________________
११६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
तस्यां प्रागागतस्तेजोलेश्याहतविरोधिकः । अष्टाङ्गनिमित्तज्ञानज्ञातलोकमनोगतः ॥३५५।। अजिनोऽपि 'जिन'शब्दमात्मना संप्रकाशयन् । हालाहलाकुम्भकार्या गोशालोऽवसदापणे ॥३५६।। (युग्मम्) तस्य चाऽर्हन्निति ख्यातिं लोक आकर्ण्य मुग्धधीः । उपेत्योपेत्य विदधे निरन्तरमुपासनाम् ॥३५७।। पाइतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थं चिकीर्षुः षष्ठपारणम् ॥३५८।। गोशालोऽत्राऽस्ति सर्वज्ञोऽर्हन्नित्याकर्ण्य तत्र च । गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः ॥३५९।। यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति ॥३६०।। स्वामिन्नगर्यामेतस्यां व्याहरन्त्यखिला जनाः । सर्वज्ञ इति गोशालं किमेतद् घटते न वा ? ॥३६१।। q[अथाऽऽख्यद् भगवानेष सूनुर्मङ्घस्य मङ्खलेः । अजिनोऽपि जिनंमन्यो गोशालः कपटालयः ॥३६२।।
मयैव दीक्षितश्चायं शिक्षां च ग्राहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नैष गौतम ! ॥३६३॥ पातत्तु स्वामिवचः श्रुत्वा पौराः पुर्यामितस्ततः । एवं बभाषिरेऽन्योऽन्यं चत्वरेषु त्रिकेषु च ॥३६४|| हंहो अर्हन्निहायातो वीरस्वामी वदत्यदः । गोशालो मङ्खलिसुतो मिथ्यासर्वज्ञमान्यसौ ॥३६५।।
जनश्रुत्या ततः श्रुत्वा गोशालः कालसर्पवत । आपर्यमाण: कोपेन तस्थावाजीवकावतः ॥३६६।। पाइतश्च स्वामिनः शिष्य आनन्दः स्थविराग्रणी: । षष्ठपारणकं कर्तुं भिक्षार्थं प्राविशत् पुरि ॥३६७|| हालाहलागृहासीनो गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाहूय साधिक्षेपमदोऽवदत् ॥३६८।। भो आनन्द ! तवाऽऽचार्यो लोकात् सत्कारमात्मनः । इच्छन् वीरः सभान्वक्षं मां तिरस्कुरुतेतराम् ॥३६९।। मङ्खपुत्रमनर्हन्तमसर्वशं च वक्ति माम् । तेजोलेश्यां न मे वेत्ति विपक्षदहनक्षमाम् ॥३७०।। भस्मराशीकरिष्यामि तमहं सपरिच्छदम् । त्वामेवैकं विमोक्ष्यामि दृष्टान्तोऽत्र निशम्यताम् ॥३७१॥ [अवसर: प्रसरश्च संवादः कारकस्तथा । भलनो वणिजोऽभूवन् क्षेमिलायां पुरा पुरि ॥३७२।। भाण्डेरापूर्य शकटान्निर्ययुस्ते वणिज्यया । यान्तश्च निर्जलारण्यं विविशुः किञ्चिदध्वनि ॥३७३।। ते पञ्चापि तृषाक्रान्ता मरुमार्गगता इव । जलं गवेषयामासुः पर्यटन्तो महाटवीम् ॥३७४।। भ्राम्यन्नवसरः पञ्चशिखरं वामलूरकम् । ददर्शाऽदर्शयत्तेषां चतुर्णां सुहृदामपि ॥३७५।। ते तस्य पूर्वशिखरं सम्भूयाऽस्फोटयन् द्रुतम् । तस्माच्च लेभिरे वारि तत् पीत्वा सुस्थतां ययुः ॥३७६।। पाअथोचे प्रसरोऽपाच्यशृङ्गमप्यस्य दीर्यताम् । लप्स्यामहे नूनमितो वस्त्वन्यदपि किञ्चन ॥३७७।।
अथाऽब्रवीदवसरः खननं नाऽस्य युज्यते । उत्थास्यत्यहिरेतस्मन्नाकुरोको हि भोगिनाम् ॥३७८।। अवादीदथ संवादो विसंवादोऽप्यभूदिह । यत् परिस्फोटितात् पूर्वशिखरान्नाऽहिरुत्थितः ॥३७९॥ भूयोऽप्यवसरोऽवोचदेवादिह पयोऽभवत् । अथोचे कारको दैवाद् द्रम्मा इह नु भाविनः ॥३८०॥ इत्युदित्वा तत् खनितुं समारभत कारकः । मतं ममेदं नेत्युक्त्वा गन्त्रीमवसरो ययौ ॥३८१।। बभाषे भलनो यातोऽवसरो यदि यातु तत् । विनाऽप्यमुं खनिष्याम इति सर्वेऽपि तेऽखनन् ॥३८२।।
१. तेजोलेश्यानाम्न्या शक्त्या हता विरोधिनो येन सः । २. ०सनम् नू. मु. । ३. गोशालः खं. १-४ । ४. मामुद्दिश्य इत्याशयो लक्ष्यते । ५. सभासमक्षम् । ६. वामलूर:-वल्मीक: 'राफडो' इति गुर्जरभाषायाम् । ७. नाकु:-वल्मीकः । ओको गृहम् । ८. सर्पाणाम् । ९. शकटम् ।