________________
सप्तमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१०१ तन्मदंढ्योः कृताः सन्ति यावन्तः सूत्रवेष्टकाः । तावन्त्यब्दानि धास्यामि पुत्रप्रेम्णा गृहस्थताम् ॥३०४|| पादयोस्तन्तुबन्धाश्च गणिता द्वादशाऽभवन् । गार्हस्थ्ये द्वादशाब्दानि ततः सोऽप्यत्यवाहयत् ॥३०५।। पासन्धोऽवधौ च सम्पूर्णे वैराग्येणोररीकृतः । यामिन्याः पश्चिमे यामे स सुधीरित्यचिन्तयत् ॥३०६।। संसारकूपान्निर्गन्तुं व्रतमालम्ब्य रज्जुवत् । मया प्राप्तं च मुक्तं च मग्नस्तत्राऽस्म्यहं पुनः ॥३०७।। मनसैव व्रतं भग्नं प्राग् जन्मनि तथाऽप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि का गतिः स्यादतः परम् ? ॥३०८।। भवत्विदानीमप्यात्तपरिव्रज्यस्तपोऽग्निना । अग्निशौचांशुकमिवाऽऽत्मानं प्रक्षालयाम्यहम् ॥३०९॥ प्रातश्च श्रीमती पत्नीं स संभाष्याऽनुमान्य च । यतिलिङ्गमुपादाय निर्ममो निर्ययौ गृहात् ॥३१०।। पास प्रस्थितो राजगृहमन्तराले ददर्श ताम् । स्वां सामन्तपञ्चशती चौर्यवृत्तिपरायणाम् ॥३११॥ उपलक्ष्य स तैर्भक्त्या ववन्दे सोऽवदच्च तान् । किमेषा जीविका पापहेतुर्युष्माभिरादृता ? ॥३१२।। तेऽवोचन् वञ्चयित्वाऽस्मान् पलायिष्ठा यदा प्रभो ! । दर्शयामः स्म न तदाऽऽत्मानं भूमिपतेह्रिया ॥३१३।। तवैवाऽन्वेषणे लग्ना भ्रमन्तः सागराम्बराम् । चौर्यवृत्त्यैव जीवामः किमन्यन्निःस्वशस्त्रिणाम् ? ॥३१४|| मुनिरप्यभ्यधाद्भद्राः ! कष्टमापतितं यदि । धर्मानुबन्धि तत् कार्यं सफलं लोकयोर्द्वयोः ॥३१५।। केनापि पुण्ययोगेन मानुष्यकमवाप्यते । प्राप्तस्य तस्य च फलं धर्मः स्वर्गापवर्गदः ॥३१६।। जीवेष्वहिंसा सत्योक्तिरस्तेयं ब्रह्मचारिता । आकिंचन्यं च धर्मोऽयमार्हतोऽभिमतोऽस्तु वः ॥३१७|| स्वामिभक्ताः स्थ हे भद्रा ! राजवत् स्वाम्यहं च वः । तन्ममैवाऽमुमध्वानं प्रपद्यध्वं सुमेधसः ! ॥३१८|| ते प्रोचुरग्रे स्वामी त्वं सांप्रतं गुरुरप्यसि । त्वया ज्ञापितधर्माः स्मो दीक्षयाऽनुगृहाण नः ॥३१९।। इत्याककुमारस्तान् प्रव्राज्य सहितश्च तैः । वन्दितुं श्रीमहावीरमभिराजगृहं ययौ ॥३२०॥ पागच्छतश्च मुनेस्तस्य गोशालोऽभिमुखोऽभवत् । अकृतप्रणयस्तस्मै विवादं च प्रचक्रमे ॥३२१॥
भूचराः खेचराश्चापि तत्राऽऽयाताः सहस्रशः । तस्थुः सामाजिकीभूय कौतुकोत्तानितेक्षणाः ॥३२२।। गोशालोऽथाऽवदत् कष्टं तपोमूलं वृथैव भोः ! । शुभाशुभफलानां हि कारणं नियतिः खलु ॥३२३।। प्रत्यूचे स मुनिर्मा स्म मुखमस्तीत्यहो ब्रवीः । कारणं पौरुषमपि मन्यस्वाऽनेन हेतुना ॥३२४।। कारणं यदि सर्वत्र नियति ननु मन्यसे । तत्तवाऽपीष्टसिद्धयर्थं प्रसज्येरन् वृथा क्रियाः ॥३२५॥ तथाहि नियतिनिष्ठः स्थानस्थः किं न तिष्ठसि ? । भोजनार्थं प्रयतसे भोजनावसरे च किम् ? ॥३२६।। एवं नियतिवत् साधु पौरुषं स्वार्थसिद्धये । नियतेरप्यर्थसिद्धौ पौरुषं त्वतिरिच्यते ॥३२७|| तथाहि खात् पतत्यम्भो भूखातादपि तद्भवेत् । बलीयसी हि नियतिनियतेरपि पौरुषम् ॥३२८।। एवं निरुत्तरीचक्रे गोशालं स महामुनिः । तुष्टुवे खेचराद्यैश्च कुर्वद्भिर्जयमङ्गलम् ॥३२९।।
१. स्थास्यामि मु., नू. मु. । २. प्रतिज्ञाऽवधौ । ३. ०मालम्ब० नू. मु. । आलम्ब्यं-आलम्बनीयमित्यर्थः । ४. प्राप्तो० खं. १-२ । ५. शोचां० खं. १ । अग्निना शुचीभवद् यद् अंशुकं-रत्नकम्बलं तद्वत् । इदं वस्त्रं मलप्रक्षालनार्थं अग्नावेव निक्षिप्यते । ६. पलायिष्ट खं. १-२-३ । ७. पृथ्वीम् । ८. निर्धनानां शस्त्रधारिणां अन्या का वृत्तिः ? । ९. सभ्या भूत्वा । १०. 'भावि' इति टि. खं. ३. । ११. सुख० मु. । १२. नियतिसकाशाद् भाविन्यां अपि अर्थसिद्धौ पौरुषं अतिरिच्यते-अतिरिक्तं-स्वतन्त्रं कारणं भवत्येवेत्याशयः । अथवा पौरुषं नियतिमप्यतिक्रमते । १३. आकाशात् । १४. भूमिखननात् ।