________________
१२२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व केन त्वं दीक्षितः ? कुत्रोत्पन्न: ? किं वा कुलं तव ? । कुतो वा सूत्रमर्थं च समुपार्जितवानसि ? ॥५१८।। प्रत्येकबुद्धः स महामुनिराख्यदशेषतः । दध्यौ चेतीश्वरो नूनं दम्भेनाऽत्ति प्रजामसौ ॥५१९।। मन्ये यादृगनेनोक्तं तादृग् वक्ता जिनोऽपि हि । यद्वाऽपमोहो नेदृक्षं स वदेद् यामि तं ततः ॥५२०॥ प्रव्रज्यामभिनन्दामि सर्वदुःखापहामिति । ध्यात्वैवं स ययौ तत्र न चाऽपश्यज्जिनेश्वरम् ॥५२१।। पाथर्वे गणधरस्याथ प्रव्रज्यां स उपाददे । मोहगर्भितवैराग्यः कपिवन्मन्दबुद्धिकः ॥५२२॥ मोक्षप्राप्ते जिने पर्षद्यासीनो गणभृज्जगौ । यावज्जिनोक्तसूत्रार्थमालापस्तावदित्यभूत् ॥५२३।। अप्येकं पृथिवीजीवं विनाशयति यः खलु । असंयतः समाख्यातो जैनेन्द्रे स हि शासने ॥५२४|| ईश्वरोऽचिन्तयच्चैवं जीवा अवनिकायिकाः । सर्वत्रापि विमृद्यन्ते को हि तान् रक्षितुं क्षम: ? ॥५२५।। अश्रद्धेयमिदं वाक्यं लाघवायाऽस्य केवलम् । श्रुत्वाऽप्यदोऽनुतिष्ठेत् क उन्मत्तस्येव भाषितम् ? ॥५२६।। मुक्त्वेदं यद्यसौ किञ्चिच्छ्रामण्यं मध्यपक्षगम् । समाख्याति तदा नूनं लोकः सर्वोऽपि रज्यति ॥५२७|| यद्वा हा ! हा ! हतोऽस्मीति नानुतिष्ठाम्यहं यदि । जनोऽपि नाऽनुतिष्ठेत् किं सर्वज्ञैर्भाषितं ह्यदः? ॥५२८।। अर्हद्वाक्यान्यथाकारप्रायश्चित्तं मयाऽधुना । ग्राह्यमित्यगमत्तं प्रत्येकबुद्धं महामुनिम् ॥५२९॥ तस्यापि धर्मव्याख्याने सोऽश्रौषीद्यन्मुनिस्त्यजेत् । पृथिवीकायमुख्यानां समारम्भं त्रिधाऽपि हि ॥५३०॥ ईश्वरोऽचिन्तयत् कोऽमून्नाऽऽरभेत तथा ह्यसौ । पृथ्व्यां निषीदत्यशनाति चाग्निपक्वं पिबत्यपः ॥५३१॥ आत्मन्यपि विसंवादि तद्वदत्येष कद्वदः । वरं गणधरः सोऽस्तु यद्वा सोऽपि विरुद्धवाक् ॥५३२।। अमूभ्यां तदलं द्वाभ्यां धर्मं वक्ष्यामि तं स्वयम् । अविरक्तः सुखसुखमनुष्ठास्यति यं जनः ॥५३३॥ पाएवं चिन्तयतस्तस्य मूनि विद्युत् पपात खात् । मृत्वा च सप्तमावन्यामुदपादि स नारकः ॥५३४|| श्रुत-शासन-सम्यक्त्वप्रत्यनीकत्वपापजम् । दुःखं तत्र चिरं भुक्त्वा मत्स्यः सोऽब्धाविहाऽभवत् ॥५३५।। भूयोऽगात् सप्तमोर्त्यां सोऽत्रैत्य काकः खगोऽभवत् । ततोऽगात् प्रथमावन्यां दुष्टश्चाऽत्रैत्य चा(ना)ऽभवत् ।।५३६।। भयोऽगात प्रथमावन्यां खरोऽभदत्र षडे भवान । ततो मनष्यः संजज्ञे मतो नोऽभगनेचरः ॥५३७॥ ततो मृत्वा बिडालोऽभूत् ततोऽपि नरकं ययौ । उद्धृत्य चाक्रिकोऽत्राऽभूत् कुष्ठी कृम्याकुलस्ततः ॥५३८॥ स पञ्चाशतमब्दानि भक्षितः कृमिभिर्मृतः । अकामनिर्जरायोगाद्देवत्वं प्रत्यपद्यत ॥५३९।। ततश्रच्युतो नृपः सोऽभून्मृत्वाऽगात् सप्तमावनिम् । नृ-तिर्यङ्-नरकेष्वेवं भ्रान्त्वा गोशालकोऽभवत् ॥५४०॥ एवं पूर्वभवाभ्यासवासनावेशतः स तु । तीर्थकृद्-धर्म-साधूनां प्रत्यनीकोऽभवद् भृशम् ॥५४१।। इति स्वामिवचः श्रुत्वाऽबुध्यन्त बहवो जनाः । प्राव्रजंश्च भवोद्विग्नाः श्रावकत्वं च केऽप्यधुः ॥५४२।। पास्वामी तु रक्तातीसारपित्तज्वरवशात् कृशः । गोशाललेश्यया जज्ञे चकार न तु भेषजम् ॥५४३।। गोशालतेजसा वीरः षण्मासान्तर्विपत्स्यते । इति लोकप्रवादोऽभूत्तादृगामयदर्शनात् ।।५४४||
१. दम्भेन वञ्चयति । २. ०तप्तं खं. ४ । ३. पिबेत् पयः खं. ३ । ४. धर्मे मु. । ५. भवषट्कमित्यर्थः । ६. नरः । ७. उद्वृत्त्य खं. १ । ८. कुलालः ।