________________
१२० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व छद्मस्थोऽहं मरिष्यामि दह्यमानः स्वतेजसा । वामांह्रौ रज्जुभिर्बद्ध्वा कर्षणीयः पुरीह भोः ! ॥४६४|| निष्ठीवद्भिर्मम मुखे मां कर्षद्भिर्मृतश्रववत् । घोषणीयमिदं पुर्यां त्रिक-शृङ्गाटकादिषु ॥४६५।। स एष मङ्खलिसुतो गोशालो दम्भितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः ॥४६६।। जिनस्तु भगवान् वीरः सर्वज्ञः करुणानिधिः । हितोपदेष्टा न्यह्रोष्ट गोशालस्तं मुधैव हि ॥४६७|| इत्यर्थे शपथं दत्त्वा व्यथया स व्यपद्यत । तच्छिष्याश्च कुलालौकोद्वाराणि पिदधुह्रिया ॥४६८।। श्रावस्तीमालिखंस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन् कुर्वन्तो घोषणादिकम् ॥४६९।। ततो निष्क्रमयामासुस्तद् गोशालकलेवरम् । ऋद्ध्या महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् ॥४७०|| पाप्रभुः श्रीवर्धमानोऽपि मेण्ढकग्राममभ्यगात् । चैत्ये च समवासार्षीत्तत्र कोष्टकनामनि ॥४७१।। स्वामिनं तत्र चाऽपृच्छत् समये गौतमो मुनिः । गोशाल: कां गतिमगात् ? स्वाम्यूचे सोऽच्युतं गतः ॥४७२।। भूयोऽपि गौतमोऽपृच्छत् स्वामिन्नीदृग्भिरप्यघैः । स दुरात्मा कथं देवो बभूवाऽश्चर्यमत्र मे ॥४७३।। स्वाम्याचख्यौ निन्दति योऽवसाने दुष्कृतं निजम् । न दूरे तस्य देवत्वं गोशालोऽपि तथाऽकरोत् ॥४७४|| पापप्रच्छ गौतमोऽथैवं काले च्युत्वा तु सोऽच्युतात् । स्वामिन्नुत्पत्स्यते कुत्र ? कदा सिद्धिं च यास्यति ? ॥४७५।। स्वाम्युवाचाऽत्रैव जम्बूद्वीपे वर्षे च भारते । भाव्युपविन्ध्यं पुण्ड्रेषु शतद्वारं महापुरम् ॥४७६॥ तत्र संमुचिभूपस्य भद्राकुक्षिभवः सुतः । गोशालजीवो भविता महापद्मोऽभिधानतः ॥४७७।। स च भावी महाराजस्तस्योभौ यक्षपुङ्गवौ । पूर्णभद्र-माणिभद्रौ सेनापत्यं करिष्यतः ॥४७८।। तस्याऽपरं गुणोद्भूतं देवसेन इति प्रजाः । नामधेयं करिष्यन्ति भागधेयमहानिधेः ॥४७९।। तस्योच्चैश्चक्रिण इवोत्पत्स्यतेऽद्भुततेजसः । हस्ती श्वेतश्चतुर्दन्त ऐरावण इवाऽपरः ॥४८०।। तत्राऽऽरूढवतस्तस्य तदृद्धिमुदिता जनाः । विमलवाहन इति करिष्यन्त्यभिधान्तरम् ॥४८१।। तस्याऽन्यदा पूर्वभवाभ्यस्तर्षिद्वेषकर्मणा । उत्पत्स्यते श्रमणेषु नितान्तं दुष्टबुद्धिता ॥४८२॥ निन्दनैस्ताडनैर्बन्धैरुड्डाहैर्हननैश्च सः । श्रुतमात्रान् दृष्टमात्रान् मुनीन् विनटयिष्यति ॥४८३।। तं च विज्ञापयिष्यन्ति पौरामात्यादयोऽप्यदः । भूभुजां युज्यते दुष्टनिग्रहः साधुपालनम् ॥४८४|| अमूंस्त्वनागसः साधून् भिक्षावृत्तींस्तपोधनान् । स्वामिन् ! न पासि चेन्मा स्म पासीस्तन्निग्रहस्तु किम् ? ॥४८५।। कोपिष्यति च चेत् कोऽपि निरागास्ताडनान्मुनिः । स्वतेजसा तदा स त्वां सराष्ट्रमपि धक्ष्यति ॥४८६।। तैरित्युक्तो विना भावं तद्वचः प्रतिपत्स्यते । सोऽन्यदा तु रथारूढः क्रीडयोद्यानमेष्यति ॥४८७।। स विज्ञानं मुनि सिद्धतेजोलेश्यं सुमङ्गलम् । कायोत्सर्गस्थितं तत्र द्रक्ष्यत्यातापनापरम् ॥४८८।। सोऽथ निष्कारणक्रुद्धो विरुद्धः साधुदर्शने । तं रथाग्रेण पर्यस्य महर्षि पातयिष्यति ॥४८९।।
१. गालिशब्दोऽयम् । गुरुपत्न्या व्यभिचारकारी जन एतया गाल्या धिक्क्रयते । अहं तादृशजनतुल्य इति गोशालः स्वं वक्ति ।
तल्पकः खं. १ । २. विन्ध्य खं. ४ । ३. पुढ़े० मु., नू, मु. । ४. सैना० खं. ४ । ५. भाग्यवतः । ६. एरा० खं. १ । ७. तदृष्टि० मु. । तद्वृत्ति० खं. ४ । ८. ०भ्यस्तविद्वेष० खं. १ । ९. ०रहाहै० खं. १-३-४ । १०. अनपराधान् । ११. ज्ञानत्रयधरम् । १२. ०दर्शनम् खं. १ ।