________________
सप्तमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । महामुनीनां तेषां च स्वेदक्लिन्नाङ्गवाससाम् । मलगन्धस्तया जघ्र प्रतिलम्भयमानया ॥१४१॥ सुगन्धचोक्षवसना नानालङ्कारधारिणी । अङ्गरागविलिप्ता सा दध्यौ शृङ्गारमोहिता ॥१४२।। अर्हद्भिर्भाषितो धर्मोऽनवद्यः सकलोऽपि हि । स्नायेत प्रांशुकाम्भोभिश्चेद्दोषः स्यात्तदा हि कः ? ॥१४३|| मुनीनां मलदुर्गन्धजुगुप्सनसमुद्भवम् । दुष्कर्म तदनालोच्याऽप्रतिक्रम्य च सा मृता ॥१४४|| मृत्वा राजगृहे राजञ्जगाम गणिकोदरे । अभून्मातुश्च सा गर्भस्थिताऽप्यरतिदायिनी ॥१४५।। वेश्यया प्रत्यहं पीतैर्गर्भपातौषधैरपि । स गर्भो नाऽपतत् कर्म बलीयः कीदृगौषधम् ? ॥१४६।। साऽसूतेमां सुतां वेश्या दुर्गन्धां तेन कर्मणा । विष्टामिव च तत्याजोदरान्निपतितामपि ॥१४७|| पापप्रच्छ पुनरप्येवं श्रेणिकः परमेश्वरम् । सुखदु:खानुभवभाक् कथमेषा भविष्यति ? ॥१४८|| स्वाम्याख्यदनया सर्वमपि दुःखमभुज्यत । यथा तु सुखभागेषा भविष्यति तथा शृणु ॥१४९।। अष्टौ वर्षाण्यसावग्रमहिषी ते भविष्यति । अभिज्ञानमिदं चात्र तत्परिज्ञानकारणम् ॥१५०॥ शुद्धान्ते रममाणस्य तव पृष्ठे करिष्यति । या हंसलीलां जानीथास्तामिमां मगधाधिप ! ॥१५१।।
अहो आश्चर्यमेषा मे कथं पत्नी भविष्यति ? । चिन्तयन्निति राजाऽगाद् गृहे नत्वा जिनेशवरम् ॥१५२।। पादुर्गन्धायाश्च गन्धोऽथ कर्मनिर्जरया ययौ । आभीर्या चैकया दृष्टोपाददे साऽनपत्यया ॥१५३||
आभीर्योदरजातेव पाल्यमाना क्रमेण सा । बभूव यौवनप्राप्ता रूपलावण्यशालिनी ॥१५४|| पाअन्यदा नगरे कौमुद्युत्सवोऽभून्मनोरमः । शृङ्गाररससर्वस्वनाटकामुखसन्निभः ॥१५५।। कुमारयुवतिर्मात्रा सहोत्सवदिदृक्षया । युवलोचनसारङ्गवागुरा सा समाययौ ॥१५६।। शुचिसंव्यानसंवीतसर्वाङ्गौ श्रेणिकाभयौ ! विवाहप्रस्थितवराविव तत्र समेयतुः ॥१५७।। महत्युत्सवसंमर्दे श्रेणिक स्य करोऽलगत् । आभीरीदुहितुस्तस्या हृद्युन्नतकुचस्थले ॥१५८।। राजा जातानुरागो द्राक् तस्या निवसनाञ्चले । निजां बबन्ध सम्भोगसत्यङ्कारमिवोमिकाम् ॥१५९।। अभयं चाऽऽदिशन्नाममुद्रा मे व्यग्रचेतसः । केनाप्यहारि तच्छोध्यस्त्वया तदपहारकः ॥१६०॥ पारुरोध धीमतां धुर्यो रङ्गद्वाराण्यथाऽभयः । लोकानेकैकमारेभे क्रष्टुं शारानिवाऽऽक्षिकः ॥१६१॥ सर्वेषामपि वस्त्राणि केशपाशान् मुखानि च । अभयः शोधयामास धिषणाधनशेवधिः ॥१६२॥ आभीरीपुत्रिकायाश्च तस्या वस्त्रादि शोधयन् । स ददर्शाऽञ्चले बद्धां नृपनामाङ्कितोर्मिकाम् ॥१६३।। तामपृच्छच्च जगृहे त्वयेयं कथमूर्मिका ? । कर्णौ पिधाय साऽप्यूचे न जाने किञ्चिदप्यदः ॥१६४|| तां च रूपवतीं दृष्ट्वा स दध्यौ धीमतां वरः । नूनं तातोऽनुरक्तोऽस्यामाभीरीदुहितर्यभूत् ॥१६५।। अस्याः संग्रहणविधावभिज्ञानं निजोर्मिकाम् । राजा रागपरवशो बबन्ध नियतं स्वयम् ॥१६६।। अभयश्चिन्तयन्नेवं तां निन्ये राजसन्निधौ । राजाऽप्यपृच्छत् किं प्राप्तो ? यशस्कर ! स तस्करः ? ॥१६७||
१. चोक्ष-निर्मलम् । २. प्रासुका० मु., नू. मु. । ३. वेश्या च खं. ४ । वेश्यायाः मु. । ४. सूचकं चिह्नम् । ५. अन्तःपुरे। ६. ०नाटिकासुख० मु., नू. मु. । ७. कुमारी चासौ युवतिः । ८. यूनां लोचनान्येव सारङ्गाः (मृगाः) तद्बन्धने वागुरा-जालम् । ९. सारामिवा० खं. ३ । शारीरिवा० मु. । १०. द्यूतकारः । ११. बुद्धिधनस्य निधिः ।