________________
अष्टमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
११३ प्रत्याख्यत् स विना भद्रां स्त्रीजान् षड्व्रजी विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटीविना वसु ॥२७३|| शेषं च वस्तुनियममानन्द इव सोऽग्रहीत् । ततः प्रभुं नमस्कृत्य ययौ निजनिकेतनम् ॥२७४।। स्वयमात्ते श्रावकत्वे तेनाऽऽख्याते च तत्प्रिया । भद्राऽप्युपेत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥२७५॥ पाइतश्च काशिर्नाम्नाऽनुगङ्गमस्ति पुरी वरा । विचित्ररचनारम्या तिलकश्रीरिवाऽवनेः ॥२७६। सुत्रामेवाऽमरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत् तत्र धरित्रीधवपुङ्गवः ॥२७७।। आसीद् गृहपतिस्तस्यां महेभ्यश्चुलनीपिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥२७८।। जगदानन्दिनस्तस्याऽनुरूपा रूपशालिनी । श्यामा नामाऽभवद्भार्या श्यामेव तुहिनद्युतेः ॥२७९॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याऽभवन् हेम्नश्चतुर्विंशतिकोटयः ॥२८०॥ एकैकशो गोसहस्रैर्दशभिः प्रमितानि तु । तस्याऽऽसन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥२८१।। पातस्यां पुर्यामथाऽन्येधुरुद्याने कोष्ठकाभिधे । भगवान् समवसृतो विरहंश्चरमो जिनः ॥२८२।। ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥२८३।। पद्भयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ॥२८४|| भगवन्तं ततो नत्वोपविश्य चुलनीपिता । शुश्राव परया भक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥२८५।। पाअथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतश्चुलनीपिता ॥२८६।। स्वामिन्नस्मादृशां बोधहेतोविहरसे महीम् । जगद्बोधं विना नाऽन्यो ह्यर्थश्चंक्रमणे वेः ॥२८७।। सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा । आगत्याऽयाचितो धर्मं दत्से हेतुः कृपाऽत्र ते ॥२८८।। जानामि यतिधर्मं चेद् गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥२८९।। याचे श्रावकधर्मं तु स्वामिन् ! देहि प्रसीद मे । आदत्तेऽब्धावप्युदङ्को भरणं निजमेव हि ॥२९०|| यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । प्रतिपेदे श्रावकार्हं धर्मं द्वादशधाऽपि सः ॥२९१॥ अष्टाष्टाकोट्यभ्यधिकं स्वर्णं निध्यादिषु त्रिषु । व्रजेभ्योऽन्या थाऽष्टभ्यः प्रत्याचख्यौ व्रजानपि ॥२९२।। नियमं चाऽन्यवस्तूनां कामदेव इवाऽऽददे । श्यामा तत्पत्न्यपि स्वामिसमीपे श्रावकव्रतम् ॥२९३।। पातदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥२९४|| अथोचे स्वामिना नैष यतिधर्मं प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥२९५।।
असगाभे विमाने च चतुःपल्योपमस्थितिः । ततश्रच्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति ॥२९६।। पातत्रैवाऽऽसीत् सुरादेवो गृही धन्या च तत्प्रिया । आसीत्तस्य हिरण्यादि पुष्कलं कामदेववत् ॥२९७||
स कामदेववद् गत्वा स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाऽग्रहीत् सार्धं धन्यया धर्मधन्यया ॥२९८।। पाततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तत्र शङ्खवनोद्याने भगवान् समवासरत् ॥२९९|| पुर्यां तत्राऽभवच्चुल्लशतिको नामतो गृही । कामदेवसमस्त्वृद्ध्या बहलेति च तत्प्रिया ॥३००।।
१. कासि० खं. १-२-३-४ । २. इन्द्रः । ३. अखण्डितपराक्रमः । ४. कुबेर इव । ५. चन्द्रस्य रात्रिरिव । ६. ०वेश्माति खं. ४ । ७. उदको घृततैलादिभरणयोग्यश्चर्मपात्रविशेषः । ८. ०भ्योऽन्यांस्तथाऽष्टभ्यः खं. ३-४ । ९. बहुले० मु. ।