________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
अधीतैकादशाङ्गौ तौ नानाविधतपः परौ । अवाप्य केवलज्ञानं मृत्वा शिवमुपेयतुः ॥२७॥ [[भगवान् वर्धमानोऽपि जगदानन्दवर्धनः । विजहार ततो धात्रीं ग्रामाकरपुराकुलाम् ॥२८॥ क्रमाच्च क्षत्रियकुण्डग्रामं स्वामी समाययौ । तस्थौ समवसरणे विदधे चाऽथ देशनाम् ||२९|| स्वामिनं समवसृतं नृपतिर्नन्दिवर्धनः । ऋद्ध्या महत्या भक्त्या च तत्रोपेयाय वन्दितुम् ||३०|| स त्रिः प्रदक्षिणीकृत्य वन्दित्वा च जगद्गुरुम् । उपाविशद् यथास्थानं भक्तितो रचिताञ्जलिः ॥३१॥ जमालिर्नाम जामेयो जामाता च प्रभोस्तदा । प्रियदर्शनया सार्धं तत्र वन्दितुमायौ ॥३२॥ जमालिर्देशनां श्रुत्वा पितरावनुमान्य च । क्षत्रियाणां पञ्चशत्या सहितो व्रतमाददे ||३३|| जमालिभार्या भगवद्दुहिता प्रियदर्शना । सहिता स्त्रीसहस्रेण प्राव्राजीत् स्वामिनोऽन्तिके ॥३४॥ [[ययौ विहर्तुमन्यत्र ततश्च भगवानपि । जमालिरप्यनुचरः सहितः क्षत्रियर्षिभिः ||३५||
१०४
[ दशमं पर्व
एकादशाङ्गीमध्यैष्ट जमालिविहरन् क्रमात् । सहप्रव्रजितानां च तमाचार्यं व्यधात् प्रभुः ||३६|| चतुर्थ-षष्ठाऽष्टमादीन्यतप्यत तपांसि सः । चन्दनामनुगच्छन्ती सा चापि प्रियदर्शना ||३७|| [[नाथं जमालिर्नत्वोचेऽन्यदाऽहं सपरिच्छदः । विहारेणाऽनियतेन प्रयामि त्वदनुज्ञया ||३८|| अनर्थं भाविनं ज्ञात्वा भगवान् ज्ञानचक्षुषा । भूयो भूयः पृच्छतोऽपि जमालेर्नोत्तरं ददौ ||३९|| अनिषिद्धमनुज्ञातं जमालिरिति बुद्धितः । विहर्तुं सपरीवारः प्रभुपाभर्वाद् विनिर्ययौ ॥४०॥ क्रमेण विहरन् प्राप श्रावस्तीं सोऽन्यदा पुरीम् । बहिश्च समवासार्षीदुद्याने कोष्टकाभिधे ॥४१॥ [[विरसैः शीतलै रूक्षैस्तुच्छैरसमयाशितैः । पानान्नैस्तस्य चाऽन्येद्युस्तत्र पित्तज्वरोऽभवत् ॥४२॥ आसीनः सोऽसहः स्थातुं पङ्कान्तरि कीलकः । संस्तारको मे क्रियतामित्युवाचाऽन्तिषन्मुनीन् ॥४३॥ तेऽपि संस्तारकं कर्तुं प्रारभन्त महर्षयः । शिष्याः कुर्वन्ति गुर्वाज्ञां राजाज्ञामिव सेवकाः ॥४४॥ पित्तेन पीडितोऽत्यन्तं सोऽपृच्छच्च पुनः पुनः । किं संस्तृतः संस्तरको न वेति ब्रूत साधवः !? ॥४५॥ संस्तारकः संस्तृतोऽसावित्यूचुः साधवोऽपि हि । उत्थाय प्रययावार्तो जमालिश्च तदन्तिकम् ॥४६॥ संस्तरं संस्तीर्यमाणं प्रेक्ष्याऽक्षमवपुष्टया । निषद्योत्पन्नमिथ्यात्वः क्रुद्धः साधूनदोऽवदत् ॥४७॥ [[भो भोश्चिरं वय भ्रान्तास्तत्त्वं ज्ञातं चिरादिदम् । क्रियमाणं न हि कृतं कृतमेव कृतं खलु ॥४८॥ संस्तरः संस्तीर्यमाणः संस्तीर्ण इति वर्णितः । यद्भवद्भिरसत्यं तन्न वक्तुं जातु युज्यते ॥ ४९ ॥ उत्पद्यमानमुत्पन्नं क्रियमाणं कृतं च यत् । ब्रूतेऽर्हंस्तन्न घटते प्रत्यक्षेण विरोधतः ॥५०॥ परापरक्षणव्यूहयोगनिष्पद्यमानके । कार्ये कथं कृतमिति प्रारम्भेऽपि निगद्यते ? ॥५१॥ अर्थक्रियाविधातृत्वं यस्य तस्यैव वस्तुता । पदार्थे प्रथमकालोत्पन्ने तदपि नास्ति हि ॥५२॥ अप्यारम्भे कृतमिति यदि शेषक्षणेषु तत् । कृतस्य करणे नूनमनवस्था प्रसज्यते ॥५३॥ तद्युक्तिसङ्गतमिदं कृतमेव कृतं स्फुटम् । न ह्यजातस्य पुत्रस्य नाम केनापि दीयते ॥५४॥
१. भगिनीसुतः । २. अकालभक्षितैः । ३. पङ्कान्तरितकीलवत् मु., खं. ४ । ४. संस्तरको नू. मु. । ५. संस्तरकं नू. मु. । ६. संस्तारको खं. १-२ । ७. ०मिथ्यात्वात् खं. १-२-४ । ८. पूर्वापरा ये क्षणास्तेषां व्यूहः- समूहस्तस्य योगेन निष्पद्यमाने । ९. अर्थक्रियाकर्तृत्वम् ।