________________
नवमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१२७ ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षम: ? ||८२।।
चम्पाधिपतिरेकाङः कांदिशीकः पलायितः । तस्य हस्त्यश्रवकोशादि कौशाम्बीपतिरग्रहीत ॥८३॥ पाहृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विप्रं ब्रूहि तुभ्यं ददामि किम् ? ॥८४|| विप्रस्तमूचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणीं विना ॥८५।। भट्टः प्रहृष्टो भट्टिन्यै तदशेषं शशंस सः । चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी ॥८६।। यद्यमना ग्राहयिष्ये नपाद ग्रामादिकं तदा । करिष्यत्यपरान दारान मदाय विभवः खल ॥८७।। दिनं प्रत्येक आलोचस्तथाऽग्रासन-भोजनम् । दीनारो दक्षिणायां च याच्योऽथेत्यन्वशात् पतिम् ॥८८।। ययाचे तत्तथा विप्रो राजाऽदात् तद् वदन्निदम् । करङ्कोऽब्धियपि प्राप्य गृह्णात्यात्मोचितं पयः ॥८९॥ प्रत्यहं तत्तथा लेभे प्राप सम्भावनां च सः । पुंसां राजप्रसादो हि वितनोति महार्घताम् ॥१०॥ राजमान्योऽयमित्येष लोकैनित्यं न्यमन्त्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ? ॥९१॥ अग्रे भुक्तं वालयित्वा बुभुजेऽनेकशोऽपि सः । प्रत्यहं दक्षिणालोभाद् धिग् धिग् लोभो द्विजन्मनाम् ॥९२।। उपाचीयत विप्रः स विविधैर्दक्षिणाधनैः । प्रासरत् पुत्र-पौत्राद्यैः पादैरिव वटद्रुमः ॥९३।। स तु नित्यमजीर्णान्नवमनादूर्ध्वगै रसैः । आमैरभूद् दूषितत्वगश्रवत्थं इव लाक्षया ॥९४|| कुष्ठी क्रमेण संजज्ञे शीर्णघ्राणांह्रिपाणिकः । तथैवाऽभुक्त राजाग्रे सोऽतृप्तो हव्यवाडिव ॥९५|| पाएकदा मन्त्रिभिभूपो विज्ञप्तो देव ! कुष्ठ्यसौ । संचरिष्णुः कुष्ठरोगो नास्य योग्यमिहाऽऽशनम् ॥९६।। सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । न्यङ्गितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥९७|| एवमस्त्विति राज्ञोक्तेऽमात्यैर्विप्रस्तथोदितः । स्वस्थानेऽस्थापयत् पुत्रं गृहे तस्थौ स्वयं पुनः ॥९८|| मधुमण्डकवत् क्षुद्रमक्षिकाजालमालितः । पुत्रैर्गृहादपि बहि: कुटीरेऽक्षेपि स द्विजः ॥९९॥ बहि:स्थितस्य तस्याऽऽज्ञां पत्रा अपि न चक्रिरे । दारुपात्रे दद: किन्त शनकस्येव भोजनम ॥१०॥ जग्मुश्च तं भोजयितुं सजुगुप्सां स्नुषा अपि ! तिष्ठिवुश्च वलद्ग्रीवं मोटनोत्पुटनासिकाः ॥१०१।। qाअथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कताः । एभिर्मक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥१०२।। तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी । कुष्ठी रुष्टो न संतुष्टो भव्य इत्यनुलापिनः ॥१०३।। जुगुप्सन्ते यथैते मां जुगुप्स्याः स्युरमी अपि । यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् ॥१०४॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः ! मुमूर्षुभिः कुटुम्बस्य देयो मन्त्रोक्षितः पशुः ॥१०५।। पशुरानीयतामेक इत्याऽऽकानुमोदिनः । आनिन्यिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः ॥१०६।। उद्वोद्वर्त्य च स्वाङ्गमन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी बभूव सः ॥१०७|| ददौ विप्रः स्वपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते ॥१०८|| तीर्थे स्वार्थाय यास्यामीत्यापृच्छय तनयान् द्विजः । ययावूर्ध्वमुखोऽरण्यं शरण्यमिव चिन्तयन् ॥१०९।।
अत्यन्ततृषितः सोऽटन्नटव्यां पयसे चिरम् । अपश्यत् सुहृदमिव देशे नानाद्रुमे हृदम् ॥११०|| १. विचारस्थानम् । २. ऽग्राहयिष्यं खं. १ । ३. आलोचः दर्शनम् । ४. घटः । ५. महार्थताम् मु. । ६. वमयित्वा मु. । ७. दूषिता त्वक् यस्य सः । ८. पिप्पलः । ९. अग्निः । १०. ०मिहासनम् मु., नू. मु. विना । ११. खण्डितप्रतिमायाम् । १२. मधुच्छत्रम् 'मधपूडो' इति भाषायाम् । १३. निष्ठी० मु. । तिष्ठन्तु च खं. ३ । थूत्कारं चक्रुः । १४. मोटनेन उत्पुटा नासिका यासां ताः। १५. जलाशयं नौकया ती| पश्चात्, नौकां (तरण्ड) यथा मुञ्चन्ति तद्वत् ।