________________
११२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व दिग्यात्रिकाणि चत्वारि स सांवहनिकानि च । विहाय वहनान्यन्यवहनानि व्यवर्जयत् ॥२४८।। अपरं गन्धकाषाय्याः स तत्याजाऽङ्गपुंसनम् । दन्तधावनमाज़्या मधुयष्टेर्ऋते जहौ ॥२४९॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्र-शतपाकिमे ॥२५०।। अन्यत् सुरभिगन्धाढ्यादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥२५१॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्डागरुघुसृणान्यपास्याऽन्यद् विलेपनम् ॥२५२।। ऋते च मालतीमाल्यात् पद्माच्च कुसुमं जहौ । कणिका-नाममुद्राभ्यामन्यच्चाऽशेषभूषणम् ॥२५३॥ तुरुष्काऽगुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ॥२५४|| काष्टपेयां विना पेयां कलमादन्यदोदनम् । माष-मुद्ग-कलायेभ्य ऋते सूपमपाकरोत् ॥२५५।। घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिक मण्डूकी पालक्यां च विना जहौ ॥२५६।। ऋते स्नेहाम्लदाल्यम्लात्तीमनं खाम्बुनोऽम्बु च । पञ्चसुगन्धिताम्बूलान्मुखवासं च सोऽमुचत् ॥२५७|| पाआनन्दः शिवनन्दाया उपेत्याऽथ ससंमदः । अशेषं कथयामास गृहिधर्मं प्रतिश्रुतम् ॥२५८॥ शिवाय शिवनन्दाऽपि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगाद् गृहिधर्मार्थिनी ततः ॥२५९॥ तत्र प्रणम्य चरणौ जगत्रयगुरोः पुरः । प्रपेदे शिवनन्दाऽपि गृहिधर्मं समाहिता ॥२६०।।
अधिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाक्सुधापानमुदिता सा गृहं ययौ ॥२६१।। पाअथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्माऽयं किमानन्दो यतिधर्मं ग्रहीष्यति ? ॥२६२।। त्रिकालदर्शी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥२६३।।
ततः सौधर्मकल्पेऽसौ विमाने चाऽसणप्रभे । भविष्यत्यमरवरश्चतुःपल्योपमस्थितिः ॥२६४|| पाइतश्च जाह्नवीहंसश्रेणिभिरिव चारुभिः । चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥२६५।। भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीन्महीपतिः ॥२६६।। अभूद् गृहपतिस्तस्यां कामदेवाभिध: सुधीः । आश्रयोऽनेकलोकानां महातरुरिवाऽध्वनि ॥२६७। लक्ष्मीरिव स्थिरीभूता रूपलावण्यशालिनी । अभूद् भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी ॥२६८।। निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः । व्रजाः षट् तस्य दशगोसहस्रमितयोऽभवन् ॥२६९।। तदा च विहरन्नुर्वी तत्रोर्वीमुखमण्डने । पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ॥२७०।। पाकामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥२७१।। कामदेवस्ततो देवनरासुरगुरोः पुरः । प्रपेदे द्वादशविधं गृहिधर्मं विशुद्धधीः ॥२७२।।
१. सांवा० मु., नू. मु. । २. ०न्यवाहना० मु., नू. मु., खं, २-३-४ । ३. व्यसर्ज० खं. ४ । ४. गन्धकाषायीं त्यक्त्वाऽन्येन वस्त्रेण अङ्गन्युञ्छनं त्यक्तम् । ५. ज्येष्ठीमधुनाम्नी वनस्पति विहायाऽन्यैर्वनस्पतिभिर्दन्तधावनं त्यक्तम् । ६. २४९ तमः श्रलोक: खं. ४ प्रतौ न । ७. तदानीं उष्ट्रपीठोपरि न्यस्य नीयमानो जलभृतो घट औष्ट्रिक: कथ्यते स्मेति कल्प्यते । ८. घृतमिश्रितमुद्गादिधान्यनिर्मितं सरसं पेयम् । ९. 'वटाणा' इति भाषायाम् । १०. शाकविशेषः । ११. वालुक्यां मु. । पालकां खं. ३ । १२. स्नेहयुक्तादम्लाद् दाल्यम्लाच्च विना । १३. ०त्तेमनं मु., नू. मु. । तेमनं तक्रपाकः । १४. आकाशपतितजलं विनाऽन्यज्जलं त्यक्तम् । १५. गङ्गायां खेलन्ती या हंसानां श्रेणयस्ताभिस्तुल्याः । १६. सर्प-शरीरवदायतौ भुजौ यस्य सः । १७. पूर्णभद्रा० मु., नू. मु. ।