________________
१०९
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । पाशतानीकोऽप्यथोवाच कोपाद् रे दूतपांसन ! । अनाचारं वदन्नेवं दूतत्वान्नाद्य हन्यसे ॥१६२।। ईदृग् मय्यप्यनायत्ते यस्येच्छा तस्य पाप्मनः । स्वाधीनायां क आचारः प्रजायां हन्त वर्तते ? ॥१६३।।
शतानीकनृपेणैवं दूतो निर्भर्त्य निर्भयम् । निर्वासितोऽगादवन्त्यां प्रद्योतस्य शशंस च ॥१६४|| पाक्रुद्धोऽथ चण्डप्रद्योतः सैन्यैराच्छादयन् दिशः । चचाल प्रतिकौशाम्बि निर्मर्याद इवाऽर्णवः ॥१६५।।
श्रुत्वा प्रद्योतमायान्तं गरुत्मन्तमिवोरगः । जातातिसारः प्रक्षोभाच्छतानीको व्यपद्यत ॥१६६|| पादेवी मृगावती दध्यौ पतिस्तावद्वयपादि मे । बालः स्वल्पबलः सूनुरसावुदयनोऽपि च ॥१६७|| बलीयसोऽनुसरणं नीतिः स्त्रीलम्पटे त्विह । सा मे कुलकलङ्काय तस्माच्छोह युज्यते ॥१६८॥ वाचिकैरनुकूलैस्तदेतमत्र स्थिताऽप्यहम् । प्रलोभ्य कालं नेष्यामि समयप्राप्तिकांक्षया ॥१६९॥ विमृश्यैवमनुशिष्य दूतः प्रस्थापितस्तया । स्कन्धावारस्थितं गत्वा चण्डप्रद्योतमब्रवीत् ॥१७०।। ब्रूते मृगावतीति त्वां शतानीके दिवं गते । त्वमेव शरणं किं तु पुत्रोऽप्राप्तबलो मम ॥१७१।। मयाऽयं मुक्तः प्रत्यन्तभूपैरभिभविष्यति । भृशं पितृविपत्त्युत्थैः शोकावेगैरिवोल्बणैः ॥१७२।। पाप्रद्योतस्तगिरा हृष्टोऽभाषिष्ट ननु तत्सुतम् । पराभवितुमीशः स्यात् को नाम मयि गोप्तरि ? ॥१७३||
दूतोऽवदत् पुनर्देव ! देव्यैतदपि भाषितम् । प्रद्योते स्वामिनि सुतं न जेतुं कश्चिदीश्वरः ॥१७४।। देवपादाः परं दूरे समीपे सीमभूभुजः । तदौषध्यो हिमगिरावहिरुच्छीर्षके पुनः ॥१७५।। त्वं निर्विघ्नं मया योगं यदीच्छसि कुरुष्व तत् । उज्जयन्या इष्टकाभिः कौशाम्ब्यां वप्रमुत्कटम् ॥१७६॥ प्रद्योतस्तत्प्रपेदेऽथ मार्गे श्रेणितया निजान् । चतुर्दशापि नृपतीनमुचत् सपरिच्छदान् ॥१७७।। पुंस्परम्परयाऽवन्त्याः समानीय स इष्टकाः । कौशाम्ब्या वप्रमकरोद् बलिष्ठमचिरादपि ॥१७८॥ भूयो मृगावती दूतमुखेनोचे पुरीमिमाम् । धनधान्येन्धनाद्यैस्त्वं प्रद्योतनृप ! पूरय ॥१७९॥ सर्वमाशु तथा चक्रे चण्डप्रद्योतभूपतिः । किं किं करोति न पुमानाशापाशवशीकृत: ? ॥१८०॥ पापुरीं रोधक्षमां ज्ञात्वा धीमत्यथ मृगावती । तस्थौ पिधाय द्वाराणि वप्रे चाऽऽरोपयद्भटान् ॥१८१।।
चण्डप्रद्योतराजोऽपि तस्थौ रुद्ध्वाऽभितः पुरीम् । प्रालम्बभ्रष्टकपिवत् परं वैलक्ष्यमुद्वहन् ॥१८२।। पाअन्येधुरुद्यद्वैराग्या दध्यावेवं मृगावती । यद्येति भगवान् वीर: प्रव्रजामि तदा ह्यहम् ॥१८३।। इमं च तस्याः संकल्पं विज्ञाय परमेश्वरः । सुरासुरपरीवारोऽचिरादेव समाययौ ॥१८४॥ बहिश्च समवसृतं श्रुत्वाऽर्हन्तं मृगावती । द्वाराण्युद्घाट्य निर्भीका महाऋद्ध्या समाययौ ॥१८५॥ सा वन्दित्वा जगन्नाथं यथास्थानमवास्थित । प्रद्योतोऽप्येत्य वन्दित्वा त्यक्तवैरमुपाविशत् ॥१८६॥
आयोजनविसर्पिण्या सर्वभाषानुयातया । गिरा श्रीवीरनाथोऽथ विदधे धर्मदेशनाम् ॥१८७॥ पासर्वज्ञोऽसाविति जनाच्छ्रुत्वैको धन्वभृत् पुमान् । संशयं मनसाऽपृच्छददूरस्थो जगद्गुरुम् ॥१८८।।
तं बभाषे जगन्नाथो वचसा पृच्छ संशयम् । अन्येऽपि प्रतिबुध्यन्ते भव्यसत्त्वा अमी यथा ॥१८९।। १. ०न्नहि खं. १ । २. ०कौशाम्बी खं. १ । ३. ०भविष्यते खं. १ विना । ४. उज्जयिन्या मु., नू. मु. । ५. मार्गश्रेणि० खं. १ । ६. वैलक्ष० मु., नू. मु. । ७. ०वैराग्याद् खं. १-२ ।