________________
११८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व आलोच्याऽथ प्रतिक्रम्य क्षमयित्वाऽखिलान् मुनीन् । सुनक्षत्रमुनिर्मृत्वाऽच्युतकल्पे सुरोऽभवत् ॥४११।। (युग्मम्) पाजितकाशी च गोशालस्ततोऽतिपरुषाक्षरम् । समाक्रोशन्निजगदे स्वामिना करुणाजुषा ॥४१२॥ दीक्षितः शिक्षितश्चाऽसि श्रुतभाक् च मया कृतः । ममैवाऽवर्णवादी त्वं कोऽयं ते धीविपर्ययः ? ॥४१३।। स्वामिना स्वयमित्युक्तो गोशालः कुपितो भृशम् । अपेत्य किञ्चिदमुचत् तेजोलेश्यां प्रभुं प्रति ॥४१४|| स्वामिन्यप्रभविष्णुः सा महावात्येव पर्वते । प्रभुं प्रदक्षिणीचक्रे भक्तिभागनुहारिणी ॥४१५।। सन्तापमात्रं स्वाम्यङ्गेऽभूत् तेजोलेश्यया तया । तीरकक्षोद्भवेनेव दावेन सरिदम्भसः ॥४१६॥ अकार्याय प्रयुक्ता धिगनेनेति क्रुधेव सा । तेजोलेश्या निवृत्याऽङ्गे गोशालस्याऽविशद् बलात् ॥४१७।। तयाऽन्तर्दह्यमानोऽपि गोशालो धाय॑माश्रितः । भगवन्तं महावीरमभ्यधत्तैवमुद्धतः ॥४१८|| मत्तेजोलेश्यया ध्वस्तः षण्मासान्ते हि काश्यप ! । पित्तज्वरपराभूतश्छद्मस्थोऽपि विपत्स्यसे ॥४१९।। पास्वाम्यथोवाच गोशाल ! मृषा ते वागहं यतः । अन्यानि षोडशाब्दानि विहरिष्यामि केवली ॥४२०॥ स्वतेजोलेश्ययैव त्वं पुन: पित्तज्वरादितः । विपत्स्यसे सप्तदिनपर्यन्ते नात्र संशयः ॥४२१॥ तेजोलेश्याक्लिश्यमानवपुष्को विलपन्नथ । भूमौ पपात गोशालः शालद्रुरिव वायुना ॥४२२।। गुर्ववज्ञाप्रकुपिता मुनयो गौतमादयः । एवं मर्माविधा वाचोच्चकैर्गोशालमूचिरे ॥४२३।। "धर्माचार्यप्रातिकूल्यभाजां भो ! भवतीदृशम् । तेजोलेश्या क्व तव सा धर्माचार्ये नियोजिता ? ॥४२४|| सुचिरं विब्रुवाणोऽपि निघ्नन्नपि महामुनी । कृपयोपेक्षितो भ; स्वयमेव विपत्स्यसे ॥४२५।। व्यपत्स्यथाः पुराऽपि त्वं वैशिकायनलेश्यया । स्वलेश्यया शीतया त्वां नाऽरक्षिष्यद्यदि प्रभुः" ॥४२६।। पाशार्दूल इव गर्ताऽन्तः पतितस्तेषु साधुषु । निकर्तुं सोऽक्षमस्तस्थावुद्वेल्लनपरः क्रुधा ॥४२७।। निःश्रवसन् दीर्घमुष्णं च दंष्ट्रा-लोमानि चोत्खनन् । पादाभ्यां ताडयन्नुर्वी हतोऽस्मीति मुहुर्घवन् ॥४२८॥ निष्क्रम्य स्वामिसदसो दस्युवद्वीक्षितो जनैः । हालाहलाकुम्भकार्या गोशालोऽगमदापणम् ॥४२९॥ (युग्मम्) q[अथ स्वामी मुनीनूचे तेजो गोशालकेन यत् । अस्मद्वधाय प्रक्षिप्तं तस्येयं शक्तिरूजिता ॥४३०॥ वत्सा-ऽच्छ-कुत्स-मगध-वङ्ग-मालव-कोशलान् । पाट-लाट-वज्रि-मालि-मलया-वाधका-ङ्गकान् ॥४३१॥ काशीन् सह्योत्तरान् देशान् निर्दग्धुं षोडशेशवरा । तेजोलेश्या गोशालस्य तपसोग्रेण साधिता ॥४३२॥ ते विसिष्मियिरे सर्वे मुनयो गौतमादयः । सन्तः शक्तौ परस्यापि मात्सर्यं न हि बिभ्रति ॥४३३।। पागोशालकोऽपि स्वेनैव दह्यमानोऽथ तेजसा । तापशान्त्यै पपौ मद्यं दधानो मद्यभाजनम् ॥४३४॥
मदोन्मत्तो गायति स्म गोशालो नृत्यति स्म च । हालाहलायाः प्रणति प्राञ्जलिश्चाऽकरोन्मुहुः ॥४३५।। १. ०कासी खं. १ । २. उपेत्य मु., नू. मु. । ३. वातानां (वायूनां) समूहो वात्या, महती वात्या । ४. भक्ति भजन्–भक्तो यो जनः तं अनुहारिणी-तदनुकरणं कुर्वन्ती । ५. नदीतीरवर्ति-शुष्कवने उद्भूतेन दावानलेन सरितो जलस्य यथा तापमानं स्यात् तथा । ६. तया निर्दह्य० खं. १ । ७. विपद्यसे खं. ३ । विपत्स्यते मु. । ८. मर्मभेदिन्या । ९. ० मुनीन् खं. १ । १०. वैशिकायननाम्नस्तापसेन मुक्तया तेजोलेश्यया । ११. स्वीयया शीतलेश्यया । १२. महावीरप्रभुः । १३. निःकर्तुं नू. मु. । पराभवं कर्तुम् । १४. क्रुधा दह्यमान इत्याशयः । १५. पाठ-लाठ खं. १-४ । १६. सुमो० नू. मु. । सुब्रह्मो० खं. १ ।