________________
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
स उत्थाय मुनिर्भूयः कायोत्सर्गं करिष्यति । तथैव भूपतिर्भूयस्तं पृथ्व्यां पातयिष्यति ॥४९०|| उत्थाय स्थास्यति पुनः कायोत्सर्गं सुमङ्गलः । प्रयुज्य चाऽवधिं ज्ञात्वा तद्भवानिति वक्ष्यति ॥४९१॥ रे ! रे ! न देवसेनोऽसि न वा विमलवाहनः । स्मर गोशालकोऽसि त्वं सूनुर्मङ्खस्य मङ्खलेः ||४९२॥ येन चाऽऽशातितो धर्मगुरुश्चरमतीर्थकृत् । तच्छिष्यौ च परिप्लुष्टौ दुर्मदेन तदा त्वया ||४९३|| यथा हि तैस्तदा क्षान्तं क्षमिष्येऽहं तथा न हि । भूयः करिष्यसेऽदश्चेद् धक्ष्यामि त्वां क्षणात्तदा ||४९४॥ तेनेत्युक्तोऽधिकं दीप्तः सर्पिः सिक्त इवाऽनलः । पातयिष्यति भूयोऽपि महापद्मः सुमङ्गलम् ||४९५|| क्रमानपेत्य सप्ताष्टान् स तेजोलेश्यया मुनिः । निधक्ष्यति महापद्मं सरथ्य - रथ-सारथिम् ॥४९६॥ तत्कर्माऽऽलोच्य स मुनिः पालयित्वा चिरं व्रतम् । अन्ते च मासानशनं कृत्वा सर्वार्थमेष्यति ॥ ४९७|| त्रयस्त्रिंशत्सागरस्याऽऽयुषोऽन्ते स परिच्युतः । महाविदेहेषूत्पद्य दीक्षया मोक्षमेष्यति ॥४९८॥ [[महापद्मोऽपि निर्दग्धः सप्तमोर्वी गमिष्यति । क्रमादुत्पस्यते द्विर्द्विः सर्वेषु नरकेषु सः ॥४९९|| तिर्यग्जातिषु सर्वासूत्पत्स्यतेऽथ मुहुर्मुहुः । स शस्त्रवध्यः सर्वत्र दाहार्तश्च मरिष्यति ||५००|| इत्थं कालमनन्तं तु भवान् भ्रान्त्वाऽतिदुःखदान् । स समुत्पत्स्यते वेश्या बही राजगृहात् पुरात् ॥ ५०१॥ सुप्ता भूषणलुब्धेन कामिना सा हनिष्यते । भूयो राजगृहस्याऽन्तर्वेश्या भूत्वा विपत्स्यते ॥५०२॥ स विन्ध्यमूले वैभेले सन्निवेशे भविष्यति । विप्रकन्याऽथ विप्रेण केनापि परिणेष्यते ॥ ५०३|| गुर्विणी श्रवशुरगृहादायान्ती दाववह्निना । मार्गे दग्धोत्पत्स्यतेऽग्निकुमारेषु सुरेषु सा ||५०४|| ततोऽपि मानुषो भावी प्रव्रज्यां च ग्रहीष्यति । विराधितश्रामण्यः सन्नसुरेषु भविष्यति ॥५०५॥ पुनः पुनर्मर्त्यभवान् कतिचित् प्राप्य सोऽसकृत् । विराधितश्रामण्यः सन् भविष्यत्यसुरादिषु ॥५०६॥ पुनश्च मानुषीभूयाऽतीचाररहितं व्रतम् । पालयित्वा स सौधर्मे कल्पे देवो भविष्यति ॥५०७|| एवं सप्तभवान् यावच्छ्रामण्यमनुपालय सः । कल्पे कल्पे समुत्पद्य सर्वार्थमपि यास्यति ॥ ५०८ ।। ततश्च्युत्वा विदेहेषु भूत्वाऽऽढ्यतनयः सुधीः । दृढप्रतिज्ञो नाम्ना स विरक्तः प्रव्रजिष्यति ||५०९ ॥ स जातकेवलो ज्ञात्वाऽऽगोशालक भवान्निजान् । गुर्ववज्ञामुनिवधमूलान् शिष्येषु शंसिता ॥५१०॥ निर्देक्ष्यति च शिष्येभ्यो गुर्ववज्ञादि सर्वथा । न कार्यमन्वभूवं हि तत्फलानि बहून् भवान् ॥५११॥ स्वशिष्यान् बोधयित्वैवं विहरन्नवनीतलम् । कर्मक्षयेण गोशालजीवो निर्वाणमेष्यति ॥५१२|| [भूयोऽपि गौतमोऽपृच्छत् केन प्राग्जन्मकर्मणा । प्रत्यनीको बभूवैवं गोशालो भगवंस्तव ? ॥ ५१३॥ अथाऽऽख्यद् भगवानत्र (नेवं ?) जम्बूद्वीपेऽत्र भारते । प्राक्चतुर्विंशतावर्हन्नुदायो नामतोऽभवत् ॥५१४॥ तस्य मोक्षमहिमानं कर्तुमीयुः सुरासुराः । प्रत्यन्तवासी तानेकः प्रेक्ष्य जातिस्मरोऽभवत् ॥५१५॥ प्रत्येकबुद्धः प्राव्राजीत् स तदैव महाशयः । आर्पयद् व्रतिलिङ्गं च तस्मै शासनदेवता ॥५१६ ॥ तप्यमानं तपस्तीव्रं पूज्यमानं जनैश्च तम् । दृष्ट्वोपेत्येश्रवरो नाम तं पप्रच्छाऽतिदुर्मतिः ||५१७||
१२१
१. तथा खं. १ । २. ०त्युक्ते० मु. । ३. सप्तमीं नरकभूमिम् । ४. ०ष्यति खं. १ । ५. चोभेले मु. । ६. दव० मु. ७. ० रहितव्रतम् खं. १ । ८. चमु । ९. देशस्य सीम्नि निवसन् ।