________________
१०२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व पाआद्रकर्षिर्ययौ हस्तितापसानामथाऽऽश्रमम् । उद्वानायाऽऽतपक्षिप्तहस्तिमांसाकुलोटजम् ॥३३०॥ तत्रस्थास्तापसाश्चैकं सुमहान्तं मतङ्गजम् । हत्वा तन्मांसमशनन्तोऽतिनिन्युर्दिवसान् बहून् ॥३३१।। ते चैवमूचुर्हन्तव्यो वरमेको मतङ्गजः । यस्यैकस्यापि मांसेन भूयान् कालोऽतिगम्यते ॥३३२।।
मृग-तित्तिर-मत्स्याद्यैर्धान्यैर्वा बहुभिश्च किम् ? । तैरप्याहार एवाऽर्थः पापं तत्राऽतिरिच्यते ॥३३३।। पातदा च ते दयाभासधर्मनिष्ठास्तपस्विनः । बबन्धुरिणायैकं महाकायं मतङ्गजम् ॥३३४|| स भारशृङ्खलाबद्धो यत्र चाऽऽसीन्मतङ्गजः । तेनाऽध्वना स जगाम महर्षिः करुणाधीः ॥३३५।। स च हस्ती महर्षि तं मुनिपञ्चशतीवृतम् । ईक्षामास वन्द्यमानं भूलुठन्मौलिभिजनैः ॥३३६।। लघुकर्मा करी सोऽपि मुनिं दृष्ट्वेत्यचिन्तयत् । वन्दे यद्यहमप्येनं बद्धस्तु करवाणि किम् ? ॥३३७|| महर्षिदर्शनात्तस्य गरुत्मदर्शनादिव । अय:पाशा व्यशीर्यन्त नागपाशा इवाऽभितः ॥३३८|| निरर्गलः सोऽथ हस्ती वन्दितुं तं महामुनिम् । अभ्यसार्षीज्जनस्तूचे मुनिरेष हतो हतः ॥३३९।। पलायाञ्चक्रिरे लोका मुनिस्तस्थौ तथैव सः । इभोऽप्यवनमत्कुम्भस्थलः प्रणमति स्म तम् ॥३४०॥ स्पर्श स्पर्शं च तत्पादौ दाहातः कदलीमिव । परमां निर्वृति प्राप प्रसारितकरः करी ॥३४१।।
स हस्ती पुनरुत्थाय भक्तिमन्थरया दृशा । पश्यन् महर्षि प्राविक्षदरण्यानीमनाकुलः ॥३४२।। पातत्प्रभावाद्भुतं दृष्ट्वा परं कोपमुपागताः । तेऽप्याककुमारेण प्रत्यबोध्यन्त तापसाः ॥३४३।।
श्रीमहावीरसमवसरणे प्रेषिताश्च ते । गत्वोपाददिरे दीक्षां शमसंवेगशालिनः ॥३४४॥ पातत्र श्रेणिकराजोऽपि तत्तथा गजमोक्षणम् । तापसप्रतिबोधं च श्रुत्वाऽऽगादभयान्वितः ॥३४५॥
भक्त्या वन्दितवन्तं चाऽऽनन्दयामास पार्थिवम् । सर्वकल्याणकारिण्या धर्मलाभाशिषा मुनिः ॥३४६।। दृष्ट्वा मुनिमनाबाधमासीनं शुद्धभूतले । राजाऽपृच्छन् ममाऽऽश्चर्यं भगवन् ! हस्तिमोक्षणात् ॥३४७|| महर्षिरूचे नोर्वीश ! दुष्करं करिमोक्षणम् । तर्कुतन्तुपाशमोक्षो दुष्करः प्रतिभासते ॥३४८॥ राज्ञा पृष्टश्च स मुनिस्तकुँतन्तुकथां तथा । कथयामास राजाऽपि सलोकोऽपि विसिष्मिये ॥३४९।। पास आईककुमारर्षिरभाषत ततोऽभयम् । निष्कारणोपकारी त्वं ममाऽभूधर्मबान्धवः ॥३५०॥ त्वया हि प्रेषिता राजपुत्राऽर्हत्प्रतिमा मम । तद्दर्शनादहं जातिस्मरीभूयाऽऽर्हतोऽभवम् ॥३५१॥ किं किं त्वया न दत्तं मे ? किं किं नोपकृतं ननु ? । येनाऽहमार्हते धर्मे कृत्वोपायं प्रवर्तितः ॥३५२॥ अनार्यत्वमहापङ्कनिमग्नोऽहं त्वयोद्धृतः । त्वबुद्ध्युत्पन्नबोधः सन्नार्यदेशे युपागमम् ॥३५३॥ परिव्रज्यां प्रपन्नोऽस्मि त्वयाऽहं प्रतिबोधितः । ततोऽभयकुमार ! त्वं श्रेयोभिर्भृशमेधसे ॥३५४|| श्रेणिकश्चाऽभयश्चाऽऽन्ये लोकाश्च तमर्षि ततः । वन्दित्वा प्रीतमनसः स्वं स्वं प्रययुराश्रयम् ॥३५५॥ तदा पुरे राजगृहेऽभ्युपेतं श्रीवीरनाथं स मुनिर्ववन्दे । तत्पादपद्मद्वयसेवया स्वं कृतार्थयित्वा च शिवं प्रपेदे ॥३५६।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुस्षचरिते महाकाव्ये दशमपर्वणि चेल्लणायोग्यैकस्तम्भप्रासादनिर्माणाम्रफलापहरण-श्रेणिकविद्याग्रहण-दुर्गन्धाकथा-ऽऽर्द्रककुमारकथावर्णनो नाम सप्तमः सर्गः ॥
-Kvk१. शुष्कं कर्तुम् । उद्धाना० मु. । २. ०न्तो ते निन्यु० मु., खं. २, नू. मु. । ३. ०र्वान्यै० मु., नू. मु. । वने जातैः । ४. गरुडदर्शनात् । ५. इभ्यो० मु., नू. मु. । ६. तु खं. ३ । ७. ०मासीन: खं. १-२-३ ।