________________
१२४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व ॥ अथ नवमः सर्गः ॥ इतश्च यः सुदंष्ट्राहिकुमारो नौजुषः प्रभोः । उपसर्गानकृत स क्वचिद् ग्रामेऽभवद् हली ॥१॥ स कृष्याजीवकोऽन्येयुः सीरेण क्रष्टुमुर्वरीम् । यावत्प्रवृत्तस्तावत्तं श्रीवीरो ग्राममाययौ ॥२॥ स्वामिना तस्य बोधाय प्रेषितो गौतमोऽवदत् । किमिदं क्रियते ? दैवनियुक्तमिति सोऽब्रवीत् ॥३॥ भूयोऽपि गौतमोऽवोचत् क्षुद्रजीविकयाऽनया । जीवतस्तव किं सौख्यं ? किं वा सुचरितं भवेत् ? ||४|| न केवलमिहैवेदं कष्टकृद् भद्र ! कर्म ते । प्राणातिपातभूयिष्ठं कष्टायाऽन्यभवेष्वपि ॥५॥ कर्मणोऽमुष्य कष्टस्य कष्टं लक्षांशतोऽपि हि । क्रियते धर्मकार्ये चेत् कष्टान्तः स्यात्तदा खलु ॥६॥ इत्यादि गौतमेनोक्तः स ऊचे साध्वहं त्वया । बोधितोऽद्य भवोद्विग्नं परिव्राजय मां ततः ॥७॥ प्रबुद्ध इति विज्ञाय गौतमस्तमदीक्षयत् । गन्तुं श्रीवीरपादान्ते समं तेन चचाल च ॥८॥ पप्रच्छ हालिकर्षिस्तं गन्तव्यं भगवन् ! क्व नु ? । गौतमोऽप्यवदत् साधो ! गन्तव्यमुपमद्गुरु ॥९॥ हालिकोऽप्यब्रवीदेवं न तुल्यः कोऽपि ते ध्रुवम् । तवापि किं गुरुः कोऽपि ? स च स्यात्कीदृशो ननु ? ॥१०॥ अथाऽऽख्यद् गौतमोऽस्तीह मम विश्वगुरुर्गुरुः । चतुस्त्रिंशदतिशयः सर्वज्ञश्चरमो जिनः ॥११॥ तच्छ्रुत्वा हालिकमुनिः सर्वज्ञे प्रीतिमुद्वहन् । उपार्जयद् बोधिबीजं प्रययौ चाऽनुगौतमम् ॥१२॥ पाप्रभुं प्रेक्ष्य च संक्रुद्धः सिंहादिभववैरतः । सोऽवोचद् गौतममुनि भगवन् ! कोऽयमग्रतः ? ॥१३॥ जगाद गौतमोऽसौ मे धर्माचार्यो जिनेश्वरः । सोऽप्यूचे चेद् गुरुस्तेऽसौ तदा नाऽर्थस्त्वयाऽपि मे ॥१४|| त्वद्दीक्षयाऽप्यलमिति स रजोहरणादिकम् । त्यक्त्वा ययौ निजक्षेत्रे सीरादि पुनराददे ॥१५॥ स्वामिनं गौतमो नत्वा पप्रच्छ भगवन्निदम् । आश्चर्यमेष विद्वेषी लोकानन्देऽपि यत् त्वयि ॥१६॥ प्रतिपन्नं स्वयमपि व्रतं प्रोज्झितवानसौ । युष्मदालोकनादेव कारणं तत्र नाथ ! किम् ? ॥१७|| मय्यसौ प्रीतिमान् पूर्वं गुरुर्मेऽसावितीरिते । त्वयि नाथ ! झगित्येष द्वेष्यजायत मय्यपि ॥१८॥ स्वाम्यथाऽऽख्यन्मया सिंहो यस्त्रिपृष्ठेन दारितः । क्रोधात् स्फुरंस्त्वया साम्ना शान्तः सारथिना मम ॥१९॥ तत्प्रभृत्येष मद्वेषी जज्ञे स्निग्धः पुनस्त्वयि । तत्प्रेषयं गौतम ! त्वां बोधिबीजकृतेऽस्य हि ॥२०॥ पाएवमाख्याय भगवान् प्रययौ पोतनं पुरम् । मनोरमाभिधोद्याने तबहि: समवासरत् ॥२१॥ प्रसन्नचन्द्रो जिनेन्द्रं वन्दितुं पोतनेश्वरः । समाजगामाऽश्रौषीच्च देशनां मोहनाशिनीम् ॥२२।। स्वामिदेशनया बुद्धो भवोद्विग्नः स भूपतिः । बालमप्यात्मजं राज्ये निधाय व्रतमाददे ॥२३|| विहरन् स्वामिना सार्धं तप्यमानस्तपः परम् । अजायत स राजर्षिः क्रमात् सूत्रार्थपारगः ॥२४|| तेनर्षिणाऽपरैश्चापि ऋषिभिः परिवारितः । विहरन् भगवान् वीरो ययौ राजगृहेऽन्यदा ॥२५॥ पातत्र द्रष्टुं जगन्नाथमुत्कः सुतसमावृतः । चचाल श्रेणिकोऽशवेभश्रेणिमण्डितभूतलः ॥२६।। अग्रानीके तस्य चोभौ नरौ सुमुख-दुर्मुखौ । मिथ्यादृशावापतन्तौ मिथो नानाकथापरौ ॥२७॥
१. कृषकः । २. हलेन । ३. पृथ्वीम्, क्षेत्रमित्यर्थः । ४. देवनियुक्त० खं. १ । ५. ०जीवनयाऽनया खं. ४ । ६. सान्वहं खं. १ । ७. मम गुरोः समीपम् । ८. यस्त्वयि मु., नू. मु. । ९. झगित्येव मु., नू. मु. ।