________________
१००
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व वृतो मया यो महर्षिर्वरस्तात ! स एव मे । मम तद्वरणेऽदाच्च द्रव्यं तद्गृह्यदेवता ॥२७७|| स्वरुच्याऽपि मया तावन्महर्षिः स वृतो वरः । तद् द्रव्यमाददानेन त्वयाऽप्यनुमतं हि तत् ॥२७८।। तत्तस्मै कल्पयित्वा मां नाऽन्यस्मै दातुमर्हसि । किं न श्रुतं त्वया तात ! बाला अपि वदन्त्यदः ? ||२७९।। "सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत्" ॥२८०॥ श्रेष्ठ्यूचे स कथं प्राप्यो न ह्येकत्राऽवतिष्ठते । अलीव पुष्पं स स्थानमातिष्ठति नवं नवम् ॥२८१।। स किमायास्यति न वाऽऽयातोऽपि ज्ञास्यते कथम्? । किं नाम तस्याऽभिज्ञानं? कति नाऽऽयान्ति भिक्षवः ? ॥२८२।। श्रीमत्यूचे मया तात ! तदा गर्जितभीतया । दृष्टं तदह्रौ लक्ष्माऽस्ति वानर्येव विलग्नया ॥२८३|| तस्मादतः परं तात ! तथा कुरु यथाऽखिलान् । यातायातपरान् साधून् पश्यामि प्रतिवासरम् ॥२८४||
श्रेष्ठ्यब्रवीदिहाऽऽयान्ति ये केचिदिह पत्तने । भिक्षां देहि स्वयं तेभ्यो महर्षिभ्यो दिने दिने ॥२८५।। पाचक्रे च प्रत्यहमपि तदाद्यपि तथैव सा । दिदृक्षमाणा तल्लक्ष्मांऽह्रीन् मुनीनामवन्दत ॥२८६॥ द्वादशाब्दे च दिङ्मूढः स महामुनिरन्यदा । तया तत्राऽऽगत उपालक्षि तल्लक्ष्मवीक्षणात् ॥२८७|| तमृषि श्रीमती स्माऽऽह तत्र देवकुले तदा । मया वृतोऽसि त्वं नाथ ! त्वमेव हि वरो मम ॥२८८।। तदा गतोऽसि मां मुग्धां निर्धूय स्वेदबिन्दुवत् । क्व यास्यस्यद्य तु प्राप्तस्त्वमृणं धारयन्निव ? ॥२८९।। दृष्टनष्टो यदाऽभूस्त्वं तदाद्यपि हि नाथ ! मे । परासोरिव कालोऽगात् तत् प्रसीद भजस्व माम् ॥२९०॥ एवंस्थितेऽपि नैष्ठुर्याद् यदि मामवमन्यसे । भूत्वा तदग्निसाद् दास्ये स्त्रीहत्यापातकं तव ॥२९१।। पाराज्ञा महाजनेनाऽन्यैरप्युद्वाहाय सोऽर्थितः । सस्मार तां गिरं दिव्यां व्रतारम्भनिषेधिकाम् ॥२९२॥ तां स्मरन् दैवतीं वाचं निर्बन्धेनोदितश्च तैः । महात्मा पर्यणैषीत् तां श्रीमती भावि नान्यथा ॥२९३।। भुञ्जानस्य चिरं भोगान् श्रीमत्या सह तस्य तु । उत्पेदे क्रमयोगेण पुत्रो गार्हस्थ्यकीर्तनम् ॥२९४|| क्रमेणाऽऽसादयन् वृद्धि विमुञ्चन् क्षीरकण्ठताम् । स वक्तुमुल्लसज्जिह्वो राजकीर इवाऽभवत् ॥२९५।। पुत्रे तावति स प्रोचे श्रीमती मतिमद्वरः । अतः परं सहायस्ते पुत्रोऽस्तु प्रव्रजाम्यहम् ॥२९६।। श्रीमती धीमती तत्राऽन्तरे ज्ञापयितुं सुतम् । सतूलपूणिकं तओमादायाऽऽसन्युपाविशत् ॥२९७।। सा तर्कुकर्म प्रारेभे पप्रच्छ च स बालकः । किमेतदम्ब ! प्रारब्धं कर्मेतरजनोचितम् ? ॥२९८।। साऽवोचज्जात ! ते तातः प्रव्रज्यार्थं गमिष्यति । गतेऽस्मिन् पतिहीनायाः शरणं तर्कुरेव मे ॥२९९।। पाबालकोऽप्यवदद् बाल्यादक्षरैर्लल्लमन्मनैः । बद्ध्वाऽहं धारयिष्यामि कथं यास्यति मे पिता ? ॥३००।। इत्युक्त्वा तर्कुसूत्रेण लालयेवोर्णनाभकः । आवेष्टयत् पितुः पादौ स मुग्धमधुराननः ॥३०१॥ उवाच चाऽम्ब ! मा भैषी: स्वस्था भव मया ह्यसौ । बद्धपादो द्विप इवेशीत यातुं कथं पिता ? ॥३०२॥
श्रीमतीपतिरप्येवमचिन्तयदहो शिशोः । स्नेहानुबन्धः कोऽप्येष मन्मन:पक्षिपाश्यभूत् ॥३०३।। १. तस्य महर्षगुंह्या पक्षपातिनी देवता । २. अली भ्रमरः । ३. पुष्पं सं. मु. । पुष्प सं० खं. १-२ । ४. तत्प्रभृति । ५. मृतप्रायाया इव । ६. अग्निमध्ये पतित्वा । ७. मम खं. ४ । ८. योगेन खं. ४ । ९. गार्हस्थ्यं कीर्तयतीति । १०. स्तनपानम् । ११. सतूलपूलकं नू. मु. । तूलं-कर्पासं, तस्य पूणिः, तेन युक्तं तर्कु-'त्राक, तकली' इति भाषायाम् । त': सूत्रयन्त्रविशेषः । 'रेटियो' । १२. आसने । १३. अस्पष्टमधुरैः । १४. ऊर्णनाभः 'करोलियो' इति भाषायाम् । स लालया-'लाळ' द्वारा । १५. अवेष्ट० खं. २-३, मु. । १६. ईशीत-शक्तिमान् भवेत् । १७. ०पक्षिपाशकृत् खं. ३ । अपक्षिपाश: पाश: अभूदिति च्चिप्रत्ययप्रयोगः ।