________________
सान
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व भार्या बन्धुमती मेऽभूदश्रौषं च तया सह । यथावदार्हतं धर्मं सुस्थिताचार्यसन्निधौ ॥२२४।। धर्मं श्रुत्वा सभार्योऽपि प्रतिबुद्धस्तदन्तिके । गृहवासविरक्तोऽहं परिव्रज्यामुपात्तवान् ॥२२५।। पत्तने चाऽहमेकस्मिन् गुरुणा विहरन्नगाम् । बन्धुमत्यपि तत्राऽऽगात् संयतीजनमध्यगा ॥२२६|| qाएकस्मिन्नह्नि तां पश्यन्
म् । अनुरक्तोऽभवं तस्यां तदाख्यं चाऽन्यसाधवे ॥२२७।। सोऽप्याचख्यौ प्रवर्तिन्यै बन्धुमत्यै च सा पुनः । प्रवर्तिनी च प्रोवाच विषण्णा बन्धुमत्यदः ॥२२८॥ गीतार्थोऽप्येष मर्यादां लङ्केत यदि का गतिः ? । मर्यादां पालयन्नब्धिरपि पृथ्वी न लुम्पति ॥२२९।। देशान्तरमपि गतां यावच्छ्रोष्यति मामसौ । तावन्महानुभावश्च मयि रागं न हास्यति ॥२३०।। तस्मादहं भगवति ! प्रपत्स्ये मरणं खलु । न चास्य नापि मे शीलखण्डनं जायते यथा ॥२३१।। इति साऽनशनं कृत्वा स्वमुबध्य च लीलया । निष्ठ्यूतवज्जही प्राणान् देवभूयमियाय च ॥२३२।। पातथा मृतां च तां श्रुत्वा मयाऽप्येतद्विचिन्तितम् । महानुभावाऽमृत सा व्रतभङ्गभयात् खलु ॥२३३॥
भग्नव्रतः पुनरहं तदलं जीवितेन मे । कृत्वेत्यनशनमहं विपद्य त्रिदशोऽभवम् ॥२३४|| ततश्च्युत्वाऽहमुत्पन्नोऽस्म्यनार्यो धर्मवर्जितः । प्रतिबोधयिता यो मां स बन्धुः स गुरुश्च मे ॥२३५॥ भाग्योदयेन केनापि बोधितोऽभयमन्त्रिणा । अद्यापि मन्दभाग्योऽस्मि तं द्रष्टुं यदनीशवरः ॥२३६।। तदनुज्ञाप्य पितरमननुज्ञाप्य वाऽप्यहम् । आर्यदेशं गमिष्यामि यत्र मेऽस्त्यभयो गुरुः ॥२३७|| इत्थं मनोरथं कुर्वन् प्रतिमामादिमार्हतः । पूजयन्नार्द्रकासूनुर्व्यतियाति स्म वासरान् ॥२३८॥ qाअन्येारार्द्रकासूनुर्नुपमेवं व्यजिज्ञपत् । ताताऽभयकुमारेण सममिच्छामि दर्शनम् ॥२३९।।
अवादीदाकेशोऽपि न गन्तव्यं खलु त्वया । वत्स ! स्थानस्थितानां हि सौहृदं श्रेणिकेन नः ॥२४०।। पित्राज्ञया निबद्धश्चोत्कण्ठितश्चाभयं प्रति । ततश्चाऽऽर्द्रककुमारोऽपि तस्थौ न जगाम च ॥२४१।। वर्षन्नश्रान्तमाम्भः स भाद्रपदमेघवत् । अभयोत्कण्ठितस्तस्थावनुद्वानविलोचनः ॥२४२।। आसने शयने याने भोजनेऽन्यक्रियास्वपि । अभयालङ्कृतामाशां दृशोरग्रे चकार सः ॥२४३।। पारापत इवोड्डीय यियासुरभयान्तिके । न ह्याककुमारोऽगाद् रतिं रोर इवाऽऽमवान् ॥२४४||
कीदृशो मगधो देश: ? कीदृग् राजगृहं पुरम् ? । कस्कोऽध्वा तत्र गमनेऽपृच्छदेवं च पाश्रर्वगान् ॥२४५।। पादध्यावाईकराजोऽपि कुमारो मम निश्चितम् । यास्यत्यकथयित्वैव कदाऽप्यभयसन्निधौ ॥२४६।। ततश्च पञ्च सामन्तशतान्यादिशदाईकः । यदाककुमारोऽयं रक्ष्यो देशान्तरं व्रजन् ।।२४७||
देहच्छायेव तत्पाशर्वं सामन्तास्तेऽत्यजन्नहि । बन्दे धृतमिवाऽऽत्मानं कुमारोऽपि ह्यमस्त सः ॥२४८।। पाआर्द्रकिर्हृदये कृत्वाऽभयोपैगमनं सुधीः । प्रत्यहं कर्तुमारेभे वाह्याल्यां वाहवाहनम् ॥२४९॥
अश्वारूढाश्च पाश्रर्वेऽस्थुः सामन्तास्तेऽङ्गरक्षकाः । कुमारो वाहयन्नश्रवं किञ्चिद् गत्वा न्यवर्तत ॥२५०॥
१. संयता० मु., नू. मु. । २. पूर्वमनुभूतां कामक्रीडाम् । ३. समु० खं. १-४ । ४. निधूत० खं. १ । ५. कुमारो न खं. १ विना । ६. अश्रुजलं, अविरतं रुदन् इत्यर्थः । ७. ०वनुत्तान० मु., खं. २ । अनिमिषनयनः । ८. रोगी रङ्क इव । ९. कारागारे। १०. ०प्यत्यमस्त खं. १ । ११. आर्द्रकाया अपत्यम् । १२. अभयसमीपगमनम् । १३. अश्रवखेलनम् ।