॥ अस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं क्वाप्येवं श्रुतपूर्व्यहम् ॥१२६॥ ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वप्नस्मरणवज्जातिस्मरणं तत्क्षणादभूत् ॥१२७॥ स दध्यौ दर्दुरश्चैवं द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं वन्दितुमगात् स आगाद् भगवानिह ॥१२८॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा न हि कस्यापि पैतृक ॥१२९ ॥ ततोऽस्मद्वन्दनाहेतोरुत्प्लुत्योत्प्लुत्य सोऽध्वनि । आयांस्तेऽश्रवखुरक्षुण्णो भेकः पञ्चत्वमाप्तवान् ॥१३०॥ दर्दुराङ्कोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ! ॥ १३१ ॥ इन्द्रः सदस्युवाचेदमुपश्रेणिक मार्हताः । अश्रद्दधानस्तदसौ त्वत्परीक्षार्थमागतः ॥१३२॥ गोशीर्षचन्दनेनाऽयमार्चयच्चरणौ मम । त्वद्द्वष्टिमोहनायाऽन्यत्सर्वं व्यधित वैक्रियम् ॥१३३॥ [[अथोचे श्रेणिकः स्वामिन्नमङ्गल्यं प्रभोः क्षुते । एषोऽन्येषां तु मङ्गल्यामङ्गल्यानि किमभ्यध ? ॥१३४॥ अथाऽऽचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि ? । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेति सोऽवदत् ॥१३५॥ स त्वामवोचज्जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल ! मृतस्य हि गतिस्तव ॥ १३६ ॥ जीवन् धर्मं विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाऽभयमभाषत ॥१३७॥ जीवन् पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोक्तो मा जीव मा मृथाः ॥ १३८ ॥ [[तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ ! कथं मे नरके गतिः ? ॥१३९॥ बभाषे भगवानेवं पुरा त्वमसि भूपते ! । बद्धायुर्नरकं (के ?) तेन तत्राऽवश्यं गमिष्यसि ॥१४०॥
[ दशमं पर्व
१. निर्मोकः कञ्चुकः । २. निर्घृण ! मु. । ३. चिन्त्योऽयं प्रयोग इत्याभाति । ० वमभयस्तेन भाषितः इति स्यात् । सुरोऽभयमभाषत इति वा स्यात् ।