________________
११७
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । खातात्तस्मान्नाकुशृङ्गात् सद्यो द्रम्मा विनिर्ययुः । विभज्याऽवसरवर्णं चत्वारो जगृहुश्च तान् ॥३८३|| तृतीयमपि ते नाकुशिखरं लोभतोऽखनन् । रूप्यं प्रापुर्जगृहुश्च तद् द्रम्मानपहाय तान् ॥३८४।। चख्नुश्चतुर्थमपि ते शृङ्गं स्वर्णं च लेभिरे । ततो रजतमप्यौज्झन् सुवर्णादानलोभतः ॥३८५।। रत्नानि पञ्चमे शृङ्गे भविष्यन्तीति बुद्धितः । चख्नुस्तदपि लोभान्धा लाभाल्लोभो हि वर्धते ॥३८६।। अत्यन्तमथितादब्धेः कालकूट इवोत्कटः । तस्माच्छृङ्गात् खन्यमानादुत्तस्थौ दृग्विषोरगः ॥३८७।। वल्मीकाग्रस्थितः सोऽहिः प्राक् सूर्यं प्रेक्ष्य तान् दृशा । भस्मीचकार चतुरः सगन्त्रीवृषभानपि ॥३८८॥ निर्लोभ इत्यवसरं सगन्त्रीवृषमप्यथ । तस्याऽहेर्देव्यधिष्ठात्री प्रापयत् स्थानमीप्सितम् ॥३८९।।
धक्ष्यामि त्वद्गुरुं सर्पोऽधाक्षीत्तांश्चतुरो यथा । मोक्ष्यामि त्वामहं सोऽहिर्मुमोचाऽवसरं यथा ॥३९०॥ पाततोऽसमाप्तभिक्षार्थ एवाऽऽनन्दो ययौ प्रभुम् । गोशालोक्तं तदाचख्यावपृच्छच्चेति शङ्कितः ॥३९१।। भस्मराशीकरिष्यामीत्युक्तं गोशालकेन यत् । उन्मत्तभाषितं तत् किं तत्कर्तुमथवा क्षमः ? ॥३९२।। अथाऽऽचचक्षे भगवानर्हद्भ्यः सोऽन्यतः क्षमः । अर्हतामपि सन्तापमानं कुर्यादनार्यधीः ॥३९३।। तद् गत्वा गौतमादीनां शंसेदं ते यथा हि तम् । इहाऽऽगतं नोदनया धर्म्ययापि तुदन्ति न ॥३९४|| पातेषां गत्वाऽऽख्यदानन्दस्तदा गोशालकोऽपि हि । तत्राऽऽगात् स्वामिनोऽग्रे चाऽवस्थाय व्यब्रवीदिति ॥३९५।।
भोः काश्यप ! वदस्येवं गोशालो मङलेः सतः । अन्तेवासी ममेत्यादि तन्मषा भाषितं तव ॥३९६।। गोशालस्तव यः शिष्यः स हि शुक्लाभिजातिकः । धर्मध्यानस्थितो मृत्वा त्रिदशेषूदपद्यत ॥३९७।। तद्देहेऽस्मिन्नुपसर्गपरीषहसहेऽविशम् । उदायनामाऽहमृषिः परित्यज्य निजं वपुः ॥३९८|| ततो मामपरिज्ञाय गोशालं मङ्खलेः सुतम् । स्वशिष्यं कथमाख्यासि ? न खल्वसि गुरुर्मम ॥३९९।। पास्वाम्यथोचे यथाऽऽरक्षैः क्रम्यमाणो मलिम्लुचः । गर्तं दुर्गं वनं वाऽपि स्वान्तर्धानमनाप्नुवन् ॥४००।। ऊर्णालोम्ना शणलोम्ना तूलांशेन तृणेन वा । मन्यतेऽन्तरदत्तेनाऽऽत्मानमावृतमल्पधीः ॥४०१॥ एवं त्वमपि गोशालाऽनन्योऽप्याख्यान् स्वमन्यथा । किमर्थं भाषसेऽलीकं ? स एवास्यपरो न हि ॥४८ एवं स्वामिगिरा क्रुद्धो गोशालोप्यब्रवीत् प्रभुम् । अद्य भ्रष्टोऽसि नष्टोऽसि न भवस्येष काश्यप ! ॥४०३॥ पासर्वज्ञशिष्यः सर्वानुभूतिगुर्वनुरागतः । अक्षमस्तद्वचः सोढुं गोशालकमभाषत ॥४०४|| गुरुणा दीक्षितोऽनेन शिक्षितोऽस्यमुनैव हि । निहनुषे हेतुना केन ? गोशाल ! त्वं स एव हि ॥४०५।। अथ गोशालकः कोपात्तेजोलेश्यामनाहताम् । सर्वानुभूतयेऽमुञ्चद् दृग्ज्वालामिव दृग्विषः ॥४०६।। निर्दह्यमानः सर्वानभतिर्गोशाललेश्यया । शभध्यानपरो मृत्वा सहस्त्रारे सुरोऽभवत् ॥४०७॥ गोशालोऽपि हि तत्कालं स्वलेश्याशक्तिगर्वितः । निर्भर्त्सयितुमारेभे भगवन्तं पुनः पुनः ॥४०८।। स्वामिशिष्यः सुनक्षत्रस्तमथ स्वामिनिन्दकम् । गुरुभक्त्याऽनुशास्ति स्म भृशं सर्वानुभूतिवत् ॥४०९॥
गोशालमुक्तया तेजोलेश्यया प्रज्वलत्तनुः । प्रभुं प्रदक्षिणीकृत्याऽऽदाय भूयो व्रतानि च ॥४१०|| १. जगृहुस्ततः खं. १ । २. प्राप्य ज० खं. ४ । ३. श्रलोकोऽयं नू. मु. नास्ति । ४. दृष्टिविषः सर्पः । ५. अर्हद्भ्यः प्रति सः अन्यतः-अन्यसामान्यजनापेक्षया क्षमः इत्यर्थः प्रतिभाति । वस्तुतः 'सोऽन्यतोऽक्षमः' 'सोऽन्यथाऽक्षमः' इति पाठ: स्यात् तदा वरमिति कल्प्यते । सः अन्यतः-अन्यथा वा अन्येन प्रकारेण न क्षमः, सन्तापमात्रं तु अर्हतामपि कुर्यात्-इत्याशयः सम्भाव्यतेऽत्र । ६. प्रेरणया-उत्तेजनया इत्यर्थः । ७. नुदन्ति नू. मु. । ८. उत्तमः । ९. ०मवाप्नु० मु., नू. मु. । १०. गोशालादनन्यः । ११. भ्रष्टो० खं. १-४ ।