________________
११४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
स कामदेववद् गत्वा श्रीवीरचरणान्तिके । समं बहलंया धर्मं प्रपेदे नियमानपि ॥३०१॥ प[ततश्च काम्पील्यपुरे जगाम विहरन् प्रभुः । सहस्राम्रवर्णनामन्युद्याने समवासरत् ॥३०२॥ तत्राऽऽसीत् कामदेवर्द्धिर्गृहस्थः कुण्डकोलिंकः । नाम्ना पुष्पेति तद्भार्या शीलालङ्कारशालिनी ॥३०३|| कामदेव इव स्वामिपादाग्रे श्रावकव्रतम् । सोऽग्रहीन्नियमांश्चापि पुष्पया भार्यया सह ||३०४ || ||इतश्च पौलाशपुरे गोशालोपासकोऽवसत् । शब्दालपुत्रः कुलालोऽग्निमित्रा तस्य च प्रिया ॥ ३०५ ॥ हिरण्यकोटिस्तस्यैका निधानेऽन्या तु वृद्धिगा । तृतीया व्यवहारेऽभूद् व्रज एकश्च गोऽयुतम् ॥ ३०६ ॥ बहिश्च पौर्लाशपुरात् कुम्भकारस्य तस्य तु । कुम्भकारापणशतान्यासन् पञ्च सदापि च ॥३०७|| तमशोकवनेऽवोचत् त्रिदशः कोऽपि यत् प्रगे । सर्वज्ञोऽर्हन्महाब्रह्मा त्रैलोक्यार्च्य इहैष्यति ||३०८॥ सेवेथास्तं च फलक-पीठ- स्रस्तरकादिना । एवं द्विस्त्रिर्गदित्वा तं त्रिदशः स तिरोदधे ॥३०९ || आजीवभक्तो दध्यौ स नूनं धर्मगुरुः स मे । सर्वज्ञः खलु गोशालः प्रातरत्र समेष्यति ॥३१०|| विचिन्त्यैवं स्थिते तस्मिन् प्रातस्तत्र समागतः । श्रीवीरः समवासार्षीत् सहस्राम्रवणे वने ||३११|| कुम्भकारः सोऽपि गत्वा भगवन्तमवन्दत । कृत्वा च देशनां स्वामी तं कुलालमभाषत ॥३१२॥ शब्दालपुत्र ! भो ह्यस्त्वामशोकवनगं सुरः । कोऽप्यूचे यत् प्रगे ब्रह्मा सर्वज्ञोऽर्हन्निहैष्यति ॥३१३॥ उपास्यः स त्वया पीठ- फलकादिसमर्पणात् । त्वयाऽपि तद्गिराऽचिन्ति यद् गोशालः समेष्यति ॥३१४|| इति स्वामिवचः श्रुत्वा सोऽचिन्तयदहो अयम् । सर्वज्ञोऽर्हन्महावीरो महाब्राह्मण आगतः ||३१५|| तन्नमस्करणीयोऽयमुपास्यः सर्वथाऽपि हि । इत्युत्थाय प्रभुं नत्वा स प्राञ्जलिरदोऽवदत् ॥३१६॥ बहिरस्मात् पुरात् कुम्भकारापणशतानि मे । पञ्च सन्ति तेषु पीठाद्यादायाऽनुगृहाण माम् ||३१७|| तद्वचः प्रत्यपादीशस्तं च गोशालशिक्षया । उपात्तान्नियतिवादाद् युक्तिभिर्विन्यवर्तयत् ॥३१८॥ त्यक्त्वा नियतिवादं स प्रमाणीकृत्य पौरुषम् । आनन्द इव शिश्राय स्वाम्यग्रे श्रावकव्रतम् ॥३१९॥ परं विशेषो नियमे निधि- वृद्धि - नियोगगाः । तिस्रस्तस्य स्वर्णकोट्यो व्रजस्त्वेको गवामिति ॥३२०|| अग्निमित्रा च तत्पत्नी तेनैव प्रतिबोधिता । आगत्य स्वामिनः पाथर्वे शिश्रिये श्रावकव्रतम् ॥३२१॥ [[विहर्तुमन्यतोऽचालीत् ततश्च भगवानपि । गोशालकोऽपि श्रौषीज्जन श्रुत्येदमुच्चकैः ॥३२२॥
८
आजीवकानां समयं हित्वा शब्दालपुत्रकः । निर्ग्रन्थानां श्रमणानां शासनं प्रतिपन्नवान् ॥३२३॥ ततश्चाऽचिन्तयत्तत्र गत्वा शब्दालपुत्रकम् । आजीवकानां समये स्थापयाम्यद्य पूर्ववत् ॥३२४|| इत्यागात्तत्र गोशालस्तद्वेश्माऽऽजीवकैर्वृतः । तं च शब्दालपुत्रो न दृशाऽपि समभावयत् ॥३२५॥ शब्दालपुत्रं गोशालः स्वे संस्थापयितुं मते । श्रावकत्वाच्चलयितुं चाऽशक्तो निर्ययौ पुनः ॥३२६॥ [[अधिराजगृहं वीरश्चैत्ये गुणशिलाह्वये । गत्वाऽथ समवासार्षीत् सुरासुरनिषेवितः ॥३२७॥ चुलनीपितृतुल्यर्द्धिर्महाशतकनामकः । गृह्यभूत् तस्य पन्यश्च रेवत्याद्यास्त्रयोदश ॥३२८॥
[ दशमं पर्व
१. बहुलया मु. । २. ०वणे नाम० खं. १-३ । ३. ०गोलिकः मु. । ४. पोलाश० खं. १, नू. मु. । ५. गवां दशसहस्री । ६. पोलाश० खं. १, नू. मु. । ०पुरे खं. ४ । ७. आजीव: गोशालकमतम्, तद्भक्तः । ८. भोऽद्य त्वा० खं. १ । ९. वाऽशक्तो मु. ।