________________
अष्टमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१०३ ॥ अथ अष्टमः सर्गः ॥ q[अथ भव्यानुग्रहाय ग्रामाकरपुरादिषु । विहरन् ब्राह्मणकुण्डग्रामेऽगात् परमेशवरः ॥१॥ बहुशालाभिधोद्याने पुरात् तस्माद् बहि:स्थिते । चक्रुः समवसरणं त्रिवप्रं त्रिदशोत्तमाः ।।२।। न्यषदत् प्राङ्मुखस्तत्र पूर्वसिंहासने प्रभुः । गौतमाद्या यथास्थानं सुराद्याश्चाऽवतस्थिरे ॥३॥ श्रुत्वा सर्वज्ञमायातं पौरा भूयांस आययुः । देवानन्दर्षभदत्तावेयतुस्तौ च दम्पती ॥४|| त्रिश्च प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । श्रद्धावानृषभदत्तो यथास्थानमुपाविशत् ॥५॥ देवानन्दा प्रभुं नत्वर्षभदत्तस्य पृष्ठतः । शुश्रूषमाणोर्ध्वज्ञाऽस्थादानन्दविकचानना ॥६॥ स्तनाभ्यां प्राक्षरत् स्तन्यं रोमाञ्चश्चाऽभवत्तनौ । तदा च देवानन्दायाः पश्यन्त्याः परमेश्वरम् ॥७॥ तथाविधां च तां प्रेक्ष्य जातसंशयविस्मयः । स्वामिनं गौतमस्वामी पप्रच्छेति कृताञ्जलिः ||८||
उत्प्रस्नवा निर्निमेषदृष्टिदेववधूरिव । देवानन्दा तवाऽऽलोकात् सूनोरिव कथं प्रभो ! ? ॥९॥ पाअथाऽऽख्यद्भगवान् वीरो गिरा स्तनितधीरया । देवानां प्रिय ! भो देवानन्दायाः कुक्षिजोऽस्म्यहम् ॥१०॥ दिवश्च्युतोऽहमुषितः कुक्षावस्या द्व्यशीत्यहम् । अज्ञातपरमार्थाऽपि तेनैषा वत्सला मयि ॥११॥ देवानन्दर्षभदत्तौ मुमुदाते निशम्य तत् । सर्वा विसिष्मिये पर्षत् तादृगश्रुतपूर्विणी ॥१२॥ क्व सूनुस्त्रिजगन्नाथः ? क्व चाऽऽवां गृहिमात्रकौ ? । इत्युत्थाय ववन्दाते दम्पती तौ पुनः प्रभुम् ॥१३॥ पितरौ दुःप्रतीकारावीदृग्धीभगवानपि । तावुद्दिश्य जनांश्चापि विदधे देशनामिति ॥१४॥ पाइयं माता पितैषोऽयं पुत्र इत्यादिको भवे । जायते विघटते च सम्बन्धः प्राणिनामिह ॥१५॥ इन्द्रजालप्रायमेतत् समस्तमपि संसृतौ । न वस्तुं क्षणमप्यत्र श्रद्दधीत विविक्तधीः ॥१६॥ इदं शरीरं नो यावज्जर्जरीकुरते जरा । न यावदन्तकः प्राणानाच्छेत्तुमुपतिष्ठते ॥१७|| सुखाद्वैतनिधानस्य निर्वाणस्यैकसाधनीम् । तावद्दीक्षामाश्रयध्वं प्रमादोऽत्र न युज्यते ॥१८॥ (युग्मम्) पादेवानन्दर्षभदत्तावथ नत्वैवमूचतुः । आवां विरक्तौ संसारवासादस्मादसारतः ॥१९॥ देहि जङ्गमकल्पद्रो ! दीक्षां संसारतारणीम् । तरीतुं तारयितुं च कोऽपरस्त्वदृते क्षमः ? ॥२०॥ अस्त्वेतदिति नाथेन प्रोक्तौ तौ धन्यमानिनौ । ईशान्यां दिशि गत्वोज्झाचक्रतुझ्षणादिकम् ॥२।। पञ्चमुष्टिकचोत्पाटं कृत्वा संवेगतस्त तौ । नाथं प्रदक्षिणीकृत्य वन्दित्वा
॥२२॥ स्वामिन् जन्म-जरा-मृत्युभीतौ त्वां शरणं श्रितौ । स्वयं दीक्षाप्रदानेन प्रसीदाऽनुगृहाण नौ ॥२३॥ ददौ तयोः स्वयं दीक्षां समाचारं शशंस च । आवश्यकविधि चाऽऽख्यन्निरवद्यमनस्कयोः ॥२४॥ वसन्ति सन्तो यत्राऽहरपि तत्रोपकारिणः । किं पुनर्भगवान् विश्वकृतज्ञग्रामणीः प्रभुः ॥२५॥
देवानन्दां चन्दनायै स्थविरेभ्यस्त्वथर्षभम् । स्वामी समर्पयामास तौ चाऽपातां परं व्रतम् ॥२६॥ १. नन्दार्षभ० मु., नू. मु. । २. नत्वार्षभ० मु., नू. मु. । ३. ०णाध्वज्ञा० मु. । ऊर्ध्वज्ञा-ऊर्ध्वजानुः | ०माणोर्ध्वमस्था० खं. १-२ । ४. तव दर्शनात् । ५. मेघगम्भीरया । ६. विवेकवान् । ७. ०तारिणीम् खं. १ । ८. पञ्चभिर्मुष्टिभिर्निजकेशलुञ्चनम् । ९. यश्च कृत० खं. १-२ । १०. ०ग्रामणीप्रभुः खं. १-२-३-४ ।