________________
१०८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व इयं मृगावती देवीत्यनुमानात् स चित्रकृत् । आलिखत् तां यथारूपां यक्षराजप्रसादतः ॥१३५॥ उन्मील्यमाने नेत्रे तूरुमूले कूचिकामुखात् । निपपात मषीबिन्दुः सोऽपनिन्ये च तं द्रुतम् ॥१३६।। भूयोऽपतन्मषीबिन्दुर्भूयः सोऽपि ममार्ज तम् । भूयश्च पतितं प्रेक्ष्य स चित्रकृदचिन्तयत् ॥१३७।।
नूनं लाञ्छनमेतस्यां प्रदेशे ह्यत्र विद्यते । भवितव्यं ततोऽनेन नाऽपनेष्याम्यतः परम् ॥१३८।। पाएवं समापिते चित्रे तत्राऽऽगादीक्षितुं नृपः । पश्यन् क्रमेण तद्रूपं मृगावत्याः ददर्श च ॥१३९।। ऊरौ प्रेक्ष्य च तं बिन्दुं क्रुद्धो राजा व्यचिन्तयत् । विध्वस्ता नूनमेतेन पापेन मम पत्न्यसौ ॥१४०॥ अन्यथा वस्त्रमध्यस्थं मषग्रन्थि मृगीदृशः । मृगावत्या विजानीयात् कथमेष दुराशयः ? ॥१४१॥ इति कोपेन तं दोषमुदीर्य नृपतिः स्वयम् । आरक्षकाणां तं सद्यो निग्रहाय समार्पयत् ॥१४२।। पानृपं चित्रकृतोऽथोचुरसावेकांशदर्शनात् । लिखत्यखिलमालेख्यं यक्षदत्तवरीजसा ॥१४३।। इत्युक्ते तत्परीक्षार्थं क्ष्माभुजा क्षुद्रचेतसा । वरचित्रकृतस्तस्य दर्शितं कुब्जिकामुखम् ॥१४४॥ कुब्जिकां तां यथारूपां सोऽथ चित्रकरोऽलिखत् । तथाप्यमर्षाद् राजा तत्सन्दंशकमकर्तयत् ॥१४५।। पाचित्रकृत् सोऽपि तं यक्षं गत्वाऽऽश्रयदुपोषितः । सोऽप्यूचे वामहस्तेन तद्वच्चित्रं करिष्यसि ॥१४६।। एवं लब्धवरश्चित्रकरोऽमर्षादचिन्तयत् । अहं निरागास्तेनेमां किंराज्ञा प्रापितो दशाम् ॥१४७|| तस्य प्रतिकरिष्येऽहमुपायेनापि केनचित् । कुर्वन्ति विक्रमासाध्यं साध्यं बुद्ध्यैव धीधनाः ॥१४८।। एवं विमृश्य फलके कल्पिताकल्पभूषणाम् । विश्वैकभूषणं देवीं स लिलेख मृगावतीम् ॥१४९।। स्त्रीलोलस्य प्रचण्डस्य चण्डप्रद्योतभूपतेः । गत्वा मृगावतीरूपं स मनोज्ञमदर्शयत् ॥१५०।। पातत्प्रेक्ष्य चण्डप्रद्योतस्तमूचे चित्रकृद्वर ! । विज्ञानकौशलं मन्ये तवेदं न तु वेधसः ॥१५१।। न दृष्टपूर्वं मत्र्येऽस्मिन् श्रुतपूर्वं न वा दिवि । कथं रूपमलेखीदं प्रतिच्छन्दं विना त्वया ? ॥१५२।। आख्याहि सत्यत: केयं येन गृह्णाम्यमूमहम् । अस्थाने क्वचिदस्त्येषा मय्येवौचित्यमञ्चति ॥१५३|| पूर्णो मनोरथो मेऽसाविति हृष्टोऽथ चित्रकृत् । शशंस पुरि कौशाम्ब्यां शतानीकोऽस्ति भूपतिः ॥१५४|| नाम्ना मृगावती पूर्णमृगाङ्कास्या मृगेक्षणा । एषाऽग्रमहिषी तस्य मृगारातिसमौजसः ॥१५५।।
लेखितुं तां यथावस्थां विश्वकर्माऽपि न क्षमः । मया तु किञ्चिल्लिखिता दूरे सा वचसामपि ॥१५६॥ पाउवाच चण्डप्रद्योतः शतानीकस्य पश्यतः । मृगस्येव मृगी सिंहो ग्रहीष्यामि मृगावतीम् ॥१५७|| राजनीतिस्तथाऽप्यस्तु यातु दूतस्तदर्थने । अनर्थः प्रथमं तस्य मा भूदादेशकारिणः ॥१५८|| इति प्रैषीद् वज्रजङ्गं सोऽनुशिष्य तदन्तिके । गत्वा सोऽपि शतानीकं दूतराडेवमब्रवीत् ॥१५९॥ शतानीकाऽऽदिशति त्वां चण्डप्रद्योतभूपतिः । देवी मृगावती लब्धा त्वया दैवादियं खलु ॥१६०॥ स्त्रीरत्नमीदृशं योग्यं ममैव त्वं हि कीदृशः । तच्छीघ्रं प्रेषयाऽस्मभ्यं राज्यं प्राणाश्च चेत् प्रियाः ॥१६।।
१. अलिख० खं. ४ । २. तथास्त्यां मु., नू. मु. । ३. चित्रे नेत्रोन्मीलनकरणक्षणे । ४. पिच्छिकाग्रभागात् । ५. तु मु., खं. १-२ । ६. तद् खं. १-२ । ७. मषी० मु. । ८. तथा० मु. । ९. अङ्गष्ठतर्जन्योरग्रम् । १०. निरपराधः । ११. कुत्सितेन राज्ञा । तेन किंराज्ञाऽहमिमां दशां प्रापितः । १२. प्रतिकारं करिष्यामि । १३. कल्पितानि नेपथ्यभूषणानि यस्यास्ताम् । १४. ०भूषणां खं. ३-४ । १५. ईश्वरस्य । १६. वास्तविकरूपं विना । १७. दूतराजैव० खं. ४ । १८. दैवयोगादियं खं. ४ । १९. मामेव मु., नू. मु. ।