________________
सप्तमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अवाप्य पितुरादेशं स्वमनोरथसन्निभम् । जनान्तिकेन सचिवं तमुवाचाऽऽर्द्रकासुतः ॥१९६॥ मा यासीसमनापृच्छ्य श्रोतव्यं गच्छता त्वया । अभयं प्रति मे स्नेहद्रुमबीजनिभं वचः ॥१९७।। मन्त्र्यप्येवमिति प्रोचे कुमारं सुकुमारगी: । राज्ञा विसृष्टश्च ययौ वेत्रिदर्शितमाश्रयम् ॥१९८।। [अन्येधुर्मौक्तिकादीनि प्राभृतान्याईके श्रवरः । अर्पयित्वा स्वपुरुषं व्यस्राक्षीन्मन्त्रिणं च तम् ॥१९९।। अथाऽऽर्द्रककुमारोऽपि हस्ते तस्यैव मन्त्रिणः । प्रैषीद्विद्रुम-मुक्तादिवस्तून्यभयहेतवे ॥२००॥ स पुमान् मन्त्रिणा सार्धं गत्वा राजगृहे पुरे । प्राभृतान्यर्पयामास श्रेणिकायाऽभयाय च ॥२०१॥
अभयस्य समाचख्यौ वाचिकं चेति मन्त्रिराट् । स आर्द्रककुमारस्ते सख्यं सौभ्रात्रमिच्छति ॥२०२।। प[अचिन्तयच्चेत्यभयः कुशलो जिनशासने । विराधितश्रामण्यत्वाज्जातोऽनार्येषु स ध्रुवम् ॥२०३।। नूनमासन्नभव्यः स महात्मा राजपुत्रकः । अभव्य-दूरभव्यानां न मया सख्यकामना ॥२०४|| समानपूण्यपापानां प्रीतिः प्रायेण देहिनाम् । तेषां ह्येकः स्वभावः स्यान्मैत्री चैकस्वभावजा ॥२०५।। तदुपायेन केनापि कृत्वा तं जिनधर्मिणम् । आप्तो भवामि स ह्याप्तो योऽग्रेगूर्धर्मवर्त्मनि ॥२०६।। तस्याऽऽर्द्रककुमारस्य तीर्थकृबिम्बदर्शनात् । उत्पद्यते यदि पुनर्जातिस्मरणमुत्तमम् ॥२०७।। तत्प्राभृतच्छलेनाऽर्हत्प्रतिमामहमुत्तमाम् । प्रेषयामि रत्नमयीं महाऽऽचार्यप्रतिष्ठिताम् ॥२०८।। इत्यादिनाथदेवस्याऽप्रतिमां प्रतिमां न्यधात् । पेटामध्ये समुद्गस्थां श्रेयस्कामगवीं स्वयम् ॥२०९॥ ततश्च धूपदहन-घण्टिकादीनि तत्पुरः । मुमोच देवपूजोपकरणान्यखिलान्यपि ॥२१०॥ दत्त्वा च तालकं द्वारे ततः श्रेणिकराजसूः । मञ्जूषां मुद्रयामास मुद्रया निजया स्वयम् ॥२११।। आर्द्रकेशपुमांसं तं प्रभूतैः प्राभृतैः सह । विससर्ज प्रियाऽऽलापपूर्वकं मगधाधिपः ॥२१२।। अभयोऽपि हि तां पेटां तस्य हस्ते समर्पयन् । तमुवाचेति सत्कृत्य वाचा पीयूषसारया ॥२३१।। एषाऽऽर्द्रककुमारस्य पुर: पेटोपढौक्यताम् । मदीयं तस्य मद्बन्धोर्वाच्यमेतच्च वाचिकम् ॥२१४।। रहस्येकाकिना भूत्वोन्मुद्रय पेटामिमां स्वयम् । तदन्तर्वस्तु संप्रेक्ष्यं दर्शनीयं न कस्यचित् ।।२१५|| इति कर्तव्यमित्युक्त्वा स पुमान् स्वपुरं ययौ । उपायनान्यार्पयच्च स्वस्वामि-स्वामिपुत्रयोः ॥२१६।। तच्चाककमारायाऽऽचख्यावभयवाचिकम् । ततो रहसि स स्थित्वा तां पेटामदघाटयत् ॥२१७|| ददर्श च तदन्तःस्थां तमस्युद्योतकारिणीम् । तामादिनाथप्रतिमां ज्योतिभिर्घटितामिव ॥२१८।। दध्यौ च किमिदं किञ्चिदङ्गाभरणमुत्तमम् ? । किमारोप्यं मूनि कण्ठे हृदयेऽन्यत्र वा क्वचित् ? ॥२१९।। दृष्टपूर्वमिवेदं मे क्वापीति प्रतिभासते । न तु स्मृतिपथं याति मन्दाभ्यासस्य शास्त्रवत् ॥२२०।। इत्याककुमारस्य भृशं चिन्तयतः सतः । मूर्छा जातिस्मृतिजनन्यजनिष्ट गरीयसी ॥२२१॥ उत्पन्नजातिस्मरणः स्वयमेवाऽऽप्तचेतनः । स एवं चिन्तयामास पूर्वजन्मकथां निजाम् ॥२२२।। पाइतो भवात्तृतीयस्मिन् भवे मगधनीवृति । कुटुम्बी वसन्तपुरेऽभूवं सामायिकाभिधः ॥२२३||
१. एकान्ते इत्यर्थः । २. ०र्दिका० खं. ४ । ०र्द्रकः मु. । ३. सख्यसौ० खं. १-२-४ । ४. आसन्नकल्याणः । ५. अभव्य:मोक्षगमनायोग्यः । दूरभव्यः-यस्य मुक्तिर्न निकटा । ६. यथाविधि प्रति० खं. ४ । ७. मञ्जूषा । ८. ज्योतिर्भि० मु., नू. मु. । ९. देशे ।