________________
नवमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
मार्गे प्रसन्नचन्द्रं तमेकपादप्रतिष्ठितम् । आतापनां प्रकुर्वाणमूर्ध्वबाहुमपश्यताम् ||२८|| ( युग्मम् ) तं दृष्ट्वा सुमुखोऽवोचदहो ! आतापनाजुषः । अस्य स्वर्गोऽपवर्गो वा मुनेर्न खलु दुर्लभः ॥२९॥ कर्मतो नामतश्चापि दुर्मुखः प्रत्यभाषत । प्रसन्नचन्द्रः खल्वेष भूपतिः पोतनेश्वरः ||३०|| अस्य धर्मः कुतो येन राज्यभारेऽर्भकः सुतः । नियोजितो वत्सेतर इवाऽनसि महीयसि ॥३१॥ स चाऽस्य सूनुः सचिवैर्दधिवाहनभूभुजा । चम्पानाथेन सम्भूय राज्यात् प्रच्यावयिष्यते ॥३२॥ राज्यधर्मः क्षतोऽनेन पत्न्योऽप्यस्य क्वचिद् गताः । अदर्शनीयस्तदसौ धृतपाखण्डिदर्शनः ||३३|| [[ध्यानपर्वतदम्भोलिमेवमाकर्ण्य तद्वचः । प्रसन्नचन्द्रो राजर्षिः सहसेति व्यचिन्तयत् ॥३४॥ धिगहो अकृतज्ञास्ते मन्त्रिणो ये मया सदा । सत्कृता अपि मत्सूनोर्विभेदमधुना व्यधुः ||३५|| अद्याऽभविष्यं चेत्तत्राऽशिक्षयिष्यं भृशं हि तान् । विकल्पैरित्यप्रसन्नः प्रसन्नो व्यस्मरद् व्रतम् ||३६|| स राजमानी मनसा योद्धुं प्रववृते ततः । तत्र च श्रेणिकः प्राप्तो ववन्दे विनयेन तम् ||३७|| [अहो प्रसन्नचन्द्रस्य ध्यानावस्थेति चिन्तयन् । श्रेणिकोऽगान्महावीरं नत्वा चैवमभाषत ॥३८॥ प्रसन्नचन्द्रो राजर्षिर्ध्यानस्थो वन्दितो मया । यदा तदा चेन्म्रियते ततो गच्छेत् क्व ? शंस मे ||३९|| सप्तमीं भुवमित्याख्यन्नाथोऽथ श्रेणिकोऽपि हि । दध्यौ न साधोर्नरकस्तन्मया साधु न श्रुतम् ||४०|| क्षणान्तरे च भूयोऽपि पप्रच्छ श्रेणिकः प्रभुम् । विपद्यते प्रसन्नश्चेदधुना तत् क्व गच्छति ? ॥४१॥ सर्वार्थसिद्धे यातीति शशंस भगवानपि । द्विधा किं व्याकरणमित्यपृच्छच्छ्रेणिकोऽप्यथ ॥४२॥ स्वाम्यूचे ध्यानभेदेन द्विधा व्याकरणं ह्यदः । तदा हि दुर्मुखगिरा प्रसन्नः कुपितः खलु ||४३|| जातामर्षश्च सामन्तामात्याद्यैः सह चेतसा । युध्यमानस्त्वयाऽवन्दि तदा स नरकोचितः ॥ ४४॥ त्वय्यायातेऽत्र सोऽमंस्त यत् क्षीणान्यायुधानि मे । हन्मि शत्रुं शिरस्त्रेणेत्यधिमूर्धं न्यधात् करम् ॥४५॥ कृतलुञ्चं स्पृशन् मौलिं प्रतिबुद्धः स्मरन् व्रतम् । अकार्यं धिङ् मयाऽऽरब्धमित्यादि स्वं निनिन्द सः ॥४६॥ आलोचितप्रतिक्रान्तः प्रशस्तध्यानमागतः । सवार्थसिद्धियोग्योऽभूत् तव प्रभने द्वितीयके ॥४७॥ अत्रान्तरे च प्रसन्नचन्द्रर्षिसविधेऽभवत् । देवदुन्दुभिनिर्घोषमिश्रः कलकलो महान् ॥४८॥
१२५
स्वामिन् ! किमिदमित्युक्ते श्रेणिकेनाऽवदद् विभुः । तस्य ध्यानान्तरस्थस्येदानीमजनि केवलम् ॥४९॥ तस्य केवलमहिमामिमां कुर्वन्ति नाकिनः । प्रमोदतुमुलस्तेषां दुन्दुभिध्वानवानयम् ॥५०॥ [[भूयोऽपि श्रेणिकनृपो बभाषे भगवन्निह । कुत्रेदं केवलज्ञानं व्युच्छेदमुपयास्यति ? ॥५१॥
तदाऽऽगाद् ब्रह्मलोकेन्द्रसामानिको महाद्युतिः । विद्युन्माली प्रभुं नन्तुं चतुर्देवीसमन्वितः ॥५२॥
तं दर्शयन् स्वाम्युवाचोच्छेत्स्यते ह्यत्र केवलम् । भूयोऽपि श्रेणिकोऽपृच्छत् किं स्याद्देवेषु केवलम् ? ॥५३॥ स्वाम्यथाऽऽख्यदसौ च्युत्वा सप्तमेऽह्नि भविष्यति । आढ्यस्यर्षभदत्तस्य सूनुस्त्वत्पुरवासिनः ॥५४॥
१. राज्ये भारे मु. । २. महति शकटे लघुवृषभ इव । ३. ध्यानं पर्वतः, तद्भेदने दम्भोलिर्वज्रम् । ४. विनाशम् । ५. म्रियेत खं. २-४, नू. मु. । ६. यास्यतीत्यर्थः । 'सत्सामीप्ये सद्वद्वा' (सि. ५-४ -१) । ७. व्याख्यानं, उत्तरमित्यर्थः । ८. ०सिद्ध० मु., नू. मु. । ९. तत्रा० मु., नू. मु. । १०. केवलज्ञानम् । ११. केवलं खं. १ । १२. व्यवच्छेद० खं. १ ।