________________
सप्तमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । ज्ञातमन्तःपुरमभूद् रे ! दुराचारदूषितम् । तत्सर्वं ज्वाल्यतां मा भूर्मातृमोहादनीदृशः ॥२७॥ इत्यादिश्याऽभयं राजा राजमानोऽद्भुतश्रिया । अर्हद्भट्टारकं वीरस्वामिनं वन्दितुं ययौ ॥२८॥ अभयः सभयस्ताते स्वभावाच्च विमृश्यकृत् । मन्त्रविन्मन्त्रयांचक्रे मनीषी मनसा सह ॥२९॥ सतीमतल्लिकाः सर्वा मातरो मे स्वभावतः । तास्वहं कृतरक्षोऽस्मि तातस्याऽऽज्ञा च तादृशी ॥३०॥ सम्भावितं त्वसम्भाव्यं तातपादैः करोमि किम् ? । नदीपूर इवाऽसह्यः कोपो हि प्रथमं प्रभोः ॥३१॥ तथाऽपि चित्रमुत्पाद्य कालक्षेपः करिष्यते । कालक्षेपाद्यदि पुनः प्रभोः कोपो निवर्तते ॥३२॥ शुद्धान्तसन्निधौ जीर्णेभकुटीरभयस्ततः । ज्वालयामास निर्दग्धः शुद्धान्त इति घोषयन् ॥३३|| पाइतश्च श्रेणिकोऽपृच्छत् समये परमेश्वरम् । एकपत्नी किमनेकपत्नी वा चेल्लणा प्रभो !? ॥३४॥ स्वाम्याख्यद्धर्मपत्नी ते चेल्लणा हि महासती । तामन्यथा मा शङ्किष्ठाः शीलालङ्कारशालिनीम् ॥३५|| इदं च श्रेणिकः श्रुत्वा पश्चात्तापमुपागतः । सपदि स्वामिनं नत्वा दधावे नगरं प्रति ॥३६॥ तथा प्रदीपनं कृत्वाऽभ्यायान्तं चाभयं नृपः । अपृच्छदस्मदादेशो भवता किमनुष्ठितः ? ॥३७|| अभयोऽपि भयादूचे प्रणम्य रचिताञ्जलिः । स्वाम्यादेशोऽपरस्यापि प्रमाणं, किं पुनर्मम ? ॥३८|| राजा प्रोवाच रे पाप ! दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि किं नाऽपप्तः प्रदीपने ? ॥३९॥ अभयोऽप्यभ्यधाद्देव ! श्रुतार्हद्वचनस्य मे । पतङ्गमरणं नाऽर्हमादास्ये समये व्रतम् ॥४०॥ अभविष्यत्त्वदाऽऽदेशो यद्येवमपि मे प्रभो ! । तदा पतङ्गमृतिमप्यन्वष्ठास्यं न संशयः ॥४१॥ अकृत्यं मगिराऽप्येवं किमकार्षीरिति ब्रुवन् । ततः पीतविष इव मूर्च्छयाऽऽलिङ्गि पार्थिवः ॥४२॥ राजानमभयोऽसिञ्चत् स्वयं शिशिरवारिणा । स्वस्थीभूते च तत्रोचे क्षेममन्तःपुरे प्रभो ! ॥४३॥ मन्मातॄणामप्रसादं प्रभो ! भाग्यविपर्ययात् । अकार्षीनिग्रहादेशादपराद्धं मया त्वदः ॥४४|| जीर्णाः करिकुटीस्तात ! शुद्धान्तस्याऽदवीयसी: । अधाक्षं युष्मदाज्ञामप्यविमृश्य करोमि न ॥४५|| राजोचे मम पुत्रोऽसि बुद्धिमानसि चाऽभय ! । समागच्छन् कलङ्को मे दूरं येनाऽपसारितः ॥४६॥ पारितोषिकदानेनाऽनुग्राह्याऽथाऽभयं नृपः । अत्युत्कश्चेल्लणादेवीदर्शने सदनं ययौ ॥४७|| ततो नवनवेनेव प्रेम्णा प्रतिदिन नृपः । अरंस्त चेल्लणादेव्या श्रीदेव्येव वृषाकपिः ॥४८॥ q[अन्येद्युः पार्थिवो दध्यौ चेल्लणा प्रेयसी मम । क: कर्तव्योऽन्यराज्ञीभ्यः प्रसादोऽस्यां विशेषवान् ? ॥४९॥ एकस्तम्भं तदेतस्याः प्रासादं कारयाम्यहम् । तत्र स्थिता क्रीडतु सा विमानस्थेव खेचरी ||५०|| उपायमिति निश्चित्य श्रेणिकोऽभयमादिशत् । एकस्तम्भं कारयेथाः प्रासादं चेल्लणाकृते ॥५१॥ अभयोऽपि स्तम्भयोग्यदानियनहेतवे । आदिशद्वर्धकिं सोऽपि दार्वर्थमटवीं ययौ ॥५२॥ पश्यन्नेकैकशो वृक्षानटव्यामथ वर्धकिः । वृक्षमेकमुदक्षिष्ट सर्वलक्षणलक्षितम् ॥५३॥ दध्यौ च बहलच्छायोऽभ्रंलिहः पुष्पितः फली । महाशाखो महास्कन्धः सामान्योऽयं तरुन हि ॥५४||
१. अनीदृशः - न ज्वलामीति भावनावान् । २. सतीश्रेष्ठाः । ३. एकः प्रतिर्यस्याः सा । ४. ०प्यभयादूचे मु. । ५. ०ष्यत्तदा० मु., नू. मु., खं. २-३-४ । ६. प्रभोः खं. १-२, मु., नू. मु. । ७. ०गच्छत् नू. मु. । ८. विष्णुः । ९. प्रसादोऽस्या वि० खं. १-४ ।