________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
ऊचे क्षुधातुरै रात्रिचरो दुष्करकारकः । येनाऽतिक्षुधितेनापि प्राप्ता सा न हि भक्षिता ॥ ११२ ॥ जारैरभिदधे मालाकारो दुष्करकारकः । न सा येनोपबुभुजे स्वयमेवाऽऽगता निशि ॥११३॥ चूतचौरेण च प्रोचे चौरा दुष्करकारकाः । अलुण्टितसुवर्णैव नवोढा यैरमोचि सा ॥ ११४ ॥ [अभयोऽपि परिज्ञाय तस्करं तमधारयत् । पप्रच्छ च कथं चूतापहारो विदधे त्वया ? ॥११५॥ चौरोऽप्यकथयद्विद्याबलेनेति ततोऽभयः । राज्ञे तत्सर्वमाचख्यौ तं च चौरं समार्पयत् ॥ ११६॥ श्रेणिकोऽप्यवदत् प्राप्तश्चौरो नान्योऽप्युपेक्ष्यते । शक्तिमान् किं पुनरयं तन्निग्राह्यो ह्यसंशयम् ॥११७॥ अभयोऽप्यच्छलं प्रार्थ्य महीनाथं व्यजिज्ञपत् । विद्याऽस्माद् गृह्यतां देव ! पश्चाद्युक्तं करिष्यते ॥११८॥ [[ततश्च मातङ्गपतिमुपवेश्याऽऽत्मनः पुरः । विद्यां पठितुमारेभे तन्मुखान्मगधाधिपः ॥११९॥ राज्ञः सिंहासनस्थस्य सा विद्या पठतोऽपि हि । हृदि नाऽवस्थितिं चक्रे वारि च्युतमिवोन्नते ॥१२०॥ ततश्च तर्जयामास चौरं राजगृहेश्वरः । कूटं किमपि ते विद्या न संक्रामति यन्मयि ॥१२१॥ अभयोऽप्यभ्यधाद्देव ! विद्यागुरुरयं हि वः । गुरौ विनयभाजां हि विद्या स्फुरति नान्यथा ॥१२२॥ आस्यतामेष मातङ्गो देव ! सिंहासने निजे । अस्याग्रे त्वञ्जलिं बद्ध्वा स्वयं भुव्युपविश्यताम् ॥ १२३॥ तस्याथ प्रतिपत्तिं तां विद्याऽर्थी नृपतिर्व्यधात । नीचादप्युत्तमां विद्यां गृह्णीयात् प्रथितं ह्यदः ॥१२४।। उन्नामन्यवनामन्यौ विद्ये तद्वदनाच्छुते । राज्ञो हृद्यवतस्थाते दर्पणे प्रतिबिम्बवत् ॥ १२५॥ अभयोsपि महीपालं प्रसाद्य रचिताञ्जलिः । विद्यागुरुत्वमापन्नं तं चौरं पर्यमोचयत् ॥ १२६॥ [[अन्यस्मिन्नह्नि समवसृतं श्रीज्ञातनन्दनम् । नन्तुं गजघटाघण्टाटङ्कारैः पूरयन् दिशः ॥१२७॥ वर्तयद्भिरिव मिथो हेषाव्याजेन वाजिभिः । निरुन्धानोऽवनितलं वाह्यालीरङ्गनर्तकैः ॥१२८॥ अम्बैरावतरन्मेघमण्डलश्रीविडम्बकैः । शोभमानचमूलोको मायूरातपवारणैः ॥ १२९॥
वाहनस्य तुरङ्गस्य नृत्यतः स्पर्धया ध्रुवम् । प्रनृत्यद्रत्नतोडङ्कः सहोद्गत इवाऽऽसने ॥ १३०॥ राकानिशाकरस्पर्द्धिधवलातपवारणः । जह्नवी - यमुनाकल्पवारस्त्री धुतचामरः ॥१३१॥
वैतालिकैः स्तूयमानः स्वर्णालङ्कारबन्धुरैः । भूमिष्ठ इव सुत्रामा जगाम मगधाधिपः ॥ १३२ ॥ ( षड्भिः कु लकम्) [[तदा च वर्त्मन्येकाऽभूज्जातमात्रोज्झिताऽभिका । पूत्यादिभ्योऽपि दुर्गन्धा नरकांश इवाऽऽगतः ॥१३३॥ तद्गन्धं घ्रातुमसहाः सर्वे घ्राणमपूपुरन् । प्राणायामकृतः सायं गायत्रीजापका इव ॥१३४॥ किमेतदिति पृष्टश्च श्रेणिकेन परिच्छदः । कथयामास दुर्गन्धां जातमात्रेोज्झितां च ताम् ॥१३५॥ राजाऽप्यर्हन्मुखान्नित्यं श्रुतद्वादशभावनः । अजुगुप्सापरो बालां तां निरीक्ष्य ययौ स्वयम् ॥१३६॥ गत्वा समवसरणे वन्दित्वा परमेश्वरम् । दुर्गन्धाया कथां तस्याः पप्रच्छ समये नृपः ॥१३७|| [स्वाम्याख्यत् पर्यन्तदेशे शालिग्रामेऽभवद्धनी । धनमित्र इति श्रेष्ठी धनश्रीरिति तत्सुता ॥ १३८॥ धनश्रियो विवाहे च प्रारब्धे श्रेष्ठिनाऽन्यदा । विहरन्तः समाजग्मुग्रष्मर्ती केऽपि साधवः ॥ १३९ ॥ प्रतिलाभय साधूनित्यादिदेश च तां पिता । सा सद्वृत्ता प्रवृत्ता च प्रतिलाभयितुं क्षणात् ॥१४०॥
९४
१. वार्तां कुर्वद्भिः । २. बाह्याली एव रङ्गं - नृत्यभूमिः, तत्र नर्तकैः । ३. अम्बरादव० मु., नू. मु. । ४. मयूरपिच्छछत्रैः । ५. ताडङ्कः कर्णकुण्डलम् । ६. गङ्गा-यमुनानदीसमाने वारस्त्रियौ - गणिके, ताभ्यां धुतौ चामरौ यस्य सः । ७. धृत० खं. ३-४ । ८. ०सरणं खं. १ । ९. आहारं दातुम् ।