________________
१२६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व भावी जम्ब्वाख्यया शिष्यो मच्छिष्यस्य सुधर्मणः । ततोऽनग्रेसरमसावर्जयिष्यति केवलम् ॥५५॥ राजाऽपृच्छत् पुनर्नाथमासन्नच्यवनोऽप्यसौ । कस्मान्न मन्दतेजस्को ? देवा ह्यन्तेऽल्पतेजसः ॥५६॥ स्वाम्यूचे साम्प्रतमयं मन्दतेजाः सुरः खलु । अस्य तेजः पूर्वपुण्यैरत्युत्कृष्टं पुरा ह्यभूत् ॥५७।। एवमाख्याय भगवान् सर्वभाषाजुषा गिरा । विदधे दुरितप्रत्यादेशनी धर्मदेशनाम् ॥५८॥ पातदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ॥५९॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥६०|| तद्वीक्ष्य श्रेणिकः क्रुद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यज्जगद्भर्तर्येवमाशातनापरः ॥६१॥ पाअत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति ॥६२।।
क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥६३।। जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद् भटान् ॥६४|| पादेशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव सूकरः ॥६५॥
स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताऽम्बरे कुर्वन्नर्कबिम्बविडम्बनाम् ॥६६।। पत्तिभिः कथिते राज्ञा स कः कुष्ठीति विस्मयात् । श्रवो विज्ञप्तः प्रभुस्तस्मै देवः स इति शस्तवान् ॥६७||
पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष ? कुष्ठी वा केन हेतुना ? ||६८॥ पाअथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः ॥६९।। तस्यां नगर्यामेकोऽभून्नामत: सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः ॥७०|| गर्भिण्याऽभाणि सोऽन्येााह्मण्या सूतिकर्मणे । भट्टाऽऽनय घृतं मह्यं सह्या न ह्यन्यथा व्यथा ॥७१॥ सोऽप्यूचे तां प्रिये ! नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल्लभे क्वापि कलाग्राह्या यदीशवराः ॥७२।। उवाच सा च तं भट्ट गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित् कल्पपादपः ॥७३|| तथेति प्रतिपद्याऽसौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ॥७४|| कदाचिदथ कौशाम्बी चम्पेशेनाऽमितैर्बलैः । घनतुनेव मेघैौररुध्यत समन्ततः ॥७५।। सानीकोऽपि शतानीको मध्येकौशाम्बि तस्थिवान् । प्रतीक्षमाणः समयमन्तबिलमिवोरगः ॥७६।। चम्पाधिपोऽपि कालेन बहुना सन्नसैनिकः । प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ॥७७|| तदा पुष्पार्थमुद्याने गतोऽपश्यच्च सेडुकः । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडुपम् ॥७८।। तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेऽरिर्भग्नदंष्ट्र इवोरगः ॥७९॥ यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः । बलीयानपि खिन्नः सन्नखिन्नेनाऽभिभूयते ॥८०॥
तद्वचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसारनासीरदारुणः ॥८१॥ १. ततो नाग्रे० मु., नू. मु. । अन्तिममित्याशयः । २. पुराऽभवत् खं. ४ । ३. दुरितनाशिकाम् । ४. 'हडकवा' नाम्ना प्रसिद्धेन रोगेण ग्रस्तः श्रवा । ५. शरीरान्निर्गच्छन्मलिनं रुधिरं शवेतवर्णम् । ६. शूकर: खं. १ । ७. उक्तवान् । ८. विश्वेषु मु. । ९. याचस्व मु. । गच्छाऽऽसेव० खं. १ । १०. घर्तुमेव खं. १ । 'घनर्तुना' कर्तृपदं, 'मेघैः' करणपदम् । ११. पलायितसैनिकः । १२. निष्प्रभाणि उडूनि-नक्षत्राणि यस्य तम् । १३. सर्वसैन्येन । १४. शराणां आसारो धारासम्पातः (धारावृष्टिः) यस्मात् तत् च तत् सारभूतं नासीरं-अग्रसैन्यं तेन दारुणः ।