________________
११५
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । हिरण्यकोट्यो रेवत्या अष्टावष्ट व्रजाः पुनः । एका कोटी व्रजश्चैकोऽन्यासां प्रत्येकमप्यभूत् ॥३२९।।
चुलनीपितृवत्सोऽपि स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाऽग्रहीत् पत्नीस्ता विना त्वमुचत् स्त्रियः ॥३३०।। पाश्रावस्त्यामन्यदा पुर्यां भगवान् विहरन् ययौ । तत्र कोष्टकसंज्ञे चोपवने समवासरत् ॥३३१।। तत्र चानन्दतुद्धिगुह्यासीन्नन्दिनीपिता । अश्विनीव शशाङ्कस्य तस्य चाऽश्रिवन्यभूत् प्रिया ॥३३२॥ आकर्ण्य श्रीमहावीरवदनाद्धर्मदेशनाम् । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽग्रहीत् ॥३३३॥ तत्रैवाऽऽनन्दतुल्यद्धिगुंह्यासील्लान्तिकापिता । तत्पत्नी फल्गुनीनामा फल्गु वल्गु प्रजल्पिनी ॥३३४|| श्रीवीरस्वामिपादान्ते समाकर्णितदेशनः । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽऽददे ॥३३५।। सुरैरप्यपरिक्षोभ्याः श्रावकत्वाद् गिरिस्थिराः । दशैवं श्रावकवराः श्रीवीरस्वामिनोऽभवन् ॥३३६।। पाएवं च बोधयन् भव्यानम्भोजानीव भास्करः । भूयो जगाम कौशाम्बी नगरी परमेश्वरः ॥३३७।। प्रभोश्चरमपौरुष्यां वन्दनायेन्दु-भास्करौ । स्वाभाविकविमानस्थौ तस्यां युगपदेयतुः ॥३३८॥ तयोविमानतेजोभिर्नभस्युद्योतिते सति । लोकस्तथैव तत्राऽस्थात् कौतुकव्यग्रमानसः ॥३३९॥ विज्ञायोत्थानसमयं चन्दना तु प्रवर्तिनी । वीरं प्रणम्य वसतिं स्वां ययौ सपरिच्छदा ॥३४०|| मृगावती तु तत्रस्थमार्तण्डोद्यततेजसा । नाऽज्ञासीद् रात्रिमायातां तत्रैवाऽऽस्थाद्दिनभ्रमात् ॥३४१।। चन्द्रार्कयोर्गतवतोत्विा रात्रि मृगावती । प्रतिश्रयमुपेयाय चकिता काललङ्घनात् ॥३४२॥ तामूचे चन्दना साध्वि ! कुलीनायास्तवेदृशम् । किं युज्यते यन्निशायां बहिरेकाकिनी स्थिता ? ॥३४३॥ इत्युक्ते चन्दनां तस्या क्षमयन्त्या मुहुर्मुहुः । घातिक्षयान्मृगावत्या उदपद्यत केवलम् ॥३४४|| पानिद्रान्त्याश्च प्रवर्तिन्या भुवो बाहुमुदक्षिपत् । तत्पाश्रर्वे यान्तमुरगं दृष्ट्वा केवलशक्तितः ॥३४५॥ प्रबुद्धया चन्दनया पृष्टा किं बाहुरुद्धृतः ? । महाहिरिह यातीति शशंस च मृगावती ॥३४६।। भूयोऽपि चन्दनाऽवोचत् सूचीभेद्ये तमस्यपि । मृगावति ! कथं दृष्टस्त्वयाऽहिर्विस्मयो मम ? ॥३४७॥ मगावती भगवतीत्याचचक्षे प्रवर्तिनि ! उत्पन्नकेवलज्ञानचक्षुषा ज्ञातवत्यहम् ॥३४८॥ केवल्याशातनी धिङ्मामित्यान्तं स्वगर्हया । उत्पेदे केवलज्ञानं चन्दनाया अपि क्षणात् ॥३४९।। पाइतश्च गौतमोऽपृच्छन्नाथ ! भावाः स्वभावतः । किं यान्त्यन्यत्वमर्केन्दुविमाने यदिहेयतुः ॥३५०॥ स्वाम्याख्यत् स्युर्दशाऽऽश्चर्याण्युपसर्गा यदर्हताम् । गर्भापहारश्चन्द्रार्कविमानावतरस्तथा ॥३५१॥ चमरोत्पातः परिषदभव्याऽष्टोत्तरं शतम् । सिद्धा अपरकङ्कायां कृष्णस्य गमनं तथा ॥३५२॥ असंयतार्चा स्त्रीतीर्थं हरिवंशकुलोद्भवः । ततोऽसौ सङ्गतोऽर्केन्दुविमानावतरः खलु ॥३५३॥ (त्रिभिर्विशेषकम्) पाइत्याख्याय ततो नाथः श्रावस्ती विहरन् ययौ । तस्यां च समवासार्षीदुद्याने कोष्ठकाभिधे ॥३५४।।
१. ०स्तां खं. १ । तास्त्रयोदश पत्नीविनाऽन्याः स्त्रियोऽमुचत् सः । २. तत्रैवाऽऽनन्द० खं. १ । ३. ०ल्लान्तका० मु. । ४. अल्पं मनोहरं च । ५. तत्रस्था मा० खं. १ । ६. ०द्योत० खं. ४ । ७. प्रगाढं अन्धकारं सूचिभेद्यमुच्यते । ८. अविरतम् । ९. स्वनिन्दया । १०. यदिह अर्केन्दुविमाने ईयतुः ततः किं भावाः (पदार्थाः) स्वभावतः-स्वाभाविकरूपेणैव अन्यत्वं-स्वभावपरिवर्तनं यान्ति-भजन्ति ? । ११. जैनमतानुसारेण अस्मिन् काले अत्र भरतक्षेत्रे दश आश्चर्याणि-आश्चर्यकारिघटनाः समजायन्त, तेषामत्र सूचना।