________________
सप्तमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । वरवृन्दारकप्राप्त्यै देवं पूजयितुं स्मरम् । क्वाप्युद्याने चौरिकयोच्चिच्ये पुष्पाणि साऽन्वहम् ॥८४|| पुष्पचौरं धरिष्येऽहमद्येत्युद्यानपालकः । एकदाऽन्तर्हितो भूत्वा तस्थौ व्याध इव स्थिरः ॥८५।। प्राग्वदागत्य विश्रम्भात्तां पुष्पाण्यवचिन्वतीम् । दृष्ट्वा रूपवती क्षोभमियायाऽऽरामिकः स तु ॥८६।। तां धृत्वा बाहुनोद्यानपालको जातवेपथुः । सद्यो विस्मृतपुष्पापहारकोपो जजल्प च ॥८७|| रमयस्व रिरंसुं मामागतं वरवणिनि ! । अन्यथा त्वां न मोक्ष्यामि पुष्पक्रीती मया ह्यसि ॥८८|| तमूचे पुष्पलावी सा मा मा मां स्पृश पाणिना । कुमार्यस्मि न पुंस्पर्शमद्याप्यामि मालिक ! ॥८९।। आरामिकोऽपि तामूचे त्वया त ढमात्रया । प्रथमं मम सम्भोगपात्रीकार्यमिदं वपुः ॥१०॥ तथेति तां प्रपेदानां बालामुद्यानपालकः । मुमोचाऽक्षतकौमारा साऽपि स्वसदनं ययौ ॥११॥ पाअन्येद्युः परिणीता च सा वरेण वरीयसा । उवाच च पति रात्रौ वासागारमुपेयुषी ॥९२॥
आर्यपुत्र ! मया मालाकारस्याऽस्ति प्रतिश्रुतः । उदूढमात्रया तस्याऽभिगमः प्रथमं खलु ॥९३|| तस्मान्मामनुमन्यस्व वाग्बद्धा तं व्रजाम्यहम् । त्वत्सादपि भविष्यामि सकृत्तमभिजग्मुषी ॥९४।।
अहो शुभाशया सत्यसन्धेयमिति विस्मयात् । सा पत्याऽनुमता सद्यो निर्ययौ वासवेश्मतः ॥९५॥ पाविचित्ररत्नाभरणा सा यान्ती पथि तथ्यवाक् । अरुध्यत धनायद्भिः पाप्मभिः पारिपन्थिकैः ॥९६।।
सा तथा मालिककथामाख्यायोवाच तस्करान् । हे भ्रातरो ! व्याघुटन्त्या गृह्णीताऽऽभरणानि मे ॥९७|| स्वभावकथनात्तस्या मन्वानैः सत्यसन्धताम् । आगच्छन्ती ग्रहीष्याम इति चौरेरमोचि सा ॥९८|| q[अग्रे च रक्षसैकेन बुभुक्षाक्षामकुक्षिणा । रुरुधे मृगनेत्रा सा मृगीव मृगवैरिणा ॥९९॥
तस्याः स्वभावाऽऽख्यानेन विस्मितो राक्षसोऽपि हि । वलितां भक्षयिष्यामीत्याशयेन मुमोच ताम् ॥१००॥ पासा ययौ च तमाराममारामिकमवाच च । पुष्पलाव्यस्मि सैषाऽहं नवोढा त्वामुपागता ॥१०॥ अहौ ! महासती सत्यप्रतिज्ञेयं महात्मिका । इति तां मातृवन्नत्वा मालिकोऽपि मुमोच सः ॥१०२॥ सा व्याघुटन्ती तत्रैव रक्षसस्तत्र तस्थुषः । मालिकेन यथा मुक्ता तथाऽऽख्यदखिलां कथाम् ॥१०३।। मालिकादपि किं हीनसत्त्वोऽहमिति चिन्तयन् । मुमोच तां राक्षसोऽपि प्रणम्य स्वामिनीमिव ॥१०४।। पश्यतां वर्त्म चौराणां सन्निधानमुपेत्य सा । जगाद भ्रातरः ! सर्वैः सर्वस्वं गृह्यतां मम ॥१०५।। मालिकेन यथा मुक्ता यथा मुक्ता च रक्षसा । तत् साऽऽख्यदखिलं तेऽपि तदाकण्यॆवमूचिरे ॥१०६।। न वयं हीनसत्त्वाः स्मो मालिकात् कौणपादपि । तद् गच्छ भद्रे ! भद्रं ते वन्दिताऽसि भगिन्यसि ॥१०७|| गत्वाऽऽचख्यौ च सा स्वस्मै वराय वरवर्णिनी । चौर-राक्षस-मालाकृत्कथामवितथां तथा ॥१०८॥ विभावरी तामखिलां भुक्तभोगस्तया सह । सर्वस्वस्वामिनी चक्रे तां पतिस्तपनोदये ॥१०९।। विचार्य तद् ब्रूत जनाः! कः स्याद् दुष्करकारकः? । किं पतिस्तस्कराः किं वा? किं रक्षो? मालिकोऽथ किम्? ॥११०।। तत्र चालवः प्रोचुः पतिर्दुष्करकारकः । नवोढाऽनङ्गलग्नापि येन प्रेष्यन्यपुंस्कृते ॥१११॥
१. श्रेष्ठवरप्राप्त्यै । २. पुष्पाणि विचि० मु. । ३. ०क्रीता मु., नू. मु. । ४. पुष्पाणि लुनाति-पुष्पलावी । 'कर्मणोऽण्' (सि. ५ - १-७२), ततो 'अणजेयेकण्' डीः (सि २-४-२०) । ५. स्वं स० खं. १ । ६. श्रेष्ठेन वरेण । ७. ०श्रुतम् खं. ४ । प्रतिज्ञातः-स्वीकृतः । ८. अभिगमनं पतित्वेन सेवनमित्याशयः । ९. त्वदधीना । १०. सत्यप्रतिज्ञा । ११. ०मतिविस्मयात् खं. १-३ । १२. धनमिच्छद्भिः । १३. चौरैः । १४. निवर्तमानायाः ।