________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
अभयोऽभिदधे देव ! सेयं चौरी यया प्रभोः । अचोरि चित्तं पर्याप्तमूमिकाकथया तया ॥१६८॥ स्मितं कृत्वा नृपोऽप्यूचे परिणेष्याम्यममपि । किं नाऽश्रौषीरुपादेयं स्त्रीरत्नं दुष्कुलादपि ? ॥१६९।। इति सद्योऽनवद्याङी राजा परिणिनाय ताम । चकार चाऽग्रमहिषीमनरागेण भयसा ॥१७०।। पारेमेऽन्यदाऽझै राज्ञीभिर्नृपस्तत्रेत्यभूत् पणः । जितस्य पृष्ठेऽश्रवस्येवाऽध्यारोहति जयी हि यः ॥१७१।। राश्यः सर्वाः कुलोत्पन्ना व्यजयन्त यदा नृपम् । तदा न्यधुर्वस्त्रमात्रं तत्पृष्ठे जयसूचकम् ॥१७२।। वेश्यासुता तु सा राज्ञी जिगाय नृपमन्यदा । आरुरोह च निःशङ्का तत्पृष्ठं कठिनाशया ॥१७३|| जहास च नृपोऽकस्मात् तत् स्मृत्वा भगवद्वचः । साऽप्युत्तीर्य च पप्रच्छ हासकारणमादरात् ॥१७४|| राजाऽपि स्वामिनाऽऽख्यातं तस्याः पूर्वभवादिकम् । पृष्ठारोहणपर्यन्तं वृत्तान्तं तमचीकथत् ॥१७५।। तच्छ्रुत्वा द्राग्विरक्ता साऽनुज्ञाप्य पतिमादरात् । श्रीमहावीरपादान्ते परिव्रज्यामुपाददे ॥१७६।। पाइतश्च मध्येऽम्भोराशि पातालभवनोपमः । आर्द्रको नाम देशोऽस्ति पुरं तत्राऽऽकाभिधम् ॥१७७|| राजमानः श्रिया राजा राजेवाऽऽनन्दको दृशाम् । तत्राऽभूदाईक इति महिषी तस्य चाका ॥१७८॥ तयोराईककुमारोऽभवदामनाः सुतः । स प्राप्तयौवनो भोगान् भुञ्जानोऽस्थाद्यथारुचि ॥१७९॥ तस्य चाकराजस्य बभूव श्रेणिकस्य च । पारम्पर्यागता प्रीतिस्तन्मनोनिगडोपमा ॥१८०।। qाअन्यदा श्रेणिकः प्रैषीन्निजामात्यमपाईकम । समर्प्य प्राभतं प्राज्यं दोहदं स्नेहवीरुधः ॥१८१।। स मन्त्री गतमात्रोऽपि तेनाऽऽर्द्रकमहीभुजा । मूर्तिस्थं श्रेणिकाजर्यमिवाऽदृश्यत गौरवात् ॥१८२।। मन्त्रिणा चोपनीतानि प्राभृतान्याददे नृपः । सौवर्चल-निम्बपत्र-कम्बलादीन्यनेकशः ॥१८३।। महत्या प्रतिपत्त्या तं सम्भाव्याऽऽर्द्रक भूपतिः । प्रपच्छ कच्चित् कुशलं मबन्धोर्मगधेशितुः ? ॥१८४॥ स्वस्वामिकुशलोदन्तैः सान्द्रश्चन्द्रातपैरिव । तन्मन:कुमुदानन्दं सचिवेन्दुरदत्त सः ॥१८५॥ पापप्रच्छाऽऽककुमारस्तात ! को मगधाधिपः ? । तव येनेदृशी प्रीतिर्मधुनेव मनोभुवः ? ॥१८६।। राजा प्रोवाच राजाऽस्ति श्रेणिको मगधाधिपः । पारम्पगिता मैत्री तत्कुले मत्कुलेऽपि च ॥१८७|| द्रागाईककुमारोऽपि प्रोन्मीलत्प्रेमकन्दलः । दृशा सुधातरङ्गिण्या पश्यन् मन्त्रिणमब्रवीत् ॥१८८।। किमनूनगुणः सूनुस्त्वत्प्रभोरस्ति कश्चन ? । अमात्य ! कर्तुमिच्छामि तं सभाजनभाजनम् ॥१८९।। मन्त्र्यूचेऽस्ति धियां धाम पञ्चमन्त्रिशताधिपः । वदान्योऽनन्यसामान्यकरुणारससागरः ॥१९०।। दक्षः कृतज्ञः सकलकलाजलधिपारगः । अभयो नाम तनयः श्रेणिकस्य महीपतेः ॥१९१।। (युग्मम्) बुद्धिविक्रमसम्पन्नं धर्मज्ञं भयवर्जितम् । अभयं विश्वविदितं न जानासि कुमार ! किम् ? ॥१९२।। गुणा न केऽपि ते सन्ति येऽभये न कृतास्पदाः । जीवाकारा इवाऽम्भोधौ स्वयम्भूरमणाभिधे ॥१९३।। पाआर्द्रकेशोऽपि पुत्रं स्वमभये सौहृदार्थिनम् । ऊचे मन्मार्गसंलग्नः कुलीनो नन्दनोऽसि मे ॥१९४|| द्वयोः समानगुणयोः समानकुलसम्पदोः । विवाहसम्बन्ध इव युज्यते वत्स ! सौहृदम् ॥१९५।।
१. चोरी मु. । चौरशब्दस्य स्त्रीलिङ्गे ङीप्रत्यये रूपम् । २. समुद्रमध्ये । ३. चन्द्रमा इव । ४. ०पर्यगता खं. १ । ५. स्नेहवल्ल्याः । ६. मूर्तिमच्छ्रे मु. । ७. अजयं सख्यम् । ८. सौवर्चलं 'संचल' नामकं लवणम् । ९. मधुना–वसन्तऋतुना। मनोभुवः-कामदेवस्य । १०. सभाजनं प्रीतिः । ११. दानी । १२. यथा 'स्वयम्भूरमण' नाम्नि समुद्रे मत्स्यजीवाः सर्वपदार्थाकाराः सन्ति तथाऽभयः सर्वगुणानामाकरः ।