________________
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
तेऽन्यदाऽचिन्तयंश्चौरा यदेकेयं वराकिका । सर्वेषां सेवयाऽस्माकं मरिष्यत्यचिरादपि ॥ २१९ ॥ ते विमृश्यैवमानिन्युरपरामपि योषितम् । ईर्ष्यया पूर्वभार्या सा तच्छिद्राणि स्म मार्गति ॥ २२० ॥ चौराश्चौर्याय चाऽन्येद्युर्ययुः साऽप्याप्य तच्छलम् । उपैकूपं सपत्नीं तां निन्ये व्याजेन केनचित् ॥२२१॥ ऊचे चे भद्रे ! कूपान्तः किमप्यस्तीह पश्य तत् । साप्यृजुर्द्रष्टुमारेभे मध्ये क्षिप्ता ततस्तया ॥२२२॥ [[आगता दस्यवस्ते च तां पप्रच्छ्रं क्व सा ननु ? । साऽवोचत् किमहं वेद्मि ? स्वप्रियां किं न रक्षथ ? ||२२३|| तैर्ज्ञातमनया यत् सा वराकी मारितेर्ष्यया । दुःशीला मत्स्वसैषा किं ? विमर्शेति स द्विजः ॥२२४॥ सर्वज्ञोऽत्राऽऽगतोऽस्तीति श्रुत्वा लोकादिहाऽऽगतः । प्रागेष मनसाऽपृच्छत् स्वसृदुःशीललज्जया ॥२२५॥ मयोक्तं पृच्छ वाचेति या सा सा सेति पृष्टवान् । अस्माभिश्चैवमित्युक्त्वा तां जामिं ज्ञापितो ह्यसौ ॥२२६॥ एवं च रागद्वेषाद्यैर्मूढात्मानो भवे भवे । भ्राम्यन्ति भविनो नानादुःखभाजनतां गताः ॥२२७|| एवमाकर्ण्य स पुमान् परं संवेगमागतः । स्वामिपाभर्वे प्रवव्रजे तां पल्लीं पुनरप्यगात् ॥२२८॥ प्रबोधिता चौरपुंसा तेन प्रव्रजितेन च । एकोना सा पञ्चशती चौराणामग्रहीद् व्रतम् ॥ २२९ ॥ [[उत्थाय स्वामिनं नत्वा जगादाथ मृगावती । चण्डप्रद्योतमापृच्छ्य प्रव्रजिष्याम्यहं प्रभो ! || २३०॥ साऽथ प्रद्योतमप्यूचे यदि त्वमनुमन्यसे । प्रव्रजामि भवोद्विग्ना तदा पुत्रस्तु तेऽर्पितः ||२३१|| स्वामिप्रभावान्निर्वाणवैरः प्रद्योतभूपतिः । तामनुज्ञाय कौशाम्ब्यां चकारोदयनं नृपम् ॥२३२॥ सहाऽगृह्णन् मृगावत्या प्रव्रज्यां स्वामिसन्निधौ । अष्टावङ्गारवत्याद्याः प्रद्योतनृपतेः प्रियाः ||२३३॥ मृगावत्याद्याः प्रभुणाऽप्यनुशिष्य समर्पिताः । चन्दनायास्तदुपास्त्या सामाचारीं च जज्ञिरे ||२३४|| q[इतश्चास्ति निरुपमं परमाभिर्विभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ २३५॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥२३६॥ आसीद् गृहपतिस्तत्र नयनानन्ददर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ||२३७|| सधर्मचारिणी तस्य रूप-लावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ||२३८|| निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च व्रजा गवाम् ॥२३९॥ तत्पुरादुत्तरप्राच्यां कोल्लाकाख्योपपत्तने । आनन्दस्याऽतिबहवो बन्धुसम्बन्धिनोऽभवन् ॥२४०॥ [[तदा च पृथ्वीं विरहन् जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दूँतिपलाशे समवासरत् ॥२४१|| जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥२४२॥ आनन्दोऽपि ययौ पद्भ्यां पादमूले जगत्पतेः । कर्णपीयूषगण्डूषकल्पां शुश्राव देशनाम् ॥२४३॥ [[अथाऽऽनन्दः प्रणम्यांऽह्री त्रिजगत्स्वामिनः पुरः । जग्राह द्वादशविधं गृहिधर्मं महामनाः ॥२४४|| शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीर्निध्यादिगा विना ॥२४५॥ प्रत्याचख्यौ व्रजानेष ऋते च चतुरो व्रजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ॥ २४६ ॥ शकटान् वर्जयामास पञ्च पञ्चशतानृते । दिग्यात्राव्यापृतानां च वहतां चाऽनैंसां स तु ॥२४७॥
८
१११
१. कूपसमीपम् । २. भद्रेऽत्र खं. ३ । ३. विमृश्येति स तु द्विजः खं. ३ - ४ । ४. मयोक्तः खं. ४ । ५. निर्वैरः । ६. वणिजक० मु. । ७. पूर्ति० मु. । ८. कर्णयोः अमृतगण्डूषतुल्याम् । ९. श्रुत्वा च मु., नू. मु. । १०. निधि - वृद्धि - व्यवहारगताः ४–४ कोटीर्विनाऽन्यद् हेम त्यक्तवान् । ११. ० शतान्यृते मु., नू. मु. । १२. शकटानाम् ।