________________
११० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व इत्युक्तेऽपि पानिघ्नो व्यक्तं वक्तुमनीश्वरः । स ऊचे भगवन् ! या सा सा सेति प्रमिताक्षरम् ॥१९०॥ एवमेतदिति स्वामी प्रोचे मुकुलिताक्षरम् । पप्रच्छ गौतमः स्वामिन् ! या सा सा सेति किं वचः ? ॥१९१।। पाअथाऽऽचचक्षे भगवानिहैव भरते पुरि । चम्पायां स्वर्णकारोऽभूदेकः स्त्रीलम्पट: पुरा ॥१९२।।
यां यां रूपवती कन्यामपश्यद्विचरन् भुवि । पञ्चस्वर्णशतीं दत्त्वा तां तां परिणिनाय सः ॥१९३|| पर्यणैषीत् क्रमादेवं स्त्रीणां पञ्चशतानि सः । सर्वाङ्गीणाभरणानि तासां प्रत्येकमप्यदात् ॥१९४|| वारकोऽभूद् यदा यस्याः सर्वालङ्कारभृत् तदा । स्नाताङ्गरागलिप्ताङ्गी तेन रन्तुं ससज्ज सा ॥१९५।। अन्यदाऽस्थुरुपशान्तवेषाः सर्वाश्च तत्स्त्रियः । अन्यथाऽशिक्षयत्ताः स तर्जना-ताडनादिभिः ॥१९६।। अतीर्ष्यालुतया तासां रक्षणार्थं समुद्यतः । न जातु स गृहद्वारं सौविदल्ल इवाऽमुचत् ॥१९७|| भोजनं स्वजनेभ्योऽपि न सोऽदत्त निजे गृहे । नाऽभुक्त स्वयमप्यन्यगृहे तासामविशवसन् ॥१९८।। [अन्यदा प्रियमित्रेणाऽनिच्छन्नपि कथञ्चन । निन्ये निजगृहे भोक्तुमिदं मैत्र्या हि लक्षणम् ॥१९९।। तदा च दध्युस्तत्पत्न्यो धिग् ऋद्धिं धिक् च यौवनम् । धिग् जीवितं च तिष्ठामो यद् गुप्ताविव यन्त्रिताः ॥२००|| यमदूत इव द्वारं पापः पतिरयं हि नः । न जातु मुञ्चति चिरादद्य साध्वन्यतो ययौ ॥२०१॥ तिष्ठामः स्वेच्छया तावत् क्षणमद्येति बुद्धितः । स्नात्वाऽङ्गरागमाकल्पं वरमाल्यादि चाऽऽदधुः ॥२०२। यावद्दर्पणमादाय स्वं पश्यन्त्योऽवतस्थिरे । तास्तावदाययौ स्वर्णकारो दृष्ट्वा च सोऽकुपत् ॥२०३।। तत्रैकां महिलां पाप: स तथाऽताडयद् भृशम् । यथा व्यपादि सा दन्तिपादाक्रान्तेव पद्मिनी ॥२०४|| मन्त्रयाञ्चक्रिरेऽथाऽन्या हनिष्यत्येष नोऽपि हि । सम्भूय हन्मस्तदमं रक्षितेनाऽमुना हि किम् ? ॥२०५। एवं विचिन्त्य तास्तस्मै चक्राणीव प्रचिक्षिपुः । शतानि पञ्चैकोनानि दर्पणानामशङ्किताः ॥२०६।। विपेदे सोऽपि तत्कालं सानुतापाश्च ताः स्त्रियः । चितावज्ज्वालयित्वौको व्यपद्यन्त क्षणादपि ॥२०७|| qासानुतापतया ताश्चाऽकामनिर्जरया मृताः । शतानि पञ्चैकोनानि मनुष्यत्वेन जज्ञिरे ॥२०८॥
दैवदुर्योगतश्चौर्यजीविनो मिलिताः क्रमात् । एकत्र दुर्गे तिष्ठन्तश्चौर्यं सम्भूय कुर्वते ॥२०९।। सोऽप्युत्पेदे स्वर्णकारस्तिर्यक्षु प्राग् मृता नु सा । तत्पत्न्युत्पद्य तिर्यक्षु पुत्रो विप्रकुलेऽभवत् ।।२१०|| पञ्चाब्दके तत्र जाते तिर्यक्त्वात् स्वर्णकृत् स तु । तत्कुले भगिनीत्वेन तस्यैव समजायत ॥२११।। तस्याश्च पालकश्चक्रे पितृभ्यां स तु दारकः । अतिदुष्टतयाऽरोदीत् पाल्यमानाऽपि तेन सा ॥२१२।। उदरस्पर्शनं तस्याः कुर्वता तेन चान्यदा । गुह्ये कथमपि स्पृष्टा सा न्यवर्तिष्ट रोदनात् ॥२१३॥ तद्रोदनप्रतीकारं तं ज्ञात्वा स तु दारकः । तस्या रुदत्यास्तत्स्थानस्पर्श चक्रे तथैव हि ॥२१४|| तथा कुर्वन् पितृभ्यां सोऽन्यदा ज्ञातो निहत्य च । निर्वासितो निजगृहाद् ययौ च गिरिगह्वरे ॥२१५।।
शतानि पञ्चैकोनानि दस्यवो यत्र तेऽवसन् । तां पल्लीं सोऽगमत् तैश्च चौरैः संयुयुजेतराम् ।।२१६।। पातत्स्वसाऽनाप्ततारुण्याऽप्यभवत् कुलदैव सा । स्वेच्छया पर्यटन्ती च ग्रामे क्वाप्यन्यदा ययौ ॥२१७|| तैस्तस्करैः स तु ग्रामस्तदैवाऽऽगत्य लुण्टितः । गृहीता दारिका सा तु भार्या चक्रेऽखिलैरपि ॥२१८॥
१. लज्जाधीनः । २. कुसलिता० खं. ४ । ३. स्नाना० मु., नू. मु., खं. ४ । ४. वारको न स्याद् यदा तदा । ५. उपशान्तवेषत्वाभावे। ६. अन्तपुररक्षकः । ७. गृहम् । ८. तु मु., नू. मु. । ९. ०प्यन्यतो खं. ४ । १०. भार्थीचक्रे० मु., नू. मु. ।