________________
अष्टमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । मत्पक्ष प्रतिपद्यध्वं निर्दोष मुनयस्ततः । न ह्युक्तमिति गृह्येत युक्तियुक्तं हि गृह्यते ॥५५॥ सर्वज्ञ इति विख्यातो नाऽर्हन्मिथ्या वदेदिति । नैवं सोऽपि वदत्येव स्खलनं महतामपि ॥५६।। पाएवं विभाषमाणं तं मुक्तमर्यादमुत्क्रुधम् । जमालिमूचुः स्थविरा विपरीतं ब्रवीषि किम् ? ॥५७॥ न जल्पन्त्यन्यथाऽर्हन्तो रागद्वेषविवर्जिताः । न प्रत्यक्षविरुद्धादिदोषलेशोऽपि तगिराम् ॥५८॥ यद्याद्ये समये वस्तु निष्पन्नं नोच्यते तदा । समयाविशेषात्तस्योत्पत्तिर्न समयान्तरे ॥५९|| अर्थक्रियासाधकत्वं वस्तुनो यच्च लक्षणम् । तदप्यव्यभिचार्येवाऽभिधाज्ञानोपयोगतः ॥६०॥ तथाहि तादृशं वस्तु लोकैः प्रथमतोऽपि हि । किं करोषीति पृष्ट: सन् घटाद्यभिधया वदेत् ॥६१।। पूर्वकालकृते यच्चाऽनवस्था करणस्य हि । साऽप्यलीकाऽन्यान्यकार्यान्तरसाधनतः खलु ॥६२॥ छद्मस्थानां त्वादृशानां युक्तायुक्तविवेचनम् । कथं भवेद्युक्तियुक्तं त्वद्वचो येन गृह्यते ? ॥६३|| सर्वज्ञः केवलालोकज्ञातत्रैलोक्यवस्तुकः । प्रमाणं भगवान् वीरो युक्त्ययुक्ती मुधैव ते ॥६४॥ यदवादीर्जमाले ! त्वं स्खलनं महतामिति । मत्तस्येव प्रमत्तस्येवोन्मत्तस्येव ते वचः ॥६५॥ क्रियमाणं कृतमिति साधु सर्वज्ञभाषितम् । न चेत् तद्वचसा राज्यं संत्यज्य प्राव्रजः कथम् ? ॥६६।। अदूष्यं दूषयंस्तस्य वचनं किं न लज्जसे ? । निमज्जसि भवाम्भोधौ किमनेन स्वकर्मणा ॥६७|| प्रायश्चित्तं गृहाण त्वं श्रीवीरस्वामिनोऽन्तिके । निजं तपो जन्म चेदं मा स्म नैषीनिरर्थकम् ॥६८||
अप्येकाक्षरमात्रं यः श्रद्दधात्यर्हतां न हि । प्रपद्यते स मिथ्यात्वं ततो भवपरम्पराम् ॥६९॥ पाबहुधा स्थविरैरेवं जमालिर्बोधितोऽपि हि । न न्यवर्तिष्ट कुमतान्मौनमेव तु शिश्रिये ॥७०।। कुमतप्रतिपन्नं तं हित्वा केऽपि तदैव हि । स्थविराः स्वामिनं जग्मुः केऽपि तत्राऽवतस्थिरे ॥१॥ मोहेन स्त्रीसुलभेन प्राक्स्नेहेन च शिश्रिये । जमालिपक्षं सपरीवाराऽपि प्रियदर्शना ॥७२॥ पाक्रमाज्जमालिरुल्लाघ आत्मानमपरानपि । व्युद्ग्राहयन् दुर्मतेन तेन च प्रतिवासरम् ॥७३।। हसन् जिनेन्द्रवचनं सर्वज्ञोऽहमिति ब्रुवन् । साहङ्कारः प्रववृते विहर्तुं सपरिच्छदः ॥७४|| (युग्मम्) सोऽन्येयुः पुरि चम्पायां पूर्णभद्राभिधे वने । श्रीवीरं समवसृतं गत्वाऽवादीन्मदोद्धरः ॥५॥ छद्मस्था असमुत्पन्नकेवला भगवंस्तव । शिष्या विपन्ना भूयांसस्तादृगस्मि न खल्वहम् ॥७६।।
अक्षये मे समुत्पन्ने केवलज्ञानदर्शने । सर्वज्ञः सर्वदर्शी चाऽहमेवाऽर्हन्निह क्षितौ ॥७७|| पाअथोचे गौतमस्त्वं भो ! जमाले ! ज्ञानवान् यदि । किं शाश्वतोऽशाशवतो वा लोको जीवश्च शंस तत् ।।७८।।
तस्य प्रत्युत्तरं मूढो जमालिर्दातुमक्षमः । प्रसारितमुखस्तस्थौ शून्यो वायसपोतवत् ॥७९॥ पाअथोचे भगवान् वीरो जमाले ! विद्धि तत्त्वतः । शाशवतोऽशाश्वतश्चाऽयं लोको जीवोऽपि लोकवत् ॥८०||
१. सत्पक्षं खं. ४ । प्रत्यक्षं मु., नू. मु. । २. भगवदुक्तमित्यर्थः । ३. युक्त० खं. १-२ । ४. समयत्वस्य समानत्वादिति भावः। प्रथमसमयस्य समयत्वाद् यदि तत्र वस्तु (कार्य) नोत्पद्येत, तदा द्वितीये समयेऽपि समयत्वादेव कार्यं कथं उद्भवेत् ? | ५. अभिधा-पदार्थानां नाम । ६. 'घटं करोमी'ति वदेत् । ७. ०साप्यलीका नान्य० मु. । प्रतिसमयं भिन्नभिन्नकार्यसाधनात् । ८. यतः। ९. युक्तिश्च अयुक्तिश्चेति द्वन्द्वः । १०. नीरोगः । ११. पूर्णचन्द्रा० खं. ४ । १२. गोतम० खं. १-२-३-४ । १३. जीवो लोकश्च मु., नू. मु. ।