________________
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अङ्गरागीचकाराऽङ्गे भाण्डार्थं मृदितां मृदम् । लुलोठ च गृहस्रोतोजले तच्चाऽपिबन्मुहुः ॥४३६।। असम्बद्धविरुद्धानि प्रजजल्प वचांसि च । शिष्यैः सशोकैः स उपचर्यमाणोऽत्यगाद्दिनम् ॥४३७।। पागोशालोपासकस्तत्राऽयंपुलो धर्मजागरम् । पूर्वरात्रापररात्रे कुर्वन्नेवं व्यचिन्तयत् ॥४३८|| तृणगोपालिका किंसंस्थानेति न हि वेम्यहम् । गत्वा पृच्छामि गोशालं सर्वशं गुरुमात्मनः ॥४३९।। एवं निश्चित्य गोसर्गेऽनर्घ्यभूषणभृद्ययौ । हालाहलागृहेऽपश्यद् गोशालं च तथास्थितम् ॥४४०॥ लज्जयाऽथाऽपचक्राम द्रुतद्रुतमयंपुलः । गोशालशिष्यैः स्थविरैदृष्टश्च जगदे च सः ॥४४१।। अयंपुल ! निशायां ते पश्चिमायामजायत । तृणगोपालिकासंस्थाविषयः संशयः खलु ? ॥४४२।। विस्मितः सोऽप्युवाचैवमेवमेतन्महर्षयः । गोशालचेष्टितं गोप्तुं ते भूयस्तं बभाषिरे ॥४४३।। गायन्नृत्यन् पात्रपाणिरञ्जलिं च करोति यत् । निर्वाणप्राप्तिलिङ्गानि तदाख्याति गुरुस्तव ॥४४४|| यदेतत् पश्चिमं गेयं नृत्यमञ्जलिकर्म च । पानं मृदङ्गरागादि यदन्यदपि किञ्चन ॥४४५।। गोशालस्य चतुर्विंशस्याहतो मोक्षलक्ष्म तत् । गत्वाऽमुं पृच्छ सन्देहं सर्वज्ञो ह्येष ते गुरुः ॥४४६।। इत्युक्तस्तैरभिगन्तुं स प्रावर्तिष्ट तेऽपि हि । तस्याऽऽगमं संशयं च गोशालस्य पुरोऽवदन् ॥४४७॥ तेऽन्यतो मद्यपात्रादि गोशालेन व्यमोचयन् । आसने चाऽऽसयाञ्चकुस्तदा चाऽऽगादयंपुलः ॥४४८|| ततो निषण्णमग्रे तमूचे गोशालकोऽपि हि । तृणगोपालिका किंसंस्थानेति तव संशयः ॥४४९।। तृणगोपालिकां विद्धि वंशीमूलसमाकृतिम् । श्रुत्वेति मुदितः सद्योऽयंपुलः स्वाश्रयं ययौ ॥४५०॥ पाअन्येधुश्चेतनां लब्ध्वा ज्ञात्वाऽन्तसमयं निजम् । शिष्यानाहूय गोशालो व्याजहारेति सादरः ॥४५१।।
मृतस्य मे वपुः स्नप्यं गन्धाम्भोभिर्विलेपनैः । सुगन्धिभिविलेप्यं चाऽऽमोच्यं चोत्कृष्टवाससा ॥४५२।। भूष्यं च भूषणैर्दिव्यैरारोप्यं तदनन्तरम् । सहस्रवाह्यां शिबिकां ततो नि:सार्यमुत्सवात् ॥४५३।। अयमत्राऽवसर्पिण्यां चतुर्विंशो जिनेश्वरः । गोशालः प्रययौ मोक्षमित्युद्घोष्यं पुरेऽखिले ॥४५४|| ते तथा प्रत्यपद्यन्त गोशालोऽप्यह्नि सप्तमे । जातशुद्धाशयः पश्चात्तापादेवमचिन्तयत् ॥४५५।। पाअहो ! पापोऽहमर्हन्तं वीरं धर्मगुरुं निजम् । नितान्तमाशातितवांस्त्रिधाऽप्यत्यन्तदुर्मतिः ॥४५६।।
अभाणयं च सर्वज्ञमात्मानं सर्वतोऽपि हि । मृषोपदेशैः सत्याभैः सर्वं लोकं प्रतारयन् ॥४५७।। धिङ् महर्षी मया दग्धौ गुरुगृह्यावुभौ च तौ । तेजोलेश्या *स्वदाहायाऽमुच्यत स्वामिने च धिक् ! ॥४५८।। कृते दिनानां स्तोकानां किमकार्यं मया कृतम् । भूयिष्ठनरकावासविनिवासनिबन्धनम् ? ॥४५९|| न केवलमयं स्वात्मा नरकायाऽतिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशतः ॥४६०।। भवत्वियत्यपि गते लोको यातु पथैव हि । विमृश्यैवं समाहूय शिष्यानेवमथाऽवदत् ॥४६१।। पाभो ! भोः ! शृणुत सर्वेऽपि नाहमर्हन्न केवली । किं त्वस्मि मङ्खलिसुतो गोशालो वीरशिष्यकः ॥४६२।। आश्रयाशो वह्निरिव प्रत्यनीको गुरोरहम् । मया दम्भादियत्कालमात्मा लोकश्च वञ्चितः ॥४६३।।
१. भाण्डार्थे खं. ३-४ । २. मृदतां खं. १ । ३. गृहस्य मलिनजलनिर्गमनस्थानं स्रोतः, 'खाळ' इति भाषायाम् । ४. प्रभाते। ५. स्नाप्यं मु. । ६. आच्छादितव्यम् । ७. सर्वलोकं खं. १. । ८. गुरुवशवतिनौ । ९. वह्निर्यथा स्वमाश्रयमेव अशनाति-दहति । १०. विरोधी । *. च दाहाया० इति स्यात् तदा वरम् ।