________________
अष्टमः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
स चित्रकं चित्रर्करं चित्रितः सन्निहन्ति च । अचित्रितः पुनर्मारिं विकरोति पुरेऽखिले ॥१०९ ॥ ततो भीताश्चित्रकरौः प्रावर्तन्त पलायितुम् । रुद्धाश्च भूभुजा सर्वे स्वप्रजामारिभीरुणा ॥११०॥ तेषामात्र्त्तंप्रतिभुवां लिखित्वा पत्रकेषु च । घटे क्षिप्तानि नामानि यमाक्षेपटलोपमे ॥१११॥ आपातमात्रेणाऽऽकृष्टमब्देऽब्दे यस्य पत्रकम् । निर्ययौ चित्रकृद् यक्षं स गत्वा तमचित्रयत् ॥११२॥ q[एवं व्रजति काले च कौशाम्ब्या एकदैककः । चित्रकृद्दारकस्तत्र चित्रशिक्षार्थमायौ ॥११३॥ चित्रकृत् स्थविरायाः स तस्थौ कस्याश्चिदोकसि । समं तत्सूनुना मैत्री जज्ञे तस्य क्रमेण च ॥११४॥ तदा च स्थविरासूनोर्निर्ययौ नामपत्रकम् । कृतान्तोत्क्षिप्तपत्राभं स्थविरा सा रुरोद च ॥ ११५ ॥ कौशाम्बीचित्रकृद्यूना पृष्टा रुदितकारणम् । साऽऽचख्यौ यक्षवृत्तान्तं स्वपुत्रस्य च वारकम् ॥११६॥ सोऽप्यभाषिष्ट मा रोदीर्मातस्तिष्ठतु ते सुतः । चित्रकृद्भक्षकं यक्षं चित्रयिष्याम्यहं हि तम् ॥११७॥ उवाच स्थविराऽप्येवं वत्स ! त्वमपि मे सुतः । सोऽप्युवाचाऽम्ब ! मे भ्राता मयि सत्यस्तु सुस्थितः ॥ ११८ ॥ [स कृत्वा समये षष्ठं स्नात्वा चन्दनचर्चितः । शुच्यंशुकोऽष्टगुणया पट्या संयमिताननः ॥११९॥
नूतनैः कूर्चकैग्र्यैर्वर्णकैस्तमचित्रयत् । चित्रकृद्दारको यक्षं नत्वा चैवमवोचत ||१२०॥
१०
सुरप्रिय ! सुरश्रेष्ठ ! निर्मातुं चित्रकर्म ते । कोऽलमत्यन्तनिष्णोऽपि ? मुग्धः कोऽहं वराककः ? ॥१२१॥ तथापि हि यथाशिक्षं यक्षराज ! मया कृतम् । युक्तायुक्तं तत् क्षमस्व निग्रहानुग्रहक्षम ! ॥१२२॥ एवं तस्य गिरा तुष्टो यक्षो विनयसारया । ऊचे वरं वृणीष्वेति वव्रे चित्रकृदप्यदः ॥ १२३॥
त्वं देव ! यदि तुष्टोऽसि वराकस्य ममाऽधुना । वरस्तदयमेवाऽस्तु मार्यो नाऽतः परं जनः ||१२४|| यक्षोऽप्यूचे सिद्धमेतद् यत् त्वं नैव विनाशितः । अन्यद् याचस्व भो भद्र ! स्वार्थसिद्धिनिबन्धनम् ॥१२५॥ चित्रकृत् पुनरूचेऽथ मारिश्चेद् रक्षिता त्वया । संजातः कृतकृत्योऽहं स्वामिन्नेतावतापि हि ॥ १२६ ॥ विस्मितोऽथाऽवदद् यक्षः परार्थवरयाच्ञया । भूयोऽपि तव तुष्टोऽस्मि वृणु स्वार्थकृते वरम् ॥ १२७॥ उवाच चित्रकृदपि तुष्टोऽसि यदि देव ! मे । यस्य द्विपदस्य चतुः पदस्याऽन्यस्य वाऽपि च ॥१२८॥ पश्याम्येकांशमपि हि तदंशस्याऽनुसारतः । यथावस्थिततद्रूपालेखने शक्तिरस्तु मे ॥१२९|| (युग्मम् ) एवमस्त्विति यक्षेणोदितः पौरैश्च पूजितः । ययौ पुरीं स कौशाम्बीं शतानीकनृपाश्रिताम् ॥१३०॥ [[तत्राऽन्यदा शतानीकः सभास्थो गर्वितः श्रिया । ऊचे दूतं नास्ति किं मे यदस्ति परभूभुजाम् ? ॥१३१॥ तव चित्रसभा नास्तीत्यूचे दूतेन भूपतिः । स चाऽदिशच्चित्रकरान् सभाचित्रणहेतवे ॥१३२॥ चित्रकृद्भिः सभाभूमिर्विभज्य जगृहे च सा । अन्तःपुरासन्नदेशस्तस्य चित्रकृतस्त्वभूत् ॥१३३॥ चित्रं तत्र च कुर्वाणो जालकस्याऽन्तरेण सः । पादाङ्गुष्ठं मृगावत्या देव्याः सोर्मिकमैक्षत ॥१३४||
११
१०७
१. चित्रकारं खं. ४ । २. स यक्षः चित्रितः सन् चित्रकं - चित्रकर्तारं चित्रकरं निहन्ति । ३. ०श्चित्रकाराः खं ४ । ४. आत्ता गृहीताः प्रतिभुवः साक्षिणो येषां तेषाम् । ५. यमाक्षि० खं. ३ । यमस्य नेत्रपटलोपमे । ६. अद्य अस्यैव चित्रकस्य पत्रकं ग्राह्यमिति विशेषाभिप्रायं विनैव दृष्टिमात्रेणेत्यर्थः । ७. तु खं. ४ । ८. उपवासद्वयम् । ९. पिच्छैः । १०. ०कर्मगः खं. ३ | ११. ० नृपान्विताम् खं. ३। १२. ऊर्मिका (अंगूठी) सहितम् ।