________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
लोकोऽयं द्रव्यरूपत्वाच्छाश्रवतोऽशाश्रवतः पुनः । प्रतिक्षणपरिध्वंसिपर्यायापेक्षया खलु ॥८१॥ जीवोऽपि द्रव्यरूपत्वापेक्षत्वेनैष शाश्रवतः । अशाश्रवतो नृदेवादिपर्यायान्तरसम्भवात् ॥८२॥ एवमाख्यात्यपि नाथे मिथ्यात्वमथिताशयः । निर्ययौ समवसृतेर्जमालिः सपरिच्छदः ॥८३॥ [[ततो जमालिः सङ्खेन निह्नवत्वाद् बहिष्कृतः । स्वामिनः केवलोत्पत्तेस्तदाऽब्दानि चतुर्दश ॥८४॥ स्वदर्शनाभिप्रायं स सर्वत्रापि प्ररूपयन् । स्वच्छन्दचारी सर्वज्ञमानी व्यहरताऽवनिम् ॥८५॥ जज्ञे प्रसिद्धिः सर्वत्र यज्जमालिर्जगद्गुरोः । मोहाद् विप्रतिपन्नः सन् मिथ्यात्वं प्रतिपन्नवान् ॥८६॥ q[विहरन्नन्यदा सोऽगाच्छ्रावस्तीं नगरीं पुनः । तस्थावेकत्र चोद्याने परिवारसमावृतः ॥८७॥ आर्यासहस्रसहिता साऽप्यार्या प्रियदर्शना । तस्थौ ढङ्ककुलालस्य शालायामृद्धिशालिनः ॥८८॥ परमश्रावको ढङ्कस्तां दृष्ट्वा कुमतस्थिताम् । बोधयिष्याम्युपायेन केनापीति व्यचिन्तयत् ॥८९॥ स भाण्डान्यन्यदोच्चिन्वन् बुद्धिपूर्वमलक्षितम् । पटे प्रियदर्शनायाश्चिक्षेप हुतभुक्कणम् ॥९०॥ दह्यमानं पटं प्रेक्ष्य बभाषे प्रियदर्शना । भो ढङ्क ! त्वत्प्रमादेन पश्य दग्धः पटो मम ॥ ९९ ॥ ढोऽप्युवाच मा साध्वि ! मृषा वादीर्मते हि वः । सकलेऽपि पटे दग्धे युज्यते वक्तुमीदृशम् ॥९२॥ दह्यमानोऽपि दग्धोऽयमिति वाक् श्रीमदर्हताम् । युज्यते प्रतिपत्तुं तत् तद्वचोऽनुभवादपि ॥९३॥ तच्छ्रुत्वा साऽपि चोत्पन्नशुद्धधीरभ्यधादिति । अहं चिरविमूढाऽपि त्वया साध्वस्मि बोधिता ॥९४॥ ही दूषितमियत्कालं श्रीवीरस्वामिनो वचः । तन्मिथ्यादुष्कृतं मेऽस्तु तत् प्रमाणमतः परम् ॥९५॥ [अथ ढङ्को बभाषे तां साधु चेतितवत्यसि । गच्छाऽधुनापि सर्वज्ञं प्रायश्चित्तं समाचर ॥९६॥ ढङ्केनेत्युदितेच्छामोऽनुशिष्टिमिति भाषिणी । हित्वा जमालिं सपरीवारा वीरं जगाम सा ||९७|| जमालिवर्जमन्येऽपि ढङ्केन प्रतिबोधिताः । सर्वेऽपि मुनयो जग्मुः श्रीवीरस्वामिनो ऽन्तिके ॥ ९८ ॥ [[ततो जमालिरेकाकी कुमतेन प्रतारयन् । महीं पर्याट भूयांसि वर्षाणि व्रतमाचरन् ॥९९॥
अन्तेऽर्धमासानशनं कृत्वा दुष्कर्म तन्निजम् । अनालोच्य मृतः कल्पे षष्ठे किल्बिषिकोऽभवत् ॥१००॥ q[मृतं जमालिं विज्ञाय वन्दित्वा गौतमः प्रभुम् । पप्रच्छ कां गतिं प्राप जमालिः स महातपाः ? ॥१०१॥ स्वाम्याख्यल्लान्तके कल्पेऽभवत् किल्बिषिकामरः । त्रयोदशसमुद्रायुर्जमालिः स तपोधनः ॥१०२॥
भूयोऽपि गौतमोऽपृच्छत् तपोभिस्तादृशैरपि । सोऽभूत् किल्बिषिकः कस्माच्च्युत्वा च क्व स यास्यति ? ॥१०३॥ [[अथाऽऽख्यद् भगवान् धर्मगुरूणां शीलशालिनाम् । उपाध्याय - कुल - गण - सङ्घानां च विरोधिनः ॥ १०४॥ तपस्तप्त्वाऽपि जायन्ते जीवाः किल्बिविकादिषु । जमालिरपि दोषेण तेन किल्बिषिकोऽभवत् ॥१०५॥ ( युग्मम्) च्युत्वा ततः पञ्चकृत्वो भ्रान्त्वा तिर्यग्नृनाकिषु । अवाप्तबोधिर्निर्वाणं जमालिः समवाप्स्यति ॥ १०६।। धर्माचार्यप्रभृतीनां तन्न भाव्यं विरोधिना । एवमाख्याय भगवान् विहरन्नन्यतो ययौ ॥१०७॥ पइतश्च साकेतपुरे यक्षो नाम्ना सुरप्रियः । स चित्र्यते च प्रत्यब्दं क्रियते च महोत्सवः ॥१०८॥
१०६
[ दशमं पर्व
१. अग्निकणम् । २. दह्यमाने० खं. १-२-४ । ३. वीरस्वामिनो वचः । ४. चान्ते भविष्यति मु. । ५. षष्ठो लान्तकनामा देवलोकः, तत्र । किल्बिषाणि शूद्रजनोचितानि कर्माणि कर्तव्यतया येन करणीयानि तादृशो देवः किल्बिषिकः । ६. त्रयोदश सागरोपमप्रमाणानि वर्षाणि आयुर्यस्य सः ।