________________
सप्तमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । एवं च वाहयन्नथवं स ययावधिकाधिकम् । पुन: पुनश्च व्याघुट्याऽऽययौ ते च विशश्रवसुः ॥२५१॥ आर्द्रकासूनुरन्येद्युः पुम्भिः प्रत्ययितैनिजैः । प्रगुणं कारयामास यानपात्रं पयोनिधौ ॥२५२॥ रत्नैश्च पूरयामास यानपात्रं तदाकिः । अग्रेऽप्यारोहयामास तत्राऽर्हत्प्रतिमां च ताम् ॥२५३|| तदैव वाहयन्नशवमदृशीभूय पूर्ववत् । तत्राऽऽरुह्य प्रवहणे स ययावार्यनीवृतम् ॥२५४|| पायानादुत्तीर्य संप्रेष्य प्रतिमामभयाय ताम् । सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिङ्गमुपाददे ॥२५५।। उच्चारयितुमारेभे यावत् सामायिकं च सः । आकाशस्थितया तावदूचे देवतयोच्चकैः ॥२५६।। महासत्त्वो यद्यपि त्वं ग्रहीर्दीक्षां तथापि मा । अद्यापि ते भोगफलं कर्माऽस्त्यागमयस्व तत् ॥२५७।। भुक्त्वा भोगफलं कर्माऽऽददीथाः समये व्रतम् । अवश्यमेव भोक्तव्यं भोग्यं तीर्थकृतामपि ॥२५८।। महात्मंस्तद् व्रतेनाऽलं यदात्तमपि हास्यते । भोजनेनापि किं तेन यद् भुक्तमपि वम्यते ? ॥२५९॥ पाअथाऽऽर्द्रककुमारोऽपि स्वमूरीकृत्य पौरुषम्। दैवीं वाचमनादृत्य प्रव्रज्यां स्वयमाददे ॥२६०|| प्रत्येकबुद्धः स मुनिनिशितं पालयन् व्रतम् । विहरन्नन्यदा प्राप वसन्तपुरपत्तनम् ॥२६१।। बाह्यदेवकुले क्वापि तस्थौ प्रतिमया च सः । सर्वाऽऽधिपरिहारेण समाधिमधिजग्मिवान् ॥२६२।। पाइतश्च तस्मिन्नगरे वरश्रेष्ठी महाकुलः । देवदत्तोऽभवत्तस्य पत्नी धनवती पुनः ॥२६३॥ स तु बन्धुमतीजीवश्रच्युत्वाऽजनि सुता तयोः । सुरूपा श्रीमती नाम श्रीमतीनां शिरोमणिः ॥२६४|| धात्रीभिर्लाल्यमाना च मालतीपुष्पदामवत् । पांशुक्रीडोचितां प्राप वयोऽवस्थां क्रमेण सा ॥२६५।। पातत्र देवकुलेऽन्येद्युः पौरबालाभिरन्विता । श्रीमती पतिरमणक्रीडया रन्तुमाययौ ॥२६६।। भर्तारं वृणुतेत्यूचुस्तत्र सर्वाश्च बालिकाः । कयाऽपि कोऽपि सर्वाभिर्वर: स्वरुचि वव्रिरे ॥२६७।। श्रीमत्युवाच सख्योऽसौ वृतो भट्टारको मया । साधु वृतं साधु वृतमिति चोवाच देवता ॥२६८।। तन्वाना गर्जितं रत्नान्यवर्षत् सा च देवता । श्रीमती गर्जिभीता तु तस्य पादेऽलगन्मुनेः ॥२६९।। सोऽचिन्तयत् क्षणं स्थित्वा ममाऽभूदिह तस्थुषः । उपसर्गोऽनुकूलोऽयं व्रतद्रुममहानिलः ॥२७०।। इति ध्यात्वाऽन्यतः सोऽगान्महर्षीणां हि कुत्रचित् । आस्थाऽऽन्यत्रापि न प्रायः सापायेषु तु का कथा ? ॥२७१।। पातामादातुं रत्नवृष्टिमाजगाम महीपतिः । अस्वामिकं धनं राज्ञोऽर्हतीति कृतनिश्चयः ॥२७२।। तद् द्रव्यं संवुवूर्षन्तो ददृशू राजपूरुषाः । नागलोकद्वारमिव स्थानं तन्नागसंकुलम् ॥२७३।। ऊचे च देवताऽमुष्यै दत्तं वरणके मया । द्रव्यमेतदिति श्रुत्वा विलक्षोऽपासरन्नृपः ॥२७४।। ततश्च तद्धनं सर्वमाददे श्रीमतीपिता । स्थानं ययुश्च सर्वे स्वं तदा सायमिवाऽण्डजाः ॥२७५।। q[अथोद्वोढुमढौकन्त श्रीमती बहवो वराः । वरं वृण्विति पित्रोक्ता जगाद श्रीमती त्वदः ॥२७६।।
१. मु. न । २. ते च तस्य वि० मु. । ३. विश्वस्तैः । ४. सज्जम् । ५. आर्यदेशम् । ६. ०सत्त्व ! खं. १ । ७. कर्माऽस्ति गम० खं. १-२ । प्रतीक्षस्व । ८. मोक्ष्यते । ९. देवी खं. १-२-३ । १०. तीव्रम् । ११. गर्जारवभीता । १२. मग्नाऽभू० मु. । १३. अन्यत्रापि कुत्रापि स्थाने स्थातुं महर्षीणां आस्था न स्यात्, सापायेषु स्थानेषु तु सुतरां सा नैवेति । १४. संबुभूर्षन्तो मु. । १५. पक्षिणः ।