________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
यादृशं तादृशमपि स्थानं निर्देवतं न हि । वृक्षराजः पुनरयं श्रियाऽपि व्यक्तदैवतः ॥५५॥ आराधयामि तपसा तदेतस्याऽधिदेवताम् । यथाऽमुं छिन्दतो न स्याद्विघ्नः सस्वामिनो मम ॥५६॥ ततश्चोपोषितो भूत्वा वर्धकिस्तं महातरुम् । भक्त्याऽध्यवासयद् गन्ध-धूप- माल्यादिवस्तुभिः ॥५७॥ तदाऽभयकुमाराय व्यन्तरस्तद्रुमाश्रयः । आख्यत्तदर्थसिद्ध्यर्थं रक्षार्थं स्वाश्रयस्य च ॥५८॥ मर्दाश्रयद्द्रुर्नच्छेद्यस्तं निवारय वर्धकिम् । प्रासादमेकस्तम्भं हि करिष्याम्यहमेव भोः ! ॥५९॥ सर्वर्तुमण्डितं सर्ववनस्पतिसमाकुलम् । उद्यानं नन्दनमिव करिष्ये च तदाश्रितम् ॥६०॥ भणितो व्यन्तरेणैवमभयो वर्धकिं वनात् । आह्वास्त सद्यः सिद्धं नः समीहितमिति ब्रुवन् ॥६१॥ प्रतिपन्नं व्यधात् सौधं व्यन्तरोऽपि तथैव तम् । अधिकाः किङ्करेभ्योऽपि वाग्बद्धा देवयोनयः ॥६२॥ प्रासादमेकस्तम्भं तं सर्वर्तुवनमण्डितम् । अभयोऽदर्शयद्राज्ञे राजा प्रीतोऽब्रीवददः ॥६३॥ इच्छतां केवलं सौधं सर्वर्तुवनमप्यभूत् । उपक्रान्ते क्षीरपाणे शर्करापतनं ह्यदः ||६४|| मुमोच चेल्लणां तत्र प्रासादे मगधाधिपः । सोऽलंचक्रे तयाऽत्यन्तं पद्मह्रद इव श्रिया ॥ ६५ ॥ राज्ञी तु चेल्लणा तत्र सर्वर्तुद्यानसम्भवैः । पुष्पैरानर्च सर्वज्ञमुच्चितग्रथितैः स्वयम् ॥६६॥ सद्योऽवचित्य ग्रथितैः पुष्पैस्तैरेव चेल्लणा । सैरन्ध्रीव स्वयं पत्युः केशपाशमपूरयत् ॥६७॥ एवं श्रीवीतरागार्थं पत्यर्थं चावचिन्वती । धर्मकामफलीचक्रे तद्वनप्रसवानि सा ॥६८॥ चेल्लणोपवने तत्र सदापुष्पे सदाफले । श्रेणिकं रमयामास मूर्तेव वनदेवता ॥ ६९ ॥ [विद्यासिद्धस्य मातङ्गपतेस्तत्पुरवासिनः । पत्न्या अन्येद्युरुत्पेदे माकन्दफलदोहदः ॥७०॥ साऽवोचत् पतिमाम्राणि देहि पूरय दोहदम् । सोऽब्रवीदयि ! मूढा त्वमाम्राण्यसमये कुतः ॥ ७१ ॥ मातङ्गपतिमित्यूचे भार्याऽऽर्यसुत ! विद्यते । फलितं चेल्लणोद्याने सहकारवनं सदा ॥७२॥ तदैव चेल्लणोद्यानसमीपं समुपेयिवान् । अतितुङ्गान् स मातङ्गोऽद्राक्षीच्च तान् सदाफलान् ॥७३॥ उत्पश्योऽपश्यदागत्य निश्याम्राणि पुनश्च सः । पचेर्लिमानि गणको नक्षत्राणीव भूस्थितः ॥७४॥ क्षणादेवाऽवनामन्या विद्यासिद्धः स विद्यया । आम्रशाखाँ नमयित्वा स्वैरमाम्राण्युपाददे ॥७५॥ प्रातर्लूनफलामाम्रर्व(वे?)णिकां राज्ञ्युदैक्षत । चित्रशालामिव भ्रष्टचित्रामरतिदायिनीम् ॥७६॥ राज्ञी राज्ञे तदाचख्यौ राजाऽप्यभयमादिशत् । अदृष्टपदसंचारमाम्रचौरं गवेषय ॥७७॥ दस्योर्यस्येदृशी शक्तिरतिशायिन्यमानुषी । वत्स ! सम्भाव्यते तस्मादप्यन्तः पुरविप्लवः ॥७८॥ अवादीदभयोऽप्येवमर्पयिष्यामि तस्करम् । अचिरादेव तं देव ! दर्शनप्रतिभूरिव ॥ ७९ ॥ इति प्रतिज्ञां निर्मायाऽभयस्तद्दिवसादपि । पुरेऽहर्निशमभ्राम्यत्तस्य दस्योर्दिदृक्षया ॥८०॥ [[एकदा च पुरे भ्राम्यन्नभयो धीमतां वरः । कार्यमाणे पुरजनैः क्वापि सङ्गीतके ययौ ॥८१॥ पौरदत्ताऽऽसनासीनोऽभयः पौरानभाषत । न यावदायान्ति नटास्तावदाकर्ण्यतां कथा ॥ ८२ ॥ वसन्तपुरवास्तव्यो जीर्ण श्रेष्ठ्यतिनिर्धनः । एकोऽभूत्तस्य च बृहत्कुमार्येका वरोचिता ॥८३॥
९२
[ दशमं पर्व
१. ममाश्रयदुर्नाच्छेद्य० मु. । २. ०मुचित० खं. १-४ । ३. ०वचित० खं. १ । ४. ०दधिमूढा खं. ३ । ५. ऊर्ध्वं पश्यन् । ६. पक्वानि । ७. ०शाखा खं. १-४ । ८. ०वाटिकां मु., नू. मु. । ९. दर्शनसाक्षी - चौरं साक्षाद् दृष्टवानिव ।