________________
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१२३
तं च श्रुत्वा स्वामिशिष्यः सिंहो नामाऽनुरागवान् । गत्वैकान्ते रुरोदोच्चैः क्व धैर्यं तादृशा गिरा ? ॥५४५॥ केवलेन प्रभुर्ज्ञात्वा तमाहूयेदमब्रवीत् । जनप्रवादात् किं भीतः साधो ! संतप्यसे हृदि ? ॥५४६ ॥ न ह्यापदा तीर्थकृतो विपद्यन्ते कदाचन । किं न सङ्गमकादिभ्य उपसर्गा वृथाऽभवन् ? ॥५४७॥ उवाच सिंहो भगवन् ! यद्यप्येवं तथापि हि । आपदा वोऽखिलः स्वामिन् ! जनः सन्तप्यतेतराम् ॥५४८॥ मादृशां दुःखशान्त्यै तत् स्वामिन्नादत्स्व भेषजम् । स्वामिनं पीडितं द्रष्टुं न हि क्षणमपि क्षमाः ||५४९ ।। तस्योपरोधात् स्वाम्यूचे रेवत्या श्रेष्ठभार्यया । पक्वः कूष्माण्डकटाहो यो मह्यं तं तु मा ग्रहीः ||५५०|| बीजपूरकटाहोऽस्ति यः पक्वो गृहहेतवे । तं गृहीत्वा समागच्छ करिष्ये तेन वो धृतिम् ॥५५१॥
सिंहोऽगादथ रेवतीगृहमुपादत्त प्रदत्तं तया ।
कल्प्यं भेषजमाशु तत्र ववृषे स्वर्णं च हृष्टैः सुरैः ॥ सिंहानीतमुपास्य भेषजवरं तद्वर्धमानः प्रभुः ।
सद्यः संघचकोरपार्वणशशी प्रापद्वपुः पाटवम् ॥५५२॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुस्त्रचरिते महाकाव्ये दशमपर्वणि ऋलभदंत्तदेवानन्दाप्रव्रज्याजमलिगोशालक - विप्रतिपत्तिविपत्ति-भगवदारोग्यवर्णनो नामाष्टमः सर्गः ॥
_Kvk—
१. 'कढाई' इति भाषायाम् । २. ३. नास्ति कुत्रापि ।